पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 785, कुल 1267 में से
संदर्भ में पढ़ें७३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] सू—ॐ ॥ रेतस्सिग्योगोऽथ ॥ ॐ ॥ २८ ॥ ‘ततो रेतस्सिचमेवानुप्रविशत्यथ मातरमथ प्रसूयते स कर्म कुरुते’ इति कौण्ठरव्यश्रुतेः पितरमेव प्रथम तः प्रविशति । मातृप्राप्तेः पश्चादपि भाव्यत्वात् ॥ २८ ॥ —— २०. अधिकरणम् ॥ ( १ ) देहं गर्भस्थितं कापि प्रविशेत्स्वर्गतो गतः । पूर्वस्माच्छब्दादित्यनुवर्तनीयमिति सूचितम् । पितरं प्रविशतीत्यनेन रेतस्सिग्योग इति पदं व्याख्यातम् । सूत्रे पितृयाग इत्यनुक्त्वा रेत स्सिग्योग इत्युक्तिः शरीरपरिणामाय रेतसोऽपेक्षितत्वात्तस्य च सेच कपुरुषं विनाऽयोगात् पितुरेवानुपयोग इति चोद्यानवकाश इति ज्ञाप नाय पितृप्रवेशस्त्वीशक्लृप्तत्वान्न व्यर्थ इति भावः । पितरमेवेत्यनेन रे तस्सिकपदं सावधारणमिति सूचितम् । प्रथमत इति सूत्रे शेषोक्तिः। एवकारोऽन्यप्रवेशस्य प्राथम्यव्यवच्छेदकः। श्रुत्यर्थस्तु-स इत्यस्याक र्षेणेन अन्नशब्दस्य चाध्याहारेण ‘सः’ व्रीह्यादिस्थो जीवः ‘ततः’ अथान्नेन सह पितरमेव प्रविशतीति तत्त्वप्रदीपोक्तो बोध्यः। ‘अथ’ पितृप्रवेशानन्तरं ‘प्रसूयते’ उत्पद्यते । एवं चेत् ‘मातुरेवोदरं व्रजेत्’ इति वचनमप्रमाणं प्राप्तमित्यत आह--अथेति । तद्व्याख्यानं-मा त्रिति । अपिः मातृप्राप्तेः प्रथममभावेऽपीत्यर्थे । तथा च ‘मातृप्राप्तेः’ प्रथममभावेऽपि ‘पश्चात्’ पितृप्रवेशानन्तरं ‘भाव्यत्वात्’ वि द्यमानत्वादित्यर्थः । अनेन सूत्रे अथेत्यनन्तरं मातृप्राप्तिरिति शेषः सू चितः । तथा च स्मृतेः पश्चात्तनविषयत्वान्नाप्रामाण्यं न वा तद्विरो धः श्रुतेः । स्मृतेः सावकाशत्वादिति भावः । स्मृतिगतैवकारस्तु व्रजेदेवेत्यन्वितोऽयोगव्यवच्छेदकः । अन्ययोगव्यवच्छेदकत्वेऽप्यास्ति कादिविशेषविषयम् । उक्तं हि तत्त्वप्रदीपे-मातुरेवाङ्गतः । अतश्चैत दाह-‘स्वर्गादवागतो देही मातुरेवोदरं व्रजेत्’ इतीति ॥ १९ ॥ ॥ इति रेतोऽधिकरणम् ॥ —— २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे जीवस्य पितृद्वारा योनिं प्रविश्य शरीरप्राप्तिः समर्थ्यते । पूर्वपक्षयति-देहमिति ॥ कर्मी ‘रेतोरक्तसंयोगात्पश्चात्’