पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 746, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ५. सू - ५. ] दीपिकासहितम्. ६९९ पुनश्शरीरसंप्राप्तौ तमेवानुविशन्ति च ॥ इति ब्राह्मे ॥ ( ४ ) ब्रह्माण्डे च— मृतिकाले जहत्येनं प्राणा भूतानि पञ्च च । भागतो भागस्त्वेनमनुगच्छन्ति सर्वशः ॥ इति ॥ ४ ॥ —::— ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ॐ ॥ ५ ॥ भोग्यलोकमनुप्राप्तम् ॥ इत्यैतरेयभाष्यस्याप्ययमेवाभिप्रायः । अत्र एकादशेन्द्रियाणां पञ्चभू- तानां च लिङ्गशरीरात्मना अनादितो जीवेन सह विद्यमानानामपि प्र- तिसृष्टिकाsubscription: तिसृष्टिकालं 'तेषां भूतैरुपचयः सृष्टिकाले विधीयते' इत्युक्तरीत्या उ- पचयो भवति । प्रलये च तदपचयः । उपचितभागेष्वपि मरणकाले केषां चिद्भागानां गमनम् । पुनश्शरीरप्राप्तावागमनं चेति विशेषः तुश- ब्देन चशब्देन च सूचितो द्रष्टव्यः ॥ ( ४ ) ननु भागतोऽग्नयादीन् प्रति गच्छद्भिः प्राणैस्सह भूतानां गतिरस्ति न वा । अस्ति चेत् न जीवेन सह गतिः, सामस्त्येन तान् प्रत्येव गतत्वात् । न चेत्प्राणभूतयोः समव्याप्त्यभाव इत्यत आह— ब्रह्माण्डे चेति ॥ न केवलं ब्राह्मे अग्नयादिप्राप्तेरुक्तिः, किन्तु ब्रह्माण्डे चेति समुच्चये चशब्दः । का उक्तिरित्यतः तां पठति—मृतीति । 'एनं' पुरुषं 'भागतो जहति' त्यजन्तीत्यर्थः । 'सर्वशो भूतानि' पृथिव्या- दिसर्वभूतानि प्राणांश्चैनमनुगच्छन्तीत्यर्थः । तथा च प्राणैस्सह भूता- नां भागतो गतिसत्त्वेऽपि न सर्वशो गमनमिति जीवेन सहापि भागतो गतिर्युक्तेति भावः । आद्यश्चशब्दः समुच्चये । द्वितीयस्तुशब्दार्थो विशेषद्योतकः ॥ ४ ॥ ॥ इति अग्नयाद्यधिकरणम् ॥ —::— ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भूतानां जीवेन सह गतिराक्षिप्य समाधीयते। पूर्व- पक्षस्य सूत्र एवोक्तत्वात् तत्पठित्वा पूर्वपक्षांशं तावद्व्याचष्टे-प्रथम इ- ति ॥ 'तस्मिन्' (छा. ५-४-२०) इति छान्दोग्यवाक्योदाहरणेन प्रथम इत्य