पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 752, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ७. सू - ७. ] दीपिकासहितम्. ७०५ वेदो वाऽननूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवा त्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपा ' तथा ' भक्तं वेत्युक्तप्रकारेण श्रुतिः ' दर्शयति ' प्रतिपादयतीत्यर्थः । अस्यात उक्तं युक्तमित्यध्याहृतेनान्वयः। श्रुतिरिति समुदायैकवचनम् । यद्यप्यनात्मविदां न मोक्ष इत्यस्मिन्नर्थे 'नान्यः' इति श्रुतिरुदाहृता । न च तत्रैव श्रुत्यन्तरमेतदिति वाच्यम् । तस्यापि पूर्वमेवोदाहर्तव्यत्वात् । त थाऽपि 'स य आत्मानम्' (बृ.३-४-१५.) इत्यादेरात्मविदपेक्षयेत्युक्तार्थ साधकत्वस्यापि सत्त्वात् अत्रोदाहरणम् । अत्रात्मविदामेव मुख्यामृत त्वं नानात्मविदामित्यर्थे 'स एनम्' इत्यारभ्य 'तत्तत्सृजते' इत्यन्तं बृह दारण्यकवाक्यं प्रमाणम् । आत्मविदां कर्मापेक्षया तदमृतत्वमित्यर्थे ' आत्मानमेव ' इत्यादिभागस्तस्तदमृतत्वमित्यस्मिन्नर्थे 'अमृतः' इति श्रुत्यन्तरम्, पारम्पर्येणेत्यर्थे 'कर्मणा' इत्यन्यश्रुतिः प्रमाणमिति विवे कः। इति चेत्यस्य श्रुतिरिति पूर्वेणान्वयः । चशब्दोऽनेकश्रुतिसमुच्चये। अनेनेतिशब्दः प्रत्येकं संयोज्य इति सूचितम्। श्रुत्यर्थस्तु-'अथ यो ह वा अस्माल्लोकमदृष्ट्वा प्रैति' (बृ.३-४-१५.) इति वाक्ये प्रकृतो योऽग्निविप्राद्यर्च कोऽधिकारी अखिलाश्रयत्वाल्लोकशब्दितं परमात्मानमदृष्ट्वाऽस्माद्देहात्प्रै ति तमेनं 'सः' हरिः 'अविदितः' तेनादृष्टो 'न भुनक्ति' नामृतत्वं भोजयति न पालयति चेति । अत्र दृष्टान्तमाह- यथेति । यथा वेदः ' अननूक्तो ' यथाविध्यनधीत ईश्वरज्ञानादिजननेनैनं श्रोत्रियं न भुन क्ति । अन्यद्वा निदर्शनं, यथा वा 'अकृतं' यथावदननुष्ठितं कर्म न फ लप्रदं तथेत्यर्थः । ननु विप्राग्न्यादिपूजनादिना मोक्षाभावेऽपि अश्वमे धादिमहत्कर्मानुष्ठानेन स भविष्यतीत्यत आह-यदि हेति । यदि 'अ नैवंवित् ' उक्तप्रकारेण परमात्मानपरोक्षज्ञानी महदपि 'पुण्यं' पुण्य साधनं अश्वमेधादि कर्म करोति, तदा 'अस्य' अज्ञानिनः 'तत्' कर्म 'अन्ततः' अन्ते स्वर्गादिफलभोगावसाने स्वल्पफलदानान्त इति वा क्षी यत एव 'ह' निश्चितम्, न तु पुनरक्षयमोक्षफलसाधनं, तस्मान्मुमुक्षुः 'लोकं' सर्वाश्रयं ज्ञानरूपं वा 'आत्मानं' विष्णुं 'उपासीत' जानीयाच्चे त्यर्थः। यद्वा-लोक्यत इति लोकशब्दः स्वरूपवाची 'आत्मानमेव लोक मुपासीत' (बृ.३-४-१५.) इतिवदित्यैतरेयभाष्योक्तेः परमात्माख्यं प्र ८२