पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 767, कुल 1267 में से
संदर्भ में पढ़ें७२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति भारते ॥ १६ ॥ —::— १३. अधिकरणम् ॥ ( १ ) ईश्वरस्य नरकायुक्तेः ‘सर्वे विसृजति सर्वे विलाप यति सर्वे रमयति सर्वे न रमयति सर्वे प्रवर्तयत्यन्त रस्मिनिविष्टः’ इति कौषारवश्रुतिविरोध इति । ( २ ) अतो वक्ति— सू— ॐ ॥ तत्रापि च तद्व्यापारादविरोधः ॥ ॐ ॥ १७ ॥ चशब्दाददुःखानुभवेन । पापाधिक्यक्रमात् निर्दिष्टक्रमानुसारेण च । अधिकारिभेदज्ञापनाया- रोहावरोहयोर्मध्येऽप्येत्युक्तिः ॥ १२ ॥ ॥ इति अपिसप्ताधिकरणम् ॥ —: :* :* :— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे नरकस्य सद्दुःखत्वं समर्थ्यते । पूर्वपक्षमा- ह--ईश्वरस्येति ॥ हेतुगर्भमेतत् । न तत्र दुःखमिति शेषः । तथा च यदि नरके दुःखमङ्गीक्रियते तदा तत्र नारकिजनप्रेरकतया ईश्वरोऽप्य- ङ्गीकार्यः । तथा च तस्य जीववद्दुःखमप्यङ्गीकार्यम्, तच्चायुक्तम् । ई- श्वरत्वविरोधात् अतो न तत्र दुःखमस्तीत्यङ्गीकार्यमिति भावः । ननु नरके प्रेरकतया ईश्वरसत्त्वं नोपेयते, अतो नोक्तदोष इत्यत आह— सर्वमिति । सर्वमित्यतः प्रागन्यथेत्युपस्कार्यम् । ईश्वरस्य प्रेरकतया न- रके सत्त्वानभ्युपगम इति तदर्थः । ईश्वरः सर्वे जगत् ‘विसृजति’ विविधाकारेण सृजति ‘विलापयति’ नाशयति यो जनो रमणयोग्य- स्तँ सर्वे रमयति यस्तदयोग्यस्तं न रमयतीत्यर्थः । ‘अस्मिन्’ सर्वे- स्मिन् अन्तर्निविष्टो रमयति । प्रवृत्तिकृदित्यनेन प्रेरकत्वमुक्तं भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ नरकस्य सद्दुः- खत्वमुपेत्य तत्र प्रवर्तकतया ईश्वरसत्त्वाभ्युपगमे दुःखप्राप्तेः ईश्वरत्व- व्याकोप इति यो विरोध उक्तः तत्परिहारः कुतो न सूत्रित इत्यत आह—चशब्दादिति । अदुःखेति । नीचोच्चतापर्यवसितदुःखानुभवा- भावेनेत्यर्थः । इति समुच्चिनोतीति शेषः । सूत्रे तदिति व्यस्तं समस्तं च । तथा च न केवलं स्वर्गादौ, किन्तु ‘तत्रापि’ नरकेऽपि अदुःखा