भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 789, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 789

७४२ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] १. अधिकरणम् ॥ ( १ ) भक्तिरस्मिन् पाद उच्यते । भक्त्यर्थं भगवन्महिमोक्तिः । सू—ॐ ॥ सन्ध्ये सृष्टिराह हि ॥ ॐ ॥ १ ॥ न स्वप्नोऽपि तं विना प्रतीयते । १. अधिकरणम् ॥ ( १ ) एतत्पादप्रतिपाद्यं दर्शयति—भक्तिरिति ॥ यद्दाढ्यार्थं वै- राग्यं निरूपितं पूर्वपादे, या चोपासनस्याङ्गं सा भक्तिरवसरप्राप्ता 'अ- स्मिन्' तृतीयस्य द्वितीयपादे 'उच्यते' निरूप्यत इत्यर्थः । ननु भ- क्तिरुच्यत इति कोऽर्थः । किं तत्स्वरूपं निरूप्यते ? उत तत्कर्तव्यता विधीयते ? । नाद्योऽनुपलम्भात् । न द्वितीयः, स्नेहरूपायास्तस्याः पु- रुषप्रयत्नायोग्यत्वेन तत्कर्तव्यताविधेरयोगादित्यत आह—भक्त्यर्थ- मिति । माहात्म्यज्ञानपूर्वकस्नेहो भक्तिः, तदुत्पादनार्थमित्यर्थः । तथा च भक्तिरुच्यत इत्यस्य भक्त्यैकदेशोपायज्ञानविषयमाहात्म्यमुच्यत इति वा, भक्त्यैकदेशोत्पादनार्थं माहात्म्यमुच्यत इति वाऽर्थाश्रयणा- न्नानुपपत्तिरिति भावः । ननु सर्वस्यापि माहात्म्यस्य प्रथमाध्याय एवोक्तत्वात्कथमत्रोक्तिरिति । सत्यम्, उक्तिरित्यस्य क्वचिद्विवेचनं क्वचित्समर्थनमित्यर्थाश्रयणात् । क्रियत इति शेषः । अत्राधिकरणे भ- गवत्प्राप्तिसाधनभक्त्यर्थमर्थज्ञानात्मकस्य स्वाप्रप्रपञ्चस्य भगवदधीन- त्वमहिमा वर्ण्यते । मरुमरीचिकाजलादिवत्प्रातीतिकत्वेनासत्त्वान्न स्व- प्रविषयस्येश्वराधीनत्वमिति न तस्य महामहिमत्वमिति प्राप्ते सिद्धा- न्तयत्तूत्रं पठित्वा अधिकरणतात्पर्यं तावदाह—सन्ध्य इति । स्वप्न इत्यनेन जाग्रत्सुषुप्तिसन्धौ भवं सन्ध्यं स्वप्न इति सन्ध्यशब्दो व्या- ख्यातः । अपीत्यनेनोत्तरसूत्राच्चशब्दस्यानुकर्षस्सूचितः । न केवलं जाग्रदादिप्रतीतिः, किन्तु स्वप्नोऽपीत्यपिशब्दार्थः । 'तं' प्रस्तुतं पर- मात्मानमेवेति । अनेन सूत्रे परमात्मन एवेति शेषो दर्शितः । प्रतीयत इत्यनेन सृष्टिशब्दो व्याख्यातः । यथोक्तं तत्त्वप्रदीपे—तत्प्रत्यायनस्यैव सृष्टित्वात् सृष्टिशब्दः प्रतीयत इति व्याख्यात इति । तथा च न केवलं जाग्रदादिप्रतीतिः, किंतु स्वप्नोऽपि तं विना न प्रतीयते इति योजना । अनेन न केवलं जाग्रदादिप्रतीतिः, किन्तु 'सन्ध्ये' तद्विषये 'सृष्टिः' प्रतीतिश्च स्वप्नोऽपीति यावत्, परमात्मनस्सकाशादेव भवति, 'न तं विना' तदधीनैवेति परमसाध्यं दर्शितं भवति ॥