पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 766, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १२. - सू - १६. ] दीपिकासहितम्. ७१९ १२. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ अपि सप्त ॥ ॐ ॥ १६ ॥ रौरवोऽथ महांश्चैव वह्निर्वैतरणी तथा । कुम्भीपाक इति प्रोक्तान्यनित्यनरकाणि च ॥ तामिस्रश्चान्धतामिस्रौ द्वौ नित्यौ सम्प्रकीर्तितौ । इति सप्त प्रधानानि बलीयस्तूतरोत्तरम् । एतानि क्रमश्रो गत्वैवारोहोऽथावरोहणम् ॥ १२. अधिकरणम् ॥ ( १ ) अत्र भगवद्द्वेषादिफलस्य नरकस्य नित्यत्वं समर्थ्यते । न रकभोगोऽनित्य एवेति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—अपति ॥ अत्र ‘नैवेत उत्तिष्ठन्ते’ (कौष्ठरव्य.) इति श्रुतेर्नरकभोगो भवत्येव नित्य इ ति सहेतुकसिद्धान्तप्रतिज्ञां बहिरेवाभिप्रेत्य तर्हि ‘यावदिन्द्राश्चतुर्दश’ ‘यावदाभूतसंप्लव’ इति वचनविरोध इत्याशङ्कापरिहाराय प्रवृत्तं सूत्रं स्मृत्युदाहरणेन व्याचष्टे-रौरव इति । भारते इत्यस्यापिपदेनानुकृष्टेन स्मरन्तीत्यनेनान्वयः । तथा च यतः स्मृतिकर्तारः संयमनानि सप्तापि नरकान् तेषु नित्यानित्यविभागं च स्मरन्ति । अतो न नरकसत्त्वे त दवान्तरविभागे च प्रमाणाभावो न वा नरकानित्यत्वोक्तिविरोधस्त स्यानित्यविषयत्वादिति सूत्रार्थः । तत्त्वप्रदीपे तु—यद्यपि बहुकोटयो नरकाः, तथाऽपि सप्त प्रधानानीत्यपिशब्दार्थः । दर्शयति च आचार्यः ‘इति सप्त प्रधानानि’ इति सौत्रापिशब्दस्यार्थान्तरप्रतिपादनपरेति सप्तप्रधानानीति भाष्यानुसारेणापिपदं बहुनरकाभिधायकपुराणविरो धपरिहाराय यद्यपितथाऽपीत्यर्थकतया व्याख्यातम् । एतदपि टीका कृदनुमतमेव । सप्तप्रधानानीत्यनेन पुराणविरोधोऽपि परिहृत इत्यु क्तेः । अनेन भाष्ये भारर्तोदाहरणमुपलक्षणम् । अत एवापिपदात् स्म रन्तीति बहुस्मृतिसूचकबहुवचनान्तपदमाकृष्टम् । स्मृतावथेत्यर्थान्त रे । तदेवाह—महानिति । महारौरव इत्यर्थः । चः समुच्चये । तथैवे त्यन्वयः । उपमार्थस्तथाशब्दः । तुरेवार्थः । ननु ‘तत्र हैके नरकानेक विंशतिं गणयन्ति अष्टाविंशतिनरका एवंविधा नरका यमालये सन्ति शतशः सहस्रशः’ इत्यादिना भागवतादौ नरकबाहुल्योक्तेस्तद्विरो धोऽस्येत्यत आह—इति सप्त प्रधानानि नरकाणीति । एतेषूत्तरोत्तरं पूर्वपूर्वनिर्दिष्टानपेक्षया ‘बलीयो’ दुःखाधिक्ययुक्तम् । ‘क्रमशः’