पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 772, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १५. सू - २०. ] दीपिकासहितम्. ७२५ ( २ ) अत आह— सू—न तृतीये तथोपलब्धेः ॥ ॐ ॥ १९ ॥ 'अथाविद्वानकर्माऽवाग्गच्छति । त्रिधा ह वावाग्गति स्तिर्यग्यातना तम इति । द्वे वाव सुखानुवृत्ते न तम स्सुखानुवृत्तं केवलं ह्येवात्र दुःखं भवति' ( ) इति श्रुतेर्न तृतीयावाग्गतौ सुखम् ॥ १९ ॥ ( ३ ) सू— ॐ ॥ स्मर्यतेऽपि च लोके ॥ ॐ ॥ २० ॥ तिर्यक्षु नरके चैव सुखलेशो विधीयते । नान्धे तमसि मग्नानां सुखलेशोऽपि कश्चन ॥ खत्वेन प्रसिद्धे तमस्यपीत्यर्थः । प्राप्तिरिति । अस्ति तमोयोग्यस्येति शेषः । अनेनान्धं तमोऽपि सुखयुक्तमेवेति पूर्वपक्षसाध्यं दर्शितम् । सुखप्राप्तिरपीत्यन्वये सति दुःखयुक्तत्वादिति हेतुरपि दर्शितः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ अर्थान्तरारम्भे ऽथशब्दः । 'अविद्वान्' मुक्तिहेतुज्ञानरहितः 'अकर्मा' स्वर्गाद्या पादककर्मरहितो दुष्कर्मा सात्त्विकतामसो राजसतामसश्च 'अ वाक्' अधोगतिं 'गच्छति' प्राप्नोति । तां विभजते—त्रिधेति । 'त्रिधा ह वाऽवाग्गच्छति' इति श्रुतिपाठः । हेति प्रसिद्धौ । वावेत्यवधारणे । तत्त्वप्रदीपोक्तरीत्या समाने लोप इति एकवकारलोपः । अवाग्गच्छती ति यत्तत्त्रिधैवेत्यर्थः । त्रैविध्यमेव दर्शयति—तिर्यगिति । तिर्यक्त्वमित्य र्थः । साच नानायोनिप्राप्तिरूपा 'जायस्व म्रियस्व' इत्युक्ता तृतीया ग तिः । 'यातना' नरको दुर्भरत्वं वा । यथोक्तं गीतातत्पर्ये—'दुर्भर त्वं च तिर्यक्त्वं तमश्चेति फलं क्रमात्' इति । इति त्रिधैवेत्यन्वयः । तासां लक्षणमाह—द्वे इति । 'अनुवृत्ते' युक्ते । न तमः सुखयुक्तमि त्यत्र हेतुमाह—'हि' यतः 'केवलं' अत्यन्तं 'अत्र' तमसि दुःखं 'भवति' प्राप्यते । इति श्रुतेरित्यनेन तथोपलब्धेरिति हेतुर्व्याख्यातः । न तृतीयेति । 'तिर्यग्वा नरकं तमः' इत्युक्ताधोगतिषु 'तृतीये' तम सि न सुखमस्तीत्यर्थः । अनेन सुखमस्तीत्यध्याहृतसाध्यभागो व्या ख्यातः ॥ ( ३ ) एतमेवार्थं स्मृत्यनुमानाभ्यां च साधयत्सूत्रमुपन्यस्य तां स्मृतिमुदाहरति—स्मर्यते इति ॥ तिर्यक्ष्विति । 'क्षुद्रमिश्राणि' इत्यु क्ततृतीयगतावित्यर्थः । 'विधीयते' अस्तीत्युच्यते आगमेषु । 'मग्ना