पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 765, कुल 1267 में से
संदर्भ में पढ़ें७१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] ( ४ ) सू— ॐ ॥ स्मरन्ति च ॥ ॐ ॥ १५ ॥ गच्छन्ति पापिनस्सर्वे नरकं नात्र संशयः । तत्र भुक्त्वा पतन्त्येव ये द्विषन्ति जनार्दनम् ॥ महातमसि मग्नानां न तेषामुत्थितिः क्वचित् । इतरेषां तु पापानां व्युत्थानं विद्यतेऽपि च ॥ सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् । इति सर्वत्र नियमः पञ्चकष्टे तु तत्सदा ॥ इत्यादि ॥ १५ ॥ ः[icon]ः ( ४ ) उक्तार्थे स्मृत्या समर्थयत्सूत्रं पठित्वा तां स्मृतिमुदाहरति— स्मरन्ति चेति ॥ सूत्रे दर्शनपदोक्तश्रुतिस्मरणयोः समुच्चये चशब्दः । इत्यादि स्मरन्तीत्यन्वयः । स्मृतिकर्तार एवंभूतां स्मृतिं कुर्वन्तीत्य र्थः । इत्यादीत्यनेन सूत्रगतबहुवचनकृत्यमुक्तं भवति । आदिपदेन तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ (Bhag. Gītā XVI, 19) इत्यस्याः— सर्वदेववरत्वं यो न जानाति केशवम् । तस्य पुण्यानि मोघानि याति चान्धंतमो ध्रुवम् ॥ इत्यादेश्च सङ्ग्रहः । यत इत्यादि स्मरन्ति, अतोऽप्युक्तं युक्तमिति सू- त्रार्थः । स्मृत्यर्थस्तु—सर्वेऽपि पापिनो नरकं गच्छन्ति । तत्र संयमनं चानुभवन्ति नात्र संशयः । 'तत्र' पापिषु ये जनार्दनं द्विषन्ति । उप- लक्षणमेतत् । पूर्वश्रुत्युदाहृतं सर्वं ग्राह्यम् । ते नरके किञ्चित्कालं दुः खं भुक्त्वा ततोऽवरुह्य महातमसि पतन्त्येव । तत्र मग्नानां तेषां च क- चिदपि 'नैवोत्थितिः' नारोहोऽस्ति तत्राभिधत्वादिति भावः । द्वेषि- भ्य इतरेषां 'पापानां' पापवतां तु 'व्युत्थानं' पापस्थानादारोहः फ- लतो निवृत्तिश्च कदाचिद्विद्यते । नैवं तमसि मग्नानाम् । अपि च—'सु- खस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्' इति सर्वत्रानित्यनरके नि- यमोऽस्ति । रौरवादिभ्यः पञ्चभ्योऽपि कष्टे पञ्चेन्द्रियाणि प्रति कष्टे दुस्सहशब्दादिपञ्चकयुक्तत्वात्पञ्चकष्टे इति वा एतादृशे नित्यनरके तु 'तत्' दुःखं सदाऽस्तीति ॥ ११ ॥ ॥ इति अनिष्टाधिकरणम् ॥ ―――* ⁕ *―――