पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 764, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - १४. ] दीपिका सहितम्. ७१७ ततस्ते नैवेत उत्तिष्ठन्तेऽपि कर्हिचित् वत्रं वा एतदित्या- हुरथ येऽन्ये ब्रह्मद्विषः स्तेनाः सुरापा इति ते वै तदनु भूयेमं लोकमनुव्रजन्ति' इति कौण्ठरव्यश्रुतेः ॥ १४ ॥ तेः एवंविधगतेः श्रुतिसिद्धत्वादित्येवं तच्छब्दावृत्त्या व्याख्यातो भव- ति । श्रुतौ अशुभकृत इत्यस्य शुभकर्मकारिणस्तद्विरुद्धाशुभकर्मका- रिणश्चेत्यर्थः । एतेन सर्व इत्यनेनाशुभमात्रस्य नरकपातो न तत्र नियम इति सूचितम् । संयमने प्रपतन्तीत्यनेन सौत्रसप्तम्यर्थो दर्शितः । तत्र तेषु मध्य इत्यनेनेतरेषामिति व्याख्यातम् । 'परद्विषः' हरिद्विषः विष्णुद्वेषो नाम तत्र प्रतीपबुद्धिः । सा च 'जीवाभेदो निर्गुणत्वम्' इत्या- द्यागमादनेकविधा द्रष्टव्या । 'श्रुतिद्विषः' वेदद्व