पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 729, कुल 1267 में से
संदर्भ में पढ़ेंHere is the line-by-line Devanagari transcription of the provided page:
६८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ४. ] एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः ॥ इति पाद्मे । (७) त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥ अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् । हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः ॥ इति च ब्रह्माण्डे ॥ २१ ॥ —: ❖ :— १३. अधिकरणम् ॥ (१) 'अद्भ्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भव भूत इत्यार्थः । तदवान्तरा इत्यस्यैकपदत्वे तस्य विष्णोस्तस्यां सृष्टौ द्वारभूता इत्यर्थः । यतस्सर्वरूपाणां स्रष्टाऽतः सर्वेनाम्नां चेत्यप्यन्वयः। तथा च पूर्वपक्षिश्रुतेः द्वारविषयत्वेन सावकाशत्वान्न तद्विरोध इति भावः । न च मुख्यार्थसम्भवे किममुख्यार्थाश्रयणेनेति वाच्यम् । यतः कर्तृत्वशक्तिरूपं मुख्यकर्तृत्वं 'एक एव स्रष्टा' इत्यनेन विष्णोरेव, नान्येषां तस्यैव त्रिवृत्कर्तृत्वादित्युक्त्वा 'ब्रह्माद्यास्तदवान्तराः' इत्य नेनेतरेषां द्वारकारणत्वरूपामुख्यकर्तृत्वमेवोक्तम् । इति पाद्मे इत्यस्य वचनादित्यध्याहारेण नामरूपक्लृप्तिः परादेवेति पूर्वेणान्वयः ॥ (७) सूत्रार्थं स्मृतिसमर्थितं चाह—त्रिवृदिति ॥ आद्यश्चस्त्वर्थः। तथाशब्द उपमायाम् । द्वितीयश्चशब्दः समुच्चये । भवतीति शेषः । तथा च 'यतस्त्रिवृत्क्रिया' पृथिव्यप्तेजसां मिश्रीभावकरणं विष्णोस्स म्बन्धि भवति । यतश्च रूपं 'तदपेक्षया' त्रिवृत्क्रियाऽपेक्षयैव भवति । यतश्च नाम 'रूपापेक्षं' तत्साध्यं यतश्च 'व्यवहारः' अभिलपनादिरूपः 'तदात्मकः'नामापेक्षः अतो नाम्नो रूपस्य व्यवहारस्य च हरिरेव 'एकराट्' स्वतन्त्रः कर्ता, नान्यः । यतः कर्ता भगवान् अतः सर्वजी वानां पिता । न केवलमेतावत्, किन्तु 'प्रभुः' स्वामी चेत्यर्थः स्मृति द्वयसमुच्चये चशब्दः ॥ १२ ॥ ॥ इति संशाधिकरणम् ॥ —: ❖ :— १३. अधिकरणम् ॥ (१) अत्राधिकरणे शरीरकारणश्रुतिविरोधः परिह्रियते । तन्नोप