भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 787, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 787

७४० ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - १.] मातुः शरीरं शरीरेण जायत इति सम्मितम् । अथास म्भितं स्थास्नुभ्यो जायते पितुर्मातुरन्तरे वा गर्भे वा बहिर्वा' इति पौष्यायणश्रुतेः । न्' स्थावराणि व्रीह्यादिशरीराणि 'गच्छति' प्राप्नोति । स्थास्नुभ्यः पि तरं गच्छति । पितुस्सकाशाद्योनिद्वारा मातरं गच्छति । मातुस्सका शाच्छरीरं प्रागसिद्धं गच्छति । ततश्शरीरेण युक्तो जायत इत्येवं 'स म्भितं' विद्यातपआदिविशेषकारणमन्तरेण साधारणं जन्मोक्तमित्य र्थः । सूत्रेऽनुवृत्तस्याथशब्दस्य योनेश्शरीरमापद्यते नापद्यते च क्वचि दित्यर्थान्तरार्थत्वमभिप्रेत्य तत्र प्रमाणमाह--अथेति । अथान्यत् 'अ सम्मितं' तपोज्ञानादिविशेषकारणकमुत्तममुत्तमाधिकारिभिरेव लभ्य मसाधारणं जन्मेत्यर्थः । इति सम्मितमित्यादिशेषवाक्योदाहरणेन 'दे हं गर्भस्थितम्' इत्यादिप्रागुदाहृतवचनस्य साधारणजन्मविषयत्वेन गतिरुक्ता भवति । 'स्थास्नुभ्यः' स्थावरेभ्यः । कश्चिज्जीव इति शेषः । यथा शुकादिः अरण्यादेः । 'पितुः' जायते कश्चित्, यथा मान्धातृप्र मुखाः। 'मातुः' जायते, यथा जरत्कार्वाद्यनुग्रहादास्तिकादिः । 'अन्त रे' स्थानान्तरे, यथा दृष्टद्युम्नादिरग्नौ । यद्वा--'अन्तरे' मातापित्रो र्मध्ये अन्योन्यदर्शनमात्रेणेत्यर्थः । उदाहरणं तूक्तमेव । तत्वप्रदीपे तु अन्तरे द्रुपदादयः इत्युक्तम् । 'गर्भे' पूर्वमेव सिद्धं शरीरं केचित्प्रवि शन्ति यथा श्रीमन्मध्वाचार्याः । तदुक्तं मध्वविजये--'सम्पूर्णलक्षण क्षणम्' इत्यादिनेति कश्चिदाहुः । तच्च तत्त्वप्रदीपे तेषां बहिःप्रवेशोक्त्या विरुद्धम् । अत एव तत्त्वप्रदीपे--अत्यन्तविशिष्टविषयं बहिःप्रवेशव चनमवगम्यत इत्युक्तम् । अत्यन्तविशिष्टास्तु ऋजव एव । न च टी कायां बहिर्द्रुपदादय इत्युक्तिविरोधः । तस्याः पितृमात्रपेक्षया मातुरु दराद्बहिरित्यर्थाश्रयेण प्रवृत्तत्वात् । तत्त्वप्रदीपस्य च मातापित्रुभयब हिर्गतोभयनिरपेक्षदेहविषयत्वात् । यथोक्तं तत्त्वप्रदीपे--सञ्जाते शरी रे प्रवेष्टुर्गर्भवासप्रसूत्यादिदुःखग्रामलेशस्पर्शाद्विनैव यथाकामं देह ग्रहणसम्भवात्तस्य च जन्मभाजामतिदुर्लभत्वादतो नारायणपरायण स्य कस्य चित् तत्प्रसादसामग्रीसमुद्भूतप्रभावस्यैव तत्सुलभमुपलभा महे । स्वयं चावोचत् 'बीजपूरुषयोनीनाम्' इत्यादि । तद्बहिर्निर्गत शरीरप्रवेशेन जननमित्यर्थः । तस्मात् ऋजुव्यतिरिक्ता एव गर्भे इत्य

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 787, कुल 1267 में से · BharatKosha