पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 768, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १३. सू - १७. ] दीपिकासहितम्. ७२१ ( ३ ) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृ देक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद' इति पौत्रायणश्रुतेरविरोधः । ( ४ ) नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते । नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥ नुभवेन 'तद्व्यापारात्' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात् श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥ ( ३ ) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्या त्, तदेव कुत इत्यत आह—स इति ॥ इति श्रुतेरित्यस्य न सन्निहिते नाविरोधपदेनान्वयः, किं त्वदुःखेन । तद्व्यापारादित्यस्य नासिद्धिरी- त्युपस्कृतसाध्येन, अस्य चाविरोध इत्यनेनान्वयः । अविरोधः नरके दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः । प्रेरकत्वमङ्गीकृत्य तत्र दुःखाननुभवेन तत्रोक्तदोषपरिहारादिति भावः । 'सः' ईश्वरः स्वर्गादावनुविष्टस्सन् एक एव स्वतः प्रवृत्ति कृदित्यर्थः । ननु स्वर्गनरकादौ जीवेन सहावस्थानात्तद्वदीश्वरस्यापि तत्तद्गतसुखदुःखभोगः स्यादित्यत आह—नेति । 'असौ' ईश्वरः । ने त्यत्र हेतुः—प्रभुत्वादिति । तथा त्वे असार्वज्ञ्यं स्यात् यतो दुःखाभो गो दुःखानुभव इत्यत उक्तम्—सर्वं पश्यतीति । तत्र हेतुः—सर्वं कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह—नेति । य एवं वे दासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥ ( ४ ) सर्वं पश्यतीत्युक्तार्थे स्मृतिं चाह—नरकेऽपीति ॥ तर्हि सर्वज्ञस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह—नी चेति । अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तदेव सुमहत्तेजः करोति भगवान् महत् ॥ इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुः खादेर्भोग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते । तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥ इति गीतातत्पर्यवचनविरोधः । तथा भोगोऽनुभवः स्वीयतया साक्षा ९१