पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 751, कुल 1267 में से
संदर्भ में पढ़ें७०४ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - १. १० ] (तै. आ. ३-१३.) इति श्रुतेरात्मविद एव हि मुख्यम् । वाशब्दात्पारम्पर्येणात्मविद्पेक्षया वा । ( ३ ) तथा हि श्रुतिः—‘ स एनमविदितो न भुनक्ति यथा विधृत्यनुसारेण वाशब्दादित्यादेरन्यश्चार्थः-वाशब्दात्पारम्पर्येण कर्मिणा मृतत्वं ज्ञानोत्पत्तिद्वारेणेतीदं प्रकारान्तरेणापि व्याख्यातम् । तथा च तत्त्वप्रदीपे टीकोक्तप्रकारत्रयं विनाऽस्याप्युक्तत्वात् टीकायां प्रकार त्रयेत्युपलक्षणम् । सिद्धान्ते अपामेति श्रुतेरयमर्थः—यस्मात्सोमरस मपाम, सोमादिकर्मणा चान्तःकरणशुद्धिद्वारा देवान्विष्णुवादींस्तार तम्येन ‘अविदाम’ व्यजिज्ञासिष्म । अथ ‘ज्योतिः’ ब्रह्म ‘अगन्म’ अद्राक्ष्म, तस्मात् ‘अमृताः’ मुक्ता अभूमेति । यथोक्तं तत्त्वप्रदीपे— सोममपाम, देवानविदाम, ज्योतिरगन्म, अमृता अभूमेति । ज्योतिर्ब्र ह्मेत्युदितमिति च । ‘ज्योतिश्चरणाभिधानात्’ इत्यादौ ज्योतिर्ब्रह्मेत्यु दितमित्यर्थः । यद्वा—काम्यकर्मभिर्ज्योतिर्ब्रह्म ‘अगन्म’ अज्ञासिष्म, ‘ज्योतिः’ ब्रह्मज्ञानं ‘अगन्म’ प्राप्नुम इति वा । तेन च ‘देवान्’ अ र्चिरादिमार्गस्थान् ‘अविदाम’ प्राप्नुम इत्यर्थः । एवं चान्द्रमसं ज्यो तिरगन्म, ततो मार्गरूपान् धूमादिदेवान् अविदाम, ततोऽल्पकालममृ ता अभूमेति । प्रथमपक्षे यतः पूर्वकल्पे मनुष्याः सन्तो ज्योतिरपरोक्ष तोऽगन्म, अतो देवान्यथायोग्यं देवादित्वमविदामेति । तृतीयपक्षे च वाक्यशेषार्थो द्रष्टव्यः । यद्यपि कर्मनिर्णयटीकायां अमृता इवामृता इ ति गौण्या वृत्त्या मन्वन्तरापेक्षयाऽमृतशब्दस्य तत्साधनज्ञानलक्षणया तदेकदेशलक्षणया चेति त्रेधाऽमृतशब्दस्यामुख्यत्वरूपभाक्त्वोक्तेः अत्र चाकाम्यकर्मणां पारम्पर्येण मोक्षसाधनत्वपक्षेऽमृतशब्दस्य मुख्य त्वोक्तेर्विरोधः । तथाऽपि यथा कथञ्चित् श्रुतेरविरुद्धार्थोक्तौ तात्पर्या त्तत्रापि मुख्यत्वस्यैवाभिप्रेतत्वादविरोधः । यद्वा—वाचनिकार्थत्यागे नेति कर्मनिर्णयगतवाचनिकपदं न मुख्यार्थमात्रपरम्, किन्तु प्रतिपा द्यपरमिति सूचनाय तत्रामुख्यत्वोक्तावप्यत्र मुख्यत्वोक्तिरिति वा त त्त्वप्रदीपरीत्याऽत्राप्यमुख्यत्वान्ना न विरोधः ॥ ( ३ ) यदुक्तमनात्मवित्त्वान्न कर्मिणो मुख्यामृतत्वमिति । तदयुक्तम्, तेषामपि तदभ्युपगमे विरोधाभावादित्याशङ्कापरिहारायास्याः श्रुतेरु क्तार्थत्रयसमर्थनाय च तथा हि दर्शयतीत्यनेन ज्ञापिताः श्रुतीरुदाहर्तुं प्रतिजानीते—तथा हीति ॥ दर्शयतीत्यस्ति । तथा च ‘हि’ यतः