पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 786, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २०. सू - २९. ] दीपिका सहितम्. ७३९ इति वचनात्पश्चादेव प्रविशतीति । ( २ ) अत आह— सू—ॐ ॥ योनेःशरीरम् ॥ ॐ ॥ २९ ॥ पितृशरीरान्मातृयोनिमनुप्रविश्य तत एव शरीरमा- प्नोति । ( ३ ) 'दिवः स्त्रास्तूनगच्छति स्त्रास्तुभ्यः पितरं पितुर्मातरं मातृयोनौ पित्रा सिक्तस्य रेतसो रक्तसंयुक्तस्य देहाकारेण परिणामा- नन्तरमेव मातृगर्भस्थं पूर्वसिद्धं देहमन्नादिद्वारेण प्रविशतीत्यर्थः । न तु पितृशरीराद्रेतसा सह योनिद्वारा मातृशरीरं प्रविश्याथ तत्र देहं प्राप्नोतीति नियम इत्येवकारार्थः । अनेन पूर्वपक्षे योनिप्रवेशो न वि- द्यते, व्यर्थश्च योनिप्रवेशः, पितृप्रवेशोऽप्ययुक्तः, शरीरप्राप्तिरप्यनुप- पन्नेत्यनेकप्रतिज्ञा सूचिता । सर्वत्रापि ' देहे गर्भस्थितं क्वापि' इति वचनादिति हेतुर्योज्यः । तद्वचनस्य स्वर्गाद्भूमिं गतो जीवः पितृगर्भ- स्थितं पितुः सकाशात्संसर्शद्वारेण मातुरुदरस्थगर्भस्थितं वा प्रागसि- द्धशरीरं क्वापि क्वचिन्मातृस्थरेतसैव परिणतं मातृगर्भस्थितं वा प्रा- क्सिद्धशरीरं मातृपभुक्तान्नादिद्वारेण पितुर्मातुरुदरस्थगर्भस्थितं वा प्रागसिद्धशरीरं प्रविशेदिति व्याख्यानेनोक्तसाध्यचतुष्टयेऽपि हेतुबो- धकता द्रष्टव्या ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ पितृशब्दो रेतस्सिकपरः । अनेन सौत्रो योनिशब्दो बीजपुरुषायुपलक्षक इति सू- चितम् । पितृशरीरादिति ल्यब्लोपनिमित्ता पञ्चमी । प्रथमत इति शेषः । योनिमनुप्रविश्येत्यनेन सौत्री पञ्चमी ल्यब्लोपनिमित्तेति ज्ञापि- तम् । ' ततः ' अनन्तरम् । अनेन सूत्रेऽथशब्दानुवृत्तिस्सूचिता । एव- कारो भिन्नक्रमः । तथा च स्वर्गादवाग्गतो जीवो वृष्टिद्वारा व्रीह्यादि- बीजेषु सङ्क्रान्तो रेतस्सिकपुरुषस्य शरीरं प्रविश्यैव अथ ततो रेतसा सह मातृयोनिद्वारा तदुदरमनुप्रविश्य ततस्तत्रैव प्रागसिद्धं कलल- बुद्बुदादिक्रमेणोत्पन्नं शरीरं प्राप्नोति, न तुक्रमातिक्रमेणेति सावधा- रणप्रतिज्ञार्थः ॥ ( ३ ) यथोक्तं सुधायाम्—नैतद्युक्तमप्रामाणिकत्वादिति। अतोऽत्र प्र- माणमाह—दिव इति ॥ 'दिवः' स्वर्गाद्भूमिं प्रत्यागतो जीवः 'स्त्रास्तू-