पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 788, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - २०. सू - २९. ] दीपिकासहितम्. ७४१ ( ४ ) स्थावराणि दिवः प्राप्तः स्थावरेभ्यश्च पूरुषम् । पुरुषात् स्त्रियमापन्नस्ततो देहं यथाक्रमम् ॥ देहेन जायते जन्तुरिति सामान्यतो जनिः । विशेषजननं चापि प्रोच्यमानं निबोध मे ॥ स्थाणुष्वथापि पुरुषे प्रमदायामथापि वा । गर्भे वा बहिरेवाथ क्वचित्स्थानान्तरेषु च ॥ इति ब्राह्मे ॥ २९ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य प्रथमः पादः • ॥ ॐ ॥ त्रोदाहरणीयाः । अत एव टीकायां गर्भे पूर्वसिद्धशरीरं केचिदिति सामान्येनोक्तं, न त्वाचार्या इति । तस्माद्गर्भे इत्येतत् ऋजुव्यतिरिक्तजी वविषयं, बहिरेत्येतत् ऋजुविषयमिति विवेको द्रष्टव्यः । श्रुतेरित्यस्य पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥ ( ४ ) श्रुत्यर्थनिर्णयायात्र स्मृतिं चाह—स्थावराणीति ॥ ‘जन्तुः’ कर्मजीवः ‘दिवः’ स्वर्गात् ‘स्थावराणि’ व्रीह्यादीनि प्राप्तो भवती त्यन्वयः । एवमुत्तरत्रापि ‘यथाक्रमं’ उक्तक्रममनतिक्रम्य ‘देहेन’ त द्विशिष्टः ‘सामान्यतः’ साधारणम् । ‘विशेषजननं’ असाधारणं ज न्म ‘प्रोच्यमानं’ प्रवक्ष्यमाणं ‘मे’ सकाशान्मयेति वा ‘निबोध’ जा नीहि । ‘प्रमदायां’ भार्यायां जरत्कार्वादौ । स्थाणुष्वित्यादेरुदाहरणा नि तु पूर्वोक्तान्येव द्रष्टव्यानि । ‘ब्राह्मे’ उक्तत्वादिति शेषः । अस्यापि पितृशरीरादिति प्रतिज्ञायाऽन्वयः ॥ २० ॥ ॥ इति योन्यधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य प्रथमः पादः. ॥ ॐ ॥