भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

७२० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति भारते ॥ १६ ॥ —::— १३. अधिकरणम् ॥ ( १ ) ईश्वरस्य नरकायुक्तेः ‘सर्वे विसृजति सर्वे विलाप यति सर्वे रमयति सर्वे न रमयति सर्वे प्रवर्तयत्यन्त रस्मिनिविष्टः’ इति कौषारवश्रुतिविरोध इति । ( २ ) अतो वक्ति— सू— ॐ ॥ तत्रापि च तद्व्यापारादविरोधः ॥ ॐ ॥ १७ ॥ चशब्दाददुःखानुभवेन । पापाधिक्यक्रमात् निर्दिष्टक्रमानुसारेण च । अधिकारिभेदज्ञापनाया- रोहावरोहयोर्मध्येऽप्येत्युक्तिः ॥ १२ ॥ ॥ इति अपिसप्ताधिकरणम् ॥ —: :* :* :— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे नरकस्य सद्दुःखत्वं समर्थ्यते । पूर्वपक्षमा- ह--ईश्वरस्येति ॥ हेतुगर्भमेतत् । न तत्र दुःखमिति शेषः । तथा च यदि नरके दुःखमङ्गीक्रियते तदा तत्र नारकिजनप्रेरकतया ईश्वरोऽप्य- ङ्गीकार्यः । तथा च तस्य जीववद्दुःखमप्यङ्गीकार्यम्, तच्चायुक्तम् । ई- श्वरत्वविरोधात् अतो न तत्र दुःखमस्तीत्यङ्गीकार्यमिति भावः । ननु नरके प्रेरकतया ईश्वरसत्त्वं नोपेयते, अतो नोक्तदोष इत्यत आह— सर्वमिति । सर्वमित्यतः प्रागन्यथेत्युपस्कार्यम् । ईश्वरस्य प्रेरकतया न- रके सत्त्वानभ्युपगम इति तदर्थः । ईश्वरः सर्वे जगत् ‘विसृजति’ विविधाकारेण सृजति ‘विलापयति’ नाशयति यो जनो रमणयोग्य- स्तँ सर्वे रमयति यस्तदयोग्यस्तं न रमयतीत्यर्थः । ‘अस्मिन्’ सर्वे- स्मिन् अन्तर्निविष्टो रमयति । प्रवृत्तिकृदित्यनेन प्रेरकत्वमुक्तं भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ नरकस्य सद्दुः- खत्वमुपेत्य तत्र प्रवर्तकतया ईश्वरसत्त्वाभ्युपगमे दुःखप्राप्तेः ईश्वरत्व- व्याकोप इति यो विरोध उक्तः तत्परिहारः कुतो न सूत्रित इत्यत आह—चशब्दादिति । अदुःखेति । नीचोच्चतापर्यवसितदुःखानुभवा- भावेनेत्यर्थः । इति समुच्चिनोतीति शेषः । सूत्रे तदिति व्यस्तं समस्तं च । तथा च न केवलं स्वर्गादौ, किन्तु ‘तत्रापि’ नरकेऽपि अदुःखा

[ अधि - १३. सू - १७. ] दीपिकासहितम्. ७२१ ( ३ ) 'स स्वर्गे स भूमौ स नरके सोऽन्धे तमसि प्रवृत्तिकृ देक एवानुविष्टो नासौ दुःखभुगीश्वरः प्रभुत्वात्सर्वं पश्यति सर्वं कारयति नासौ दुःखभुग्य एवं वेद' इति पौत्रायणश्रुतेरविरोधः । ( ४ ) नरकेऽपि वसन्नीशो नासौ दुःखभुगुच्यते । नीचोच्चतैव दुःखादेर्भोग इत्यभिधीयते ॥ नुभवेन 'तद्व्यापारात्' तस्येश्वरस्य प्रेरणाख्यव्यापाराभ्युपगमात् श्रुतियुक्तिविरोधाभाव इति सूत्रार्थः ॥ ( ३ ) भवेदयमुभयविरोधाभावो यद्यस्यार्थस्य प्रामाणिकत्वं स्या त्, तदेव कुत इत्यत आह—स इति ॥ इति श्रुतेरित्यस्य न सन्निहिते नाविरोधपदेनान्वयः, किं त्वदुःखेन । तद्व्यापारादित्यस्य नासिद्धिरी- त्युपस्कृतसाध्येन, अस्य चाविरोध इत्यनेनान्वयः । अविरोधः नरके दुःखमङ्गीकृत्य ईश्वरस्य नारकिप्रेरकत्वपक्षोक्तदोषो नेत्यर्थः । प्रेरकत्वमङ्गीकृत्य तत्र दुःखाननुभवेन तत्रोक्तदोषपरिहारादिति भावः । 'सः' ईश्वरः स्वर्गादावनुविष्टस्सन् एक एव स्वतः प्रवृत्ति कृदित्यर्थः । ननु स्वर्गनरकादौ जीवेन सहावस्थानात्तद्वदीश्वरस्यापि तत्तद्गतसुखदुःखभोगः स्यादित्यत आह—नेति । 'असौ' ईश्वरः । ने त्यत्र हेतुः—प्रभुत्वादिति । तथा त्वे असार्वज्ञ्यं स्यात् यतो दुःखाभो गो दुःखानुभव इत्यत उक्तम्—सर्वं पश्यतीति । तत्र हेतुः—सर्वं कारयतीति । कैमुत्यन्यायेनेश्वरस्य दुःखाभोगमाह—नेति । य एवं वे दासावधिकार्यपि न दुःखभुक्, किमीश्वर इत्यर्थः ॥ ( ४ ) सर्वं पश्यतीत्युक्तार्थे स्मृतिं चाह—नरकेऽपीति ॥ तर्हि सर्वज्ञस्य कथं दुःखाभोगः, अनुभवस्यैव भोगत्वादित्यत आह—नी चेति । अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तदेव सुमहत्तेजः करोति भगवान् महत् ॥ इति बृहद्भाष्योक्तदिशा तूलपिण्डस्येव स्वरूपसङ्कोचविकासावेव दुः खादेर्भोग इत्युच्यते, न तत्साक्षात्कारमात्रमित्यर्थः । न च तद्गतानां तु भोगानां भोगोऽभिमतिरुच्यते । तदभावान्नाभिमानी भगवान् पुरुषोत्तमः ॥ इति गीतातत्पर्यवचनविरोधः । तथा भोगोऽनुभवः स्वीयतया साक्षा ९१

७२२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] नासौ नीचोच्चतां याति पश्यत्येव प्रभुत्वतः ॥ इति भागवततन्त्रे ॥ १७ ॥ १४. अधिकरणम् ॥ ( १ ) ‘अथैतयोः पथोर्न कतरेण च तानीमानि क्षुद्रमिश्राण्य सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येत तृतीयं स्थानम्’ ( छा. ५-१०-८. ) इति गतिस्वात- त्कार इति गीताभाष्यप्रमेयदीपविरोधः । अत्रोभयत्राभिमानरूपसम्ब- न्धेन स्वीयतया सुखादिसाक्षात्कारो भोग इत्युक्तत्वादिति वाच्यम् । अस्य लक्षणान्तरपरत्वात्, एवकारेण च केवलसाक्षात्कारव्यावर्तना- त् । एवं जीवस्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वात् तयोरीश्वरे चाऽभा- वान्नासौ दुःखभुगिति । ततः किमित्यत आह—नेति । ‘असौ’ ईश्व- रः ‘पश्यति’ दुःखादिकं सर्वं, तथा च दुःखादिसाक्षात्कारमात्रस्य भोगत्वाभावान्नीचोच्चतायारेव भोगत्वात्तयोश्च दुःखादिविषयकजीव- स्वरूपभूतसाक्ष्यनुभवप्रयोज्यत्वादीश्वरे तदभावे तयोरप्यभावात् स- र्वगत्वेऽपीश्वरस्य न दुःखभोग इति भावः । जीवसहभूतस्यापीश्वर- स्य दुःखादिसाक्षात्कार एव, न तु भोग इत्यत्र हेतुमाह—प्रभुत्वत इति । भागवततन्त्र इत्यस्य सर्वे पश्यतीत्याद्युक्तमित्यध्याहृतेना- न्वयः ॥ १३ ॥ ॥ इति तत्राप्यधिकरणम् ॥ १४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवानां गतिस्वातन्त्र्यं निराक्रियते । पूर्वप- क्षयति—अथेति ॥ इतीत्यनन्तरं छन्दोगश्रुताविति शेषः । गतिः मार्ग- रूपं फलम् । तत्र स्वातन्त्र्यमित्यर्थः । ‘भूतानां’ जीवानां ‘प्रतीयते’ प्रतिपाद्यते यत इति शेषः । अस्य अतोऽस्त्येव भूतानां गतिस्वातन्त्र्य- मित्यनुवृत्तसाध्येनान्वयः । श्रुतौ गच्छन्तीति शेषः । तथा च ‘अथ’ यदि ‘एतयोः पथोः’ ‘तद्य इत्थं विदुः ये चेमेऽरण्ये श्रद्धा तप इत्यु- पासते तेऽर्चिषमभिसम्भवन्ति....अथ य इमे ग्राम इष्टापूर्ते दत्तम- त्युपासते ते धूममभिसम्भवन्ति’ ( छा. ५-१०-३. ) इति पूर्ववाक्ये प्र- कृतयोर्ज्ञानिकर्मिप्राप्ययोरर्चिरादिधूमादिमार्गयोर्मध्ये सिद्धान्तरीत्या

[ अधि- १४. - सू- १८. ] दीपिकासहितम्. ७२१ न्त्र्यं भूतानां प्रतीयत इति । ( २ ) अत आह— सू— ॐ ॥ विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ॐ ॥ १८ ॥ विद्याकर्मापेक्ष्यैतद्वचनम् । तयोरपि प्रकृतत्वात् । ( ३ ) विद्यापथः कर्मपथो द्वौ पन्थानौ प्रकीर्तितौ । ज्ञानकर्मणोर्मध्य इति वा यानि ' कतरेण च ' कतरेणापि पथा न ग- च्छन्ति, तदा तानीमानि ' क्षुद्रमिश्राणि ' क्षुद्राण्यल्पानि सुखदुःखा- भ्यां मिश्राणि च ' असकृदावृत्तीनि ' सदा गत्यादिमन्ति भवन्ति । ' जायस्व म्रियस्व ' क्रियासमभिहारे लोट्, पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः, लोटः स्वप्रत्ययः । तथा च पुनःपुनः जाय- न्ते म्रियन्ते चेत्यर्थः । ' इत्येतत् ' इत्येवंरूपं स्वर्गापवर्गयोरन्यत्तृतीयं स्थानं प्राणिनामावासस्थलमित्यर्थः । केचित्तु—' नैकतरेण च गच्छ- न्ति चेत् ' इति श्रुतिपाठमाहुः । तच्छान्दोग्यसम्प्रदायपाठविरुद्धम् । न गच्छन्ति चेदिति प्रयोगो युज्यत इति टीका तु अथशब्दस्य चेदर्थक- त्वं गच्छन्तीत्यध्याहारं चाभिप्रेत्य । अत एव छान्दोग्यव्यासतीर्थीये गच्छन्तीति शेष इत्युक्तमिति ध्येयम् ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विद्येति सा- वधारणम् । ज्ञानकर्माख्यार्थमपेक्ष्यैवेत्यर्थः । 'एतद्वचनं' एतयोरिति प- दम् । यत इति शेषः । कुतोऽयमस्यार्थ इत्यत आह—तयोरिति । न केवलमर्चिर्धूमादिमार्गयोरित्यपिशब्दार्थः । अनेन सूत्रे विद्येत्यस्यावृ- त्तिः । इतिशब्दौ वचनविशेषद्योतकः । तुशब्द एवार्थोऽप्यर्थश्च । कर्म- णि च षष्ठी । साध्ये चाध्याहार्यम् । तथा च यतः देवयानपितृयाणरू- पफलयोरिव विद्याकर्माख्यसाधनयोरपि 'तद्य इत्थं विदुः' (छा. ५- १०-१०) इति पूर्ववाक्ये प्रकृतत्वादेतयोरिति पदं 'विद्याकर्मणोः स्या- त् ' तत्परामर्शकमेव भवेत्, न तु मार्गरूपफलपरामर्शकम् । अतो न तद्वलाद्भूतानां गतिस्वातन्त्र्यं मन्तव्यमिति सूत्रार्थ उक्तो भवति ॥ ( ३ ) नन्वेतयोरित्यस्य मार्गतत्साधनरूपार्थद्वये सम्भवति सति किं साधनमात्रार्थग्रहणे कारणमित्यतः श्रुतिस्मार्त्यैवेति भावेन वि- द्याकर्मपदसूचितां स्मृतिमाह—विद्येति ॥ 'विद्यापथो' विद्यामार्गः । 'कर्मपथः' कर्ममार्गः । तदुभयात्मकं साधनमिति यावत् । 'प्रकीर्ति- तौ' एतयोरितिशब्दबोध्याविति यावत् । यद्वा—'आत्मा वा अरे द्र-

७२४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] तद्वर्जितस्त्रिधा याति तिर्यग्वा नरकं तमः ॥ इति ॥ १८ ॥ १५. अधिकरणम् ॥ ( १ ) यत्र दुःखं सुखं तत्र सर्वत्रापि प्रतीयते । अपि नीचगतौ किञ्चित्किमु मानुषदेहिनः ॥ इति वचनान्महातमस्यपि सुखप्राप्तिरिति । ष्टव्यः ' (बृ. ४-४-५.) 'तद्विजिज्ञासस्व' (तै. ३-१.) 'ज्योतिष्टोमेन यजेत' (आप. श्रौ. १०-२-१.) इत्यादौ विहितावित्यर्थः । विद्यापथः कर्मपथ इत्यकारान्तौ शब्दौ । 'तद्वर्जितः' तदुभयवर्जितो जनः 'त्रिधा' प्रकारत्रयेण 'याति' प्रकारत्रयोपेतं फलं प्राप्नोतीत्यर्थः । तानेव प्र कारानाह-तिर्यगिति । भावनिर्देशोऽयम् । जायस्व म्रियस्वेत्युक्तगति रित्यर्थः । उक्तं हि तत्त्वप्रदीपे-तिर्यङ्नरकं तम इति । तत्र प्रथमं स्पष्टमुक्तम्-जायस्व म्रियस्वेति । इतरे चोक्ते 'संयमने' इत्यादिने ति । अनेन नरकार्थतया यातनापदमपि व्याख्यातम् । वाशब्द उभ यत्र सम्बध्यते । भारते इत्यनन्तरं वचनादिति शेषः । अस्य विद्या कर्मापेक्षयेति पूर्वेणान्वयः । केचित्तु-सूत्रे इतिशब्दः सौत्रपदा र्थोक्तिपरः । अर्थशब्दश्चाध्याहार्यः । तथा चैतयोरित्यस्य 'विद्याकर्म णोरिति' तु विद्याकर्मणोरेवार्थः, न तु मार्गयोरित्यपीति सूत्रार्थमा हुः ॥ १४ ॥ ॥ इति विद्याधिकरणम् ॥ १५. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽन्धतमसस्य दुःखमात्रत्वं समर्थ्यते । पूर्वपक्ष यति-यत्रेति ॥ इति वचनादिति । इत्येतद्वचनगृहीतव्याप्तिकदुःखयु क्तत्वहेतोरित्यर्थः । तथा च परसुखदुःखयोरप्रत्यक्षत्वाद्व्याप्तिग्रहणा योग इति चोद्यानवकाशः । अत्र यस्मिन् यस्मिन् दुःखं तत्र स र्वत्रापि सुखमस्ति न तु क्वचिदिति नियतसहचारप्रतीतेरिति भावः । सर्वत्रेत्युक्तमुपपादयति-अपीति । विशेषणसमुच्चयार्थोऽपिः । तथा च यदा दुःखाकरत्वेन प्रसिद्धायामपि 'नीचगतौ' नरके किञ्चि त्सुखमस्ति तदा मानुषदेहिनो गतौ सुखमस्तीति किमु वक्तव्यमित्य र्थः । तथा च न कुत्रापि व्यभिचार इति भावः । महातमस्यपीति । त्रिविधाधोगतिषु मध्ये न केवलं मानुषादौ नरके च, किन्तु महादुः

[ अधि - १५. सू - २०. ] दीपिकासहितम्. ७२५ ( २ ) अत आह— सू—न तृतीये तथोपलब्धेः ॥ ॐ ॥ १९ ॥ 'अथाविद्वानकर्माऽवाग्गच्छति । त्रिधा ह वावाग्गति स्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तम स्सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति' ( ) इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ १९ ॥ ( ३ ) सू— ॐ ॥ स्मर्यतेऽपि च लोके ॥ ॐ ॥ २० ॥ तिर्यक्षु नरके चैव सुखलेशो विधीयते । नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन ॥ खत्वेन प्रसिद्धे तमस्यपीत्यर्थः । प्राप्तिरिति । अस्ति तमोयोग्यस्येति शेषः । अनेनान्धं तमोऽपि सुखयुक्तमेवेति पूर्वपक्षसाध्यं दर्शितम् । सुखप्राप्तिरपीत्यन्वये सति दुःखयुक्तत्वादिति हेतुरपि दर्शितः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अर्थान्तरारम्भे ऽथशब्दः । 'अविद्वान्' मुक्तिहेतुज्ञानरहितः 'अकर्मा' स्वर्गाद्या पादककर्मरहितो दुष्कर्मा सात्त्विकतामसो राजसतामसश्च 'अ वाक्' अधोगतिं 'गच्छति' प्राप्नोति । तां विभजते—त्रिधेति । 'त्रिधा ह वाऽवाग्गच्छति' इति श्रुतिपाठः । हेति प्रसिद्धौ । वावेत्यवधारणे । तत्त्वप्रदीपोक्तरीत्या समाने लोप इति एकवकारलोपः । अवाग्गच्छती ति यत्तत्त्रिधैवेत्यर्थः । त्रैविध्यमेव दर्शयति—तिर्यगिति । तिर्यक्त्वमित्य र्थः । साच नानायोनिप्राप्तिरूपा 'जायस्व म्रियस्व' इत्युक्ता तृतीया ग तिः । 'यातना' नरको दुर्भरत्वं वा । यथोक्तं गीतातत्पर्ये—'दुर्भर त्वं च तिर्यक्त्वं तमश्चेति फलं क्रमात्' इति । इति त्रिधैवेत्यन्वयः । तासां लक्षणमाह—द्वे इति । 'अनुवृत्ते' युक्ते । न तमः सुखयुक्तमि त्यत्र हेतुमाह—'हि' यतः 'केवलं' अत्यन्तं 'अत्र' तमसि दुःखं 'भवति' प्राप्यते । इति श्रुतेरित्यनेन तथोपलब्धेरिति हेतुर्व्याख्यातः । न तृतीयेति । 'तिर्यग्वा नरकं तमः' इत्युक्ताधोगतिषु 'तृतीये' तम सि न सुखमस्तीत्यर्थः । अनेन सुखमस्तीत्यध्याहृतसाध्यभागो व्या ख्यातः ॥ ( ३ ) एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां स्मृतिमुदाहरति—स्मर्यते इति ॥ तिर्यक्ष्विति । 'क्षुद्रमिश्राणि' इत्यु क्ततृतीयगतावित्यर्थः । 'विधीयते' अस्तीत्युच्यते आगमेषु । 'मग्ना

७२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति भविष्यत्पर्वणि । (४) लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह । (५) अतिप्रिये यथा राजा न दुःखं सहते क्वचित् । अत्यप्रिये सुखमपि तथैव परमेश्वरः ॥ इति हि ब्राह्मे ॥ २० ॥ (६) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥ ष्टां' स्थितानां 'कश्चन' किंनिमित्तोऽपीत्यर्थः । किमु यथेष्टमित्यपेर- र्थः । भविष्यत्पर्वणीत्यस्य स्मर्यत इत्यनेनान्वयः ॥ (४) लोक इत्येतदनुमानसूचक तया व्याख्याति— लोकसिद्धमि- ति ॥ 'एतत्' अन्धे तमसि सुखराहित्यं लौकिकदृष्टान्तयुक्तानुमानसि- द्धं चेत्यर्थः। न केवलं स्मृतिसिद्धमिति चार्थः। चेत्यनेन अपिः व्याख्या- तः । अनुमानप्राबल्यहेतुस्मृतिसिद्धत्वसूचकतया चशब्दं व्याख्या- ति— चशब्दादिति । न केवलं तमसः सुखराहित्यं श्रुतिसिद्धं, किन्तु 'लोकसिद्धिः' लौकिकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धि- रपि 'स्मार्ता' स्मृतिसिद्धेति चशब्दात् सूत्रकारः 'आह' सूचयती- त्यर्थः । तथा च लोकसिद्धत्वं च स्मर्यत इति चशब्दान्वय इति भावः॥ (५) काऽसौ स्मृतिरित्यत आह— अतीति ॥ राजा यथा अतिप्रि- ये पुरुषे क्वचित्कालेऽपि दुःखं न सहते, किन्तु सुखमेव । यथा चात्य- प्रिये सुखं न सहते, किन्तु दुःखमेव, तथा परमेश्वरोऽपीत्यर्थः । अने- न विप्रतिपन्नास्तामसाः न सुखित्वेन ईश्वरेणः अप्रियत्वादिति सूत्रकृ- दभिप्रेतानुमाने पादद्वयेन राजप्रिये व्यतिरेकव्याप्तिः तृतीयेन तु राज- विप्रियेऽन्वयव्याप्तिश्च दर्शिता भवति । अथवा— पूर्वे सदसज्जनानां प्रकृतत्वात्तेषां प्रकृतिः स्वरूपमत्रोच्यते । न चासङ्गतिः । प्रियत्वाप्रिय- त्वाभ्यां सदसज्जनेषु दुःखसुखासहने साध्ये अनुमानद्वयेऽप्यन्वयव्य- तिरेकदृष्टान्तप्रदर्शनार्थत्वेन सङ्गतत्वात् । यद्यपि नानेनानुमानेन तमसः सुखराहित्यसिद्धिः। तथाऽप्यनेन सिद्धेन सुखित्वेनेश्वरानिष्टत्वेन हेतु- ना तामसानां सुखराहित्यसिद्धौ तमसस्तद्रहितत्वमपि सिद्ध्यतीति तात्पर्यम् । इति हीति । हिशब्दो यत इत्यर्थे । तथा च ब्राह्मे पुराणव- चने यत इत्युक्तं अतः चशब्दादित्युक्तं युक्तमित्यन्वयः ॥ (६) प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे— दर्श- नाच्चेति ॥ दर्शनवचनादित्यनेन दर्शनादित्येतद्दर्शनवचनादिति व्या-

[ अधि - १५. सू - २१. ] दीपिकासहितम्. ७२७ नारायणप्रसादेन समिद्धज्ञानचक्षुषा । अत्यन्तदुःखसंलीनान्निशेषसुखवर्जितान् ॥ नित्यमेव तथाभूतान्विमिश्रांश्च गणान् बहून् । निरस्ताशेषदुःखांश्च नित्यानन्दैकभागिनः ॥ अपश्यत्त्रिविधान्ब्रह्मा साक्षादेव चतुर्मुखः । ख्यातम् । अनेन हेत्वसिद्धिः परिहृता । पाद्मे दर्शनप्रतिपादकवचना दित्यन्वयः । चशब्दस्तु न वचनान्वितः, किन्तु दर्शनान्वितः । तस्य तमसः सुखराहित्ये साध्ये हिरण्यगर्भकर्तृकप्रत्यक्षाख्यहेतुसमुच्चयार्थ त्वात् । सम्यग्दीप्तं दीप्तं समिद्धं, समृद्धमिति पाठे सम्यगभिवृद्धमि त्यर्थः । समिद्धं च तत् ज्ञानचक्षुश्चेति विग्रहः । चक्षुर्हशिः । तथा च चतुर्मुखो नारायणप्रसादेन समृद्धज्ञानचक्षुषा 'साक्षात्' परमुखमन्त रेण स्वयमेव त्रिविधान् जीवानपश्यदित्यन्वयः । तानेव प्रकारिणो द र्शयति—अत्यन्तेति । 'संलीनान्' मग्नान् । अनेन पादद्वयेन तमोयो ग्याः सङ्गृहीताः । नित्यमेवेति पादद्वयेन नित्यसंसारिणः । 'तथाभूता न्' मिश्रभूतान्। निरस्तेति पादद्वयेन मोक्षयोग्याः । जीवानिति शेषः । चौ परस्परसमुच्चये । अत्र तत्त्वप्रदीपे--'अपश्यत्त्रिविधान्ब्रह्म' इत्यु क्तम् । त्रैविध्यं त्रिष्वपि तेषु नित्यदुःखिषु विमिश्रेषु नित्यसुखिषु च अवान्तरभेदादवगन्तव्यम् । 'महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽ धरम्' इति हि वक्ष्यति दुःखतारतम्येन भेदं तदायतनानाम् । विमि श्रभेदस्तु अल्पसुखसममिश्राल्पदुःखभेदान्नारकिणो मानुषाः स्वर्गिण इति । मनुष्योत्तमा ऋषिगन्धर्वा देवा इति मुक्तेषु नित्यसुखिषु च सु खतारतम्याद्भेद उक्तः । एतेषु नित्यमेव तथाभूतत्वं च समानम् । वि मिश्रेषु नित्यमतथाभाविनश्च सन्ति । स्वरूपस्थितमध्यम एव नित्यं तथा भावात्सर्वेषां च जीवानां आस्वरूपावस्थानाद्विमिश्रत्वमेवेत्यनेक शो विमिश्राः । अत एव तदाह--विमिश्रांश्च गणान्बहूनिति । तच्च विमिश्रत्वमनन्तविधमिति सूचयति—विमिश्रानिति, इत्युक्तम् । अने न त्रिविधानित्यस्य प्रत्येकं त्रिविधानित्यर्थः सूचितः । 'तदायतना नां' नित्यदुःखस्थानानामित्यर्थः । विमिश्रभेदस्तु नारकिणो मानुषाः स्वर्गिण इत्युक्त इत्यन्वयः। कथम्? अल्पसुखादिभेदात् । अल्पसुखमि श्राः सुखदुःखसाम्येन मिश्राः अल्पदुःखमिश्राश्चेति भेदादित्यर्थः ।

७२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति दर्शनवचनाच्च पाद्मे ॥ २१ ॥ ( ७ ) सू-ॐ ॥ तृतीये शब्दावरोधः संशोकजस्य ॥ ॐ ॥ २२ ॥ तृतीये तृतीयतमसः श्रवणादेव शब्दानुसारेण संशो 'नारकिणो' नरकप्रचुराः 'मानुषाः' भूप्रचुराः 'स्वर्गिणः' स्वर्गप्र चुराः । भेदः उक्त इति । 'तत्र मन्दा मनुष्येषु' इत्यादिप्रमाणोक्त इ त्यर्थः । 'एतेषु' त्रिषु तमोयोग्यादिषु नित्यमेव 'तथाभूतत्वं' स्वस्व रूपावस्थितत्वम् । समानमित्यनेन नित्यमेव तथाभूतानित्येतत्त्रिविधा नामपि विशेषणमिति सूचितम् । विमिश्रेषु नित्यमतथाभाविनश्च स न्तीत्यनेन मुक्तियोग्यादीनां त्रयाणामपि विमिश्रत्वं सूचितम् । परं तु मुक्तियोग्यतमोग्ययोः 'आस्वरूपावस्थानात्' स्वरूपाविर्भावपर्यन्त मेव,

[ अधि - १५. सू - २३. ] दीपिकासहितम्. ७२९ कजमोहप्राप्तिः ॥ २२ ॥ (८) सू—ॐ ॥ स्मरणाच्च ॥ ॐ ॥ २३ ॥ महातमस्त्रिधा प्रोक्तमूर्ध्वं मध्यं तथाऽधरम् । श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥ तस्मान्न विस्तरेणैतत्कथ्यते राजसत्तम । इति कौर्मे ॥ २३ ॥ -:*:– न्ती मोहप्राप्तिरपि न सर्वेषामेकविधा, किन्तु स्वकारणश्रवणविषयव क्तृशब्दानुसारेणेत्युक्तं भवति । तथा च तृतीयतमःस्वरूपप्रतिपादक वक्तृशब्दविस्तारानुसारात्तदानुगुण्यादित्यर्थः । विस्तरस्तु व्याख्यान सम्यग्व्याख्यानातिसम्यग्व्याख्यानादिरूपः । फलमपि सम्यग्व्याख्या नेऽतिमूर्छेत्यादिरूपम् । तदुक्तिविस्तारानुसारेण मूर्छादि समासतो व्यासतो वा भवतीति तत्त्वप्रदीपवाक्यस्य एकस्य द्वयोर्वा प्राप्तिस्स मासः, सर्वेषां प्राप्तिर्व्यास इत्यर्थः। प्राप्तिरित्यनन्तरमतोऽपीत्यध्याहारे ण न तृतीये सुखमिति प्रधानसाध्येनान्वयः । अनेन यतस्तृतीयतम स्सु विषये तृतीये वक्तृशब्दानुसारात् संशोकजादेरवरोधः प्राप्तिर्भ वति, अतश्च न तृतीये सुखमिति चशब्दानुषङ्गेण सूत्रयोजनान्तरमु क्तं भवति ॥ (८) तृतीयतमःस्वरूपश्रवणे श्रोतृणां मोहप्राप्तिरित्येतत्कुतोऽवग म्यते । यदन्यथाऽनुपपत्त्या तत्र सुखाभावावगम इत्याशङ्कां स्मृत्या प रिहरत्सूत्रं पठित्वा तां स्मृतिमुदाहरति—स्मरणाच्चेति ॥ अत्र चश ब्दो नाक्षेपकस्यासिद्धिरिति साध्यसमुच्चायकः । तस्येति शेषः । तथा च तस्य तृतीये शब्दाद्यरोधस्य स्मरणाच्चार्थापत्तावाक्षेपकस्यासिद्धिborder/रि ति सूत्रार्थः । स्मृतौ 'महातमः' अन्धतामिस्राख्यम् । 'अधरस्य' त मसः शब्दश्रवणेन तस्मान्निमित्ताच्छ्रोतृणां मूर्छादि भवेदित्यर्थः । आ दिशब्दाट्टीकारीत्याऽतिमूर्छादि ग्राह्यं, तत्त्वप्रदीपरीत्या तु उन्मादमर णयोर्ग्रह्णम् । 'विस्तरेण' सम्यग्व्याख्यानेन 'एतत्' अन्धतमसः, विस्तारो न क्रियत इति यावत् । राजसत्तमेति कस्य चित्सम्बुद्धिः । कौर्मे स्मरणादित्यन्वयः ॥ १५ ॥ ॥ इति न तृतीयाधिकरणम् ॥ — * — ९२

७३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] १६. अधिकरणम् ॥ ( १ ) ‘ धूमो भूत्वाऽभ्रं भवति ’ ( छा. ५-१०-५. ) इत्याद्यन्य- भावः श्रूयते । स कथमिति । ( २ ) अतो ब्रवीति— सू—ॐ ॥ तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ॐ ॥ २४ ॥ धूमादिषु प्रविश्य तद्गतौ गतिस्तत्स्थितौ स्थितिरित्या १६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे कर्मिणो धूमादिभावो निवार्यते । तत्र विषयं दर्शयति—धूम इति ॥ इत्यादीति लुप्तविभक्तिकम् । तथा च छन्दोग- श्रुतौ काषायणश्रुतौ च ‘ धूमो भूत्वा ’ इत्यादौ धूमादिदेवताभ्योऽन्य- स्य कर्मिणो धूमादिदेवताभावः श्रूयत इत्यर्थः । अनेन धूमादिदेवता- भावाख्यविषयो दर्शितः । सन्देहप्रकारं दर्शयति—स इति । धूमादि- भावः ‘ कथं ’ किं प्रकारः किं कर्मिणो धूमादिदेवैक्यं ? किं वा तत्प- दप्राप्तिः ? प्रकारान्तरं वेत्यर्थः ॥ ( २ ) धूमादिदेवैक्यं तत्पदप्राप्तिर्वा धूमादिभाव इति पूर्वपक्ष- स्य अन्यभावः प्रतीयते इत्यनेनैव प्रदर्शितत्वात्तमप्रदर्श्य सिद्धान्तपरंसू- त्रमवतार्य व्याचष्टे—अत इति ॥ धूमादिष्विति । धूमादिदेवतादेहेष्वि- त्यर्थः । कर्मणि सप्तमी । ‘ तद्गतौ ’ धूमादिगतौ । स्थितावित्यत्रापि त- च्छब्दान्वयः । आदिशब्दाल्लघुत्वं अन्यदेहाविग्रहवत्तद्देह एवाभिमा- नः पृथगभिमानाभावश्च गृह्यते । ‘ तद्भावापत्तिः ’ तत्स्वभावापत्तिः । तथा च तत्स्वभावैकदेशसादृश्यनिबन्धनो गौणोऽयं निर्देश इति भा- वः । यद्वा—आदिशब्देन स्थानैक्यं गृह्यते । तेन लाक्षणिकोऽयं प्रयोग इति सूचयति । एवं टीकाभिप्रेतं तदधीनत्वनिमित्तं च आदिपदार्थत- या ग्राह्यम् । अत एव स्मृतौ ‘ ब्रह्मेदं जगदित्यपि ’ इति दृष्टान्तोक्तिः । अन्यथाऽसङ्गतेः । अस्मिन् पक्षे श्रौतनिर्देशो मुख्यः । अनेन सूत्रे तत्त्व- प्रदीपोक्तरीत्या गजमुख इतिवत्तस्य धूमादेः स्वभावपदोक्तधर्मसदृशः स्वभावो यस्य सः तत्स्वभावः, तस्य भावः तत्स्वाभाव्यम्, तस्याप- त्तिरिति विग्रहः । लाक्षणिकत्वपक्षे तस्य स्वभावस्य तद्देहस्थितत्व- स्यापत्तिरिति विग्रहः । मुख्यत्वपक्षे तदधीनस्वभावस्यापत्तिरिति । पक्षद्वयेऽपि स्वार्थे ष्यञ् । तथा च ‘ तस्यां ’ ‘ धूमो भूत्वा ’ इति श्रुतौ श्रुता ‘ तद्भावापत्तिः ’ धूमादिभावप्राप्तिर्नाम तत्स्वाभाव्यापत्तिरेव, न

[ अधि - १६. सू - २४. ] दीपिकासहितम्. ७३१ दिरेव तद्भावापत्तिः । न ह्यन्यस्यान्यभावो युज्यते । न च तत्पदप्राप्तिः । ( ३ ) गारुडे च — धूमादिभावप्राप्तिश्च तद्गतौ गतिरेव तु । स्थितौ स्थितिः प्रदेशश्च लघुत्वादिस्तथैव च ॥ न ह्यन्यस्यान्यथाभावो न च तत्पद्मिष्यते । विद्यागम्यं पदं यस्मान्न तत्प्राप्यं हि कर्मणा ॥ ( ४ ) एकदेशस्वभावेन वागभेदाऽपि युज्यते । त्वैक्यम्, तत्पदप्राप्तिर्वेति प्रतिज्ञार्थ उक्तो भवति । कुतोऽर्थोऽयं श्रुतेः स्यादित्यतः प्रवृत्तमुपपत्तेरिति हेतुं व्याचष्टे—न हीति । हिशब्दो य- स्मादित्यर्थे । 'अन्यस्य' कर्मिणः 'अन्यभावो' धूमादिभावः । कुतो नेत्यतोऽप्याह—न हीति । दृश्यत इति शेषः । तत्प

७३२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] यथा जीवः परं ब्रह्म ब्रह्मेदं जगदित्यपि ॥ इति ॥ २४ ॥ १७. अधिकरणम् ॥ (१) बहुस्थानगमनात्कल्पान्तमप्येवं स्यादिति । यथोक्तं तत्त्वप्रदीपे—भेदरहिता वागिति । केचित्तु—अर्शआद्यजन्तो ऽयं शब्द इत्याहुः । अपिर्निमित्तान्तरसमुच्चये । पूर्वपादेनान्वेति । न न्वदर्शनादयुक्तोऽयमर्थ इत्यत एकदेशसादृश्येनाभेदप्रयोगं दर्शयति— यथेति । 'तत्त्वमसि' (छा.६-८-७.) इत्यादावित्यर्थः । श्रुतियुक्त्यनुभ वसम्प्रतिपत्तिबलादयं दृष्टान्त उपात्तः । यत्प्राक्सूचितं तदधीनत्वाद् प्ययं प्रयोग इति, तत्र दृष्टान्तमाह—ब्रह्मेदमिति । 'सर्वं खल्विदं ब्रह्म' (छा.३-१४-१.) इत्यादावित्यर्थः । सर्वस्य ब्रह्माधीनत्वादयं व्यपदेशः। यद्वा—तद्गुणसारत्वादित्यत्रोक्तदिशाऽयमपि दृष्टान्तः सकलजगद्गुण सदृशगुणात्मकत्वेन ब्रह्म जगदित्युच्यत इति सादृश्यनिमित्तक एव योजनीयः । अपिर्दृष्टान्तसमुच्चये ॥ १६ ॥ ॥ इति तत्स्वाभाव्याधिकरणम् ॥ १७. अधिकरणम् ॥ (१) अत्राधिकरणे स्वर्गादवरूढस्य कर्मिणोऽचिरेण गर्भवासा दिप्राप्तिः समर्थ्यते । तत्र कर्मी स्वर्गान्निर्गतश्चिरेणैव देहं प्राप्नोतीति पू र्वपक्षप्रतिज्ञाया नातिचिरेणेति सूत्रांशेन ज्ञापितत्वात्तमप्रदर्श्य तद्धेतुं दर्शयति—बहुस्थानेति ॥ गमनं प्राप्तिः । तेन च तच्छ्रवणमुपलक्ष्यते । तथा च 'यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति' (छा. ५-१०-५.) इत्यादौ कर्मिणो बहुस्थानप्राप्तिश्रवणादित्यर्थः । बहुस्थानग मनं च नाचिरेण सम्भवति । तत्र तत्र तत्स्वाभाव्येनातिमहासुखे च सम्भवति तद्विहायागमने प्रयोजनाभावात्। अतस्तदन्यथानुपपत्त्याऽऽ गतौ विलम्बोऽङ्गीकार्य इति भावः । तावता स्वर्गादागमने विलम्बः कुत इत्यत आह—कल्पान्तमिति । ब्रह्मकल्पपर्यन्तमित्यर्थः । 'एवं' तत्तद्देवतास्वाभाव्यं 'स्यात्' असकृदनुष्ठितयज्ञस्य मध्ये मार्गमिति भावः । सदेत्यनुक्त्वा कल्पान्तमित्यवध्युक्तिः कल्पावसाने देवानां प दपर्यवसानादित्यभिप्रायेण ॥

[ अधि - १८. सू - २६. ] दीपिकासहितम्. ७३३ ( २ ) अत आह— सू—ॐ ॥ नातिचिरेण विशेषात् ॥ ॐ ॥ २५ ॥ 'तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्यन्ते' (छा. ५-१०-७.) इति विशेषान्नाति चिरेण । ( ३ ) स्वर्गाल्लोकादवाक्प्राप्तो वत्सरात्पूर्वमेव तु । मातृशरीरमाप्नोति पर्यटन् यत्र तत्र च ॥ इति च नार दीये ॥ २५ ॥ -- १८. अधिकरणम् ॥ ( १ ) 'त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ विशेषादि ति । कालसामीप्यबोधकविशेषश्रुतेरित्यर्थः । सौत्रप्रतिज्ञामनुकरोति- नेति । कर्मी स्वर्गान्न चिरेणेमं लोकमागच्छति, किन्त्वचिरेणैव । त र्हि बहुस्थानगमनविरोध इति न वाच्यम् । यतः कल्पान्तरूपातिचिरे ण गमनाभावेऽपि बहुस्थानप्राप्तिप्रयुक्तचिरगमनमस्त्येवेत्याशयेन-- भवतीत्याह । व्याख्यातेयं श्रुतिश्चरणनये ॥ ( ३ ) ननु 'अभ्याशः' (छा. ५-१०-७.) इति श्रुतिर्न निर्णायिका क ल्पान्तकालस्यापि ततोऽधिककालापेक्षया समीपत्वादित्यतः श्रुत्यर्थनि र्णयाय स्मृतिमुदाहरति—स्वर्गादिति ॥ 'अवाक्' अधोदेशं प्राप्तः 'वत्सरात्' संवत्सरात्तत्समाप्तेः पूर्वमेव, न त्वधिककालमित्येव श ब्दार्थः । तुशब्दः संवत्सरे मानुषत्वरूपविशेषद्योतकः । 'यत्र तत्र च' यत्र कुत्र चेत्यर्थः । अनेकस्थानेष्विति यावत् । 'पर्यटन्' सञ्चरन् । इति चेति चशब्दो नारदीये चेति सम्बध्यते । न केवलं श्रुतिवचनात्, कि न्तु नारदीये पुराणे उक्तमित्यर्थः ॥ १७ ॥ ॥ इति नातिचिरेणाधिकरणम् ॥ —::— १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे कर्मिणां व्रीह्यादिभावनििमत्तकदुःखाभावः प्र तिपाद्यते । पूर्वपक्षयति—त इति ॥ इतीति । एवंरूपच्छन्दोगश्रुतेरित्य र्थः । 'अनर्थफलत्वं' दुःखफलकत्वमेव 'यज्ञादेः' अन्ततः प्राप्नोतीति

७३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] जायन्ते ' ( छा० ५-१०-६. ) इति श्रवणादनर्थफलत्वं यज्ञादेरिति । ( २ ) अतो वक्ति — सू — ॐ ॥ अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ॐ ॥ २४ ॥ अन्याधिष्ठिते व्रीह्यादिशरीरे प्रवेशः । न तु भोगोऽ स्य । ' धूमो भूत्वाऽभ्रं भवति ' ( छा० ५-१०-५० ) इत्या दिपूर्वोक्तिवत् । शेषः । अत्र श्रुतिर्न दुःखफलकत्वे साक्षाद्धेतुः, किन्तु स्वावगतव्रीह्या- दिभावकृतच्छेदनादिनिमित्तेन योनिप्रवेशप्राक्कालीनस्थावरजातिनि- मित्तेन वेति द्रष्टव्यम् । तथा च सुखसाधनतया वेदोक्तस्यापि कर्म- णो दुःखसाधनत्वे मोक्षसाधनत्वेनोपदिष्टवैराग्यादावपि विश्वासाभा- वादननुष्ठेयत्वं तस्येति भावः । ' ते ' भुक्तपुण्याः कर्मिणः स्वर्गादाग- च्छन्तो मेघपर्यन्तेन पथा वर्षेण सहावनितलमापन्नाः ' इह ' भूमौ के- चिद्व्रीहियवाः केचिदोषधिवनस्पतयः केचित्तिलमाषाः ' जायन्ते ' अन्यजीवाधिष्ठिते व्रीह्यादिशरीरे प्रविशन्तीत्यर्थः । इतिशब्दः आद्यर्थ- कः श्यामाकादिधान्योपलक्षणार्थकः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अन्येति । अ- न्येन व्रीह्यादिशरीराभिमानिजीवेन भोक्तृतयाऽधिष्ठितव्रीह्यादिशरीरे इत्यर्थः । सूत्रेऽपेक्षितशेषं दर्शयति—प्रवेश इति । सावधारणमेतत् । न त्वभिमानित्वमिति तदर्थः । भुक्तावुच्यते यत इति शेषः । अस्या- तो मानाभावान्न कर्मिणो व्रीह्यादिभावो न वा तत्कृतदुःखमित्युपसंहृ- तवाक्येनान्वयः । ननु मा भूदभिमानित्वं कर्मिणः, तथाऽपि व्रीह्यादि- सहावस्थानेऽपि दुःखं स्यादित्यत आह—न त्विति । 'अस्य' कर्मिणः । तुशब्दो भोगस्यानवसरप्राप्तत्वरूपविशेषद्योतकः । यदि कर्मिणो व्री- ह्यादिप्रवेश एव, न तद्भावः, तर्हि कथं सामानाधिकरण्यमित्यतस्तत्प- रिहारत्वेन पूर्ववदित्यंशं व्याचष्टे—धूम इति । यथा तत्स्वाभाव्याप- त्तिरिति पूर्वसूत्रे प्रकृता ' त इह ' इत्युक्त्यपेक्षया पूर्वा ' धूमो भूत्वा ' इत्यादिरूपोक्तिः धूमादिदेवतादेहप्रवेशेन स्थानैक्याद्यभिप्राया, तथा ' त इह व्रीहियवाः ' इति सामानाधिकरण्योक्तिरपीत्यर्थः । पूर्वोक्तव- दिति पाठे यथा धूमादिषु पूर्वोक्तेषु तद्भावोक्त्या प्रवेशादिः विवक्षित इति तत्त्वप्रदीपोक्तार्थो द्रष्टव्यः ॥

[ अधि - १८. सू - २७. ] दीपिका सहितम्. ७३५ ( ३ ) 'सोऽवाग्गतः स्थावरान्प्रविश्याभोगेनैव व्रजन् स्थूलं शरीरमैति स्थूलाच्छरीराद्भोगाननुभुङ्क्ते' इत्यभिला पात्कौषारवश्रुतौ । ( ४ ) स्वर्गादवाग्गतो देही व्रीह्यादीतरदेहगः । अभुञ्जंस्तु क्रमेणैव देहमाप्नोति कालतः ॥ इतिवाराहे ॥२६॥ ( ५ ) सू— ॐ ॥ अशुद्धमिति चेन्न शब्दात् ॥ २७ ॥ हिंसारूपत्वात्पापस्यापि सम्भवाद्दुःखं च भवतीति ( ३ ) ननु कर्मिणो व्रीह्यादिशरीरप्रवेश एव, न तु तदभिमतिकृ तत्तद्भावः । प्रवेशेऽपि न भोग इत्येतत्कुतो ज्ञायते, येन श्रुतेरर्थान्तरक ल्पनेत्यतः प्रवृत्तं अभिलापादित्यंशं व्याचष्टे—स इति ॥ 'सः' कर्मी स्वर्गादवाग्गतः 'स्थावरान्' व्रीह्यादिरूपान् 'प्रविश्याभोगेनैव व्रज न्' इतरजीवेन सहावस्थानेऽपि दुःखाननुभवेन वर्तमानः पितृमातृ द्वारा 'स्थूलं' मानुषादिशरीरमाप्नोति । 'स्थूलाच्छरीरात्' स्थूलश रीरेण 'भोगान्' भोग्यान् सुखादीननुभवतीत्यर्थः । अभिलापो वच नम् । कौषारवश्रुतौ इत्यभिलापादित्यन्वयः । अभिलापादित्यस्य चा न्याधिष्ठिते प्रवेश एवेति प्रतिज्ञयाऽन्वयः ॥ ( ४ ) अत्रार्थे स्मृतिं चाह—स्वर्गादिति ॥ व्रीह्यादीति । इतरस्य देहः इतरदेहः व्रीह्यादिरूपश्चासावितरदेहश्चेति स तथोक्तः । तत्र स्थित इत्यर्थः । अभुञ्जन्निति । सहावस्थानेऽपि तद्देहकृतदुःखमननुभ वन्नित्यर्थः । 'कालतः' अल्पकालेनैव 'क्रमेण' मातापितृक्रमेण 'दे हं' स्थूलदेहमाप्नोतीत्यर्थः । अभुञ्जन्निति परस्मैपदमार्षम् । वाराह इत्य स्याभिलापादित्यनेनान्वयः ॥ ( ५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याच ष्टे—अशुद्धमिति ॥ 'हिंसारूपत्वात्' तद्युक्तत्वात्। यज्ञादिकर्मण इति शेषः । पापस्येत्यतः प्राक् तत इति संयोज्यम् । न केवलं पुण्यस्येत्य पेरर्थः । दुःखं चेत्यत्रापि तत इति वर्तते । न केवलं पापमिति चश ब्दार्थः । अत्रोत्तरं प्रति पूर्वो हेतुतया योज्यः । अनेन यज्ञादि कर्म 'अ शुद्धं' दुःखहेतुः । कुतः ? यतः 'अशुद्धं' पापापादकम् । तत्त्वमपि कुतः ? यतः 'अशुद्धं' हिंसारूपमिति पूर्वपक्षांश आवृत्त्या व्याख्या तः । परिहारांशं व्याचष्टे—नेति । इदं चावर्तनीयम् । यज्ञादिकं न दुःख

७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] चेन्न, शब्दविहितत्वात् । ( ६ ) हिंसा त्ववैदिका या तु तयाऽनर्थो ध्रुवं भवेत् । वेदोक्तया हिंसया तु नैवानर्थः कथं चन ॥ इतिवाराहे॥२७॥ १९. अधिकरणम् ॥ ( १ ) स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत् । खसाधनं, कुतः ? यतो न पापसाधनमिति । कुतो नेत्यत आह--शब्दे ति । 'वायव्यं श्वेतमालभेत' (तै.सं.२-१-१.) इत्यादिश्रुतिविहितत्वा दित्यर्थः । अनेन सूत्रे शब्दादित्यनन्तरं विहितत्वादिति शेषः कार्य इ ति सूचितम् । हिंसारूपत्वात्कथं न पापसाधनत्वमित्यतोऽप्याह--श ब्देति । तथा च अनुमानस्य निषिद्धत्वोपाधिदुष्टत्वमिति भावः ॥ ( ६ ) स्मृतिविरोधं चाह--हिंसेति ॥ 'अवैदिका' वेदाविहिता । ङीब

[ अधि - १९. सू - २८. ] दीपिका सहितम्. ७३७ इति वचनात् ' य एव गृही भवति यो वा रेतस्सिञ्च ति तमेवानुविशति ' ( ) इति श्रुतिः कथमिति । (२) अत आह— तिज्ञयाऽन्वयः। न चास्य पितृप्रवेशश्रुतिविरोधः। वचनस्य युक्तिसाहि त्येन बलवत्त्वादित्याह-य एवेति। यद्यपीयं श्रुतिः शाखान्तरस्थत्वान्नो दाहर्तुमुचिता, किन्तु 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति तद्भूय एव भवति' (छां.५-१०-६.) इति छन्दोगश्रुतिरेवोदाहार्या स्यात्, 'त इह' (छां.५-१०-६.) इत्यादिवाक्येन सह एकप्रकरणस्थत्वात्। तथाऽपि इ ति श्रुतिश्चेति चशब्देनास्या अपि समुच्चितत्वात्। श्रुत्यन्तरस्य स्पष्टार्थ त्वाच्चोदाहरणं युक्तम्। अत एव तत्त्वप्रदीपे 'य एव गृही भवति यो वा रेतः सिञ्चति' इत्यादि श्रुतिः 'यो यो ह्यन्नमत्ति यो वा रेतः सिञ्चति' इत्या दिकया समानप्रकरणपठितया च सह कथं युज्यत इत्युक्तम्। समान प्रकरणपठितयेत्यस्य 'त इह' इत्यादिवाक्येन सहैकप्रकरणपठितयेत्य र्थः। 'यः' पुरुषो 'गृही' गृहस्थाश्रमी भवति, यो वा रेतः सिञ्चति तं पि तरमेव प्रविशति जीव इति श्रुत्यर्थः। श्रुतिरिति। श्रुत्युक्ता पितृशरी रप्राप्तिरित्यर्थः। कथमित्याक्षेपे। किमर्था निष्प्रयोजनेत्यर्थः। अनेन स्मृतेः पितृप्रवेशे प्रयोजनाभावादिति युक्तियुक्तत्वेन प्राबल्यमुक्तं भ वति। ननु श्रुतेर्युक्त्ययुक्तत्वेऽपि श्रुतित्वेन स्वभावतः प्रबलत्वात्साम्य मित्यतोऽप्याह-श्रुतिः कथमिति। आक्षेपोऽयम्। प्रतीतार्थे प्रमाणमिति शेषः। कुत इत्यतोऽत्रापि 'इति वचनात्' वचनविरोधादित्युक एव हेतुर्योज्यः। तथा च श्रुतेरर्थान्तरपरतया सावकाशत्वेन दुर्बलत्वान्न तद्विरोधः स्मृतेरिति भावः। ननु सावकाशत्वं ममासिद्धमित्यतोऽप्या ह—श्रुतिः कथमिति। प्रश्नोऽयं, किमर्थेत्यर्थः। 'वचनात्' वचनवि रोधादित्यत्रापि सम्बध्यते। तथा च श्रुतिर्यत उक्तवचनविरुद्धाऽतः प्रतीतार्थायोगादर्थान्तरस्यावश्यंभावात्किमर्था श्रुतिः श्रुत्यर्थः क इ ति सिद्धान्तिनं प्रति वादिना पृष्टे तदा तेनापि श्रुतेरर्थान्तरमेव वक्त व्यम्, न प्रतीतार्थ एवाग्रहः कार्य इति नासिद्धिरिति भावः। 'हि' यतः 'अन्नं' अद्यमत्ति अत एव यो वै रेतः सिञ्चति अतस्तद्भूय एव भवति तद्भाव एव तन्मयो वा भवति। अद्यमानान्नानुगतः कर्मी 'त मेव' रेतस्सिचमेव पुरुषं प्रविशतीति श्रुत्यर्थः॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति॥ श्रुतेरित्यनेन ९३

७३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] सू—ॐ ॥ रेतस्सिग्योगोऽथ ॥ ॐ ॥ २८ ॥ ‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथम तः प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ २८ ॥ —— २०. अधिकरणम् ॥ ( १ ) देहं गर्भस्थितं कापि प्रविशेत्स्वर्गतो गतः । पूर्वस्माच्छब्दादित्यनुवर्तनीयमिति सूचितम् । पितरं प्रविशतीत्यनेन रेतस्सिग्योग इति पदं व्याख्यातम् । सूत्रे पितृयाग इत्यनुक्त्वा रेत स्सिग्योग इत्युक्तिः शरीरपरिणामाय रेतसोऽपेक्षितत्वात्तस्य च सेच कपुरुषं विनाऽयोगात् पितुरेवानुपयोग इति चोद्यानवकाश इति ज्ञाप नाय पितृप्रवेशस्त्वीशक्लृप्तत्वान्न व्यर्थ इति भावः । पितरमेवेत्यनेन रे तस्सिकपदं सावधारणमिति सूचितम् । प्रथमत इति सूत्रे शेषोक्तिः। एवकारोऽन्यप्रवेशस्य प्राथम्यव्यवच्छेदकः। श्रुत्यर्थस्तु-स इत्यस्याक र्षेणेन अन्नशब्दस्य चाध्याहारेण ‘सः’ व्रीह्यादिस्थो जीवः ‘ततः’ अथान्नेन सह पितरमेव प्रविशतीति तत्त्वप्रदीपोक्तो बोध्यः। ‘अथ’ पितृप्रवेशानन्तरं ‘प्रसूयते’ उत्पद्यते । एवं चेत् ‘मातुरेवोदरं व्रजेत्’ इति वचनमप्रमाणं प्राप्तमित्यत आह--अथेति । तद्व्याख्यानं-मा त्रिति । अपिः मातृप्राप्तेः प्रथममभावेऽपीत्यर्थे । तथा च ‘मातृप्राप्तेः’ प्रथममभावेऽपि ‘पश्चात्’ पितृप्रवेशानन्तरं ‘भाव्यत्वात्’ वि द्यमानत्वादित्यर्थः । अनेन सूत्रे अथेत्यनन्तरं मातृप्राप्तिरिति शेषः सू चितः । तथा च स्मृतेः पश्चात्तनविषयत्वान्नाप्रामाण्यं न वा तद्विरो धः श्रुतेः । स्मृतेः सावकाशत्वादिति भावः । स्मृतिगतैवकारस्तु व्रजेदेवेत्यन्वितोऽयोगव्यवच्छेदकः । अन्ययोगव्यवच्छेदकत्वेऽप्यास्ति कादिविशेषविषयम् । उक्तं हि तत्त्वप्रदीपे-मातुरेवाङ्गतः । अतश्चैत दाह-‘स्वर्गादवागतो देही मातुरेवोदरं व्रजेत्’ इतीति ॥ १९ ॥ ॥ इति रेतोऽधिकरणम् ॥ —— २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः समर्थ्यते । पूर्वपक्षयति-देहमिति ॥ कर्मी ‘रेतोरक्तसंयोगात्पश्चात्’

[ अधि - २०. सू - २९. ] दीपिका सहितम्. ७३९ इति वचनात्पश्चादेव प्रविशतीति । ( २ ) अत आह— सू—ॐ ॥ योनेःशरीरम् ॥ ॐ ॥ २९ ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमा- प्नोति । ( ३ ) 'दिवः स्त्रास्तूनगच्छति स्त्रास्तुभ्यः पितरं पितुर्मातरं मातृयोनौ पित्रा सिक्तस्य रेतसो रक्तसंयुक्तस्य देहाकारेण परिणामा- नन्तरमेव मातृगर्भस्थं पूर्वसिद्धं देहमन्नादिद्वारेण प्रविशतीत्यर्थः । न तु पितृशरीराद्रेतसा सह योनिद्वारा मातृशरीरं प्रविश्याथ तत्र देहं प्राप्नोतीति नियम इत्येवकारार्थः । अनेन पूर्वपक्षे योनिप्रवेशो न वि- द्यते, व्यर्थश्च योनिप्रवेशः, पितृप्रवेशोऽप्ययुक्तः, शरीरप्राप्तिरप्यनुप- पन्नेत्यनेकप्रतिज्ञा सूचिता । सर्वत्रापि ' देहे गर्भस्थितं क्वापि' इति वचनादिति हेतुर्योज्यः । तद्वचनस्य स्वर्गाद्भूमिं गतो जीवः पितृगर्भ- स्थितं पितुः सकाशात्संसर्शद्वारेण मातुरुदरस्थगर्भस्थितं वा प्रागसि- द्धशरीरं क्वापि क्वचिन्मातृस्थरेतसैव परिणतं मातृगर्भस्थितं वा प्रा- क्सिद्धशरीरं मातृपभुक्तान्नादिद्वारेण पितुर्मातुरुदरस्थगर्भस्थितं वा प्रागसिद्धशरीरं प्रविशेदिति व्याख्यानेनोक्तसाध्यचतुष्टयेऽपि हेतुबो- धकता द्रष्टव्या ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ पितृशब्दो रेतस्सिकपरः । अनेन सौत्रो योनिशब्दो बीजपुरुषायुपलक्षक इति सू- चितम् । पितृशरीरादिति ल्यब्लोपनिमित्ता पञ्चमी । प्रथमत इति शेषः । योनिमनुप्रविश्येत्यनेन सौत्री पञ्चमी ल्यब्लोपनिमित्तेति ज्ञापि- तम् । ' ततः ' अनन्तरम् । अनेन सूत्रेऽथशब्दानुवृत्तिस्सूचिता । एव- कारो भिन्नक्रमः । तथा च स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादि- बीजेषु सङ्क्रान्तो रेतस्सिकपुरुषस्य शरीरं प्रविश्यैव अथ ततो रेतसा सह मातृयोनिद्वारा तदुदरमनुप्रविश्य ततस्तत्रैव प्रागसिद्धं कलल- बुद्बुदादिक्रमेणोत्पन्नं शरीरं प्राप्नोति, न तुक्रमातिक्रमेणेति सावधा- रणप्रतिज्ञार्थः ॥ ( ३ ) यथोक्तं सुधायाम्—नैतद्युक्तमप्रामाणिकत्वादिति। अतोऽत्र प्र- माणमाह—दिव इति ॥ 'दिवः' स्वर्गाद्भूमिं प्रत्यागतो जीवः 'स्त्रास्तू-