पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 773, कुल 1267 में से
संदर्भ में पढ़ें७२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - १. ] इति भविष्यत्पर्वणि । (४) लोकसिद्धं चैतत् । चशब्दाल्लोकसिद्धिरपि स्मार्तेत्याह । (५) अतिप्रिये यथा राजा न दुःखं सहते क्वचित् । अत्यप्रिये सुखमपि तथैव परमेश्वरः ॥ इति हि ब्राह्मे ॥ २० ॥ (६) सू— ॐ ॥ दर्शनाच्च ॥ ॐ ॥ २१ ॥ ष्टां' स्थितानां 'कश्चन' किंनिमित्तोऽपीत्यर्थः । किमु यथेष्टमित्यपेर- र्थः । भविष्यत्पर्वणीत्यस्य स्मर्यत इत्यनेनान्वयः ॥ (४) लोक इत्येतदनुमानसूचक तया व्याख्याति— लोकसिद्धमि- ति ॥ 'एतत्' अन्धे तमसि सुखराहित्यं लौकिकदृष्टान्तयुक्तानुमानसि- द्धं चेत्यर्थः। न केवलं स्मृतिसिद्धमिति चार्थः। चेत्यनेन अपिः व्याख्या- तः । अनुमानप्राबल्यहेतुस्मृतिसिद्धत्वसूचकतया चशब्दं व्याख्या- ति— चशब्दादिति । न केवलं तमसः सुखराहित्यं श्रुतिसिद्धं, किन्तु 'लोकसिद्धिः' लौकिकदृष्टान्तवदनुमानेन तमसः सुखराहित्यसिद्धि- रपि 'स्मार्ता' स्मृतिसिद्धेति चशब्दात् सूत्रकारः 'आह' सूचयती- त्यर्थः । तथा च लोकसिद्धत्वं च स्मर्यत इति चशब्दान्वय इति भावः॥ (५) काऽसौ स्मृतिरित्यत आह— अतीति ॥ राजा यथा अतिप्रि- ये पुरुषे क्वचित्कालेऽपि दुःखं न सहते, किन्तु सुखमेव । यथा चात्य- प्रिये सुखं न सहते, किन्तु दुःखमेव, तथा परमेश्वरोऽपीत्यर्थः । अने- न विप्रतिपन्नास्तामसाः न सुखित्वेन ईश्वरेणः अप्रियत्वादिति सूत्रकृ- दभिप्रेतानुमाने पादद्वयेन राजप्रिये व्यतिरेकव्याप्तिः तृतीयेन तु राज- विप्रियेऽन्वयव्याप्तिश्च दर्शिता भवति । अथवा— पूर्वे सदसज्जनानां प्रकृतत्वात्तेषां प्रकृतिः स्वरूपमत्रोच्यते । न चासङ्गतिः । प्रियत्वाप्रिय- त्वाभ्यां सदसज्जनेषु दुःखसुखासहने साध्ये अनुमानद्वयेऽप्यन्वयव्य- तिरेकदृष्टान्तप्रदर्शनार्थत्वेन सङ्गतत्वात् । यद्यपि नानेनानुमानेन तमसः सुखराहित्यसिद्धिः। तथाऽप्यनेन सिद्धेन सुखित्वेनेश्वरानिष्टत्वेन हेतु- ना तामसानां सुखराहित्यसिद्धौ तमसस्तद्रहितत्वमपि सिद्ध्यतीति तात्पर्यम् । इति हीति । हिशब्दो यत इत्यर्थे । तथा च ब्राह्मे पुराणव- चने यत इत्युक्तं अतः चशब्दादित्युक्तं युक्तमित्यन्वयः ॥ (६) प्रत्यक्षेणाप्येतमर्थं साधयत्सूत्रमुपन्यस्य व्याचष्टे— दर्श- नाच्चेति ॥ दर्शनवचनादित्यनेन दर्शनादित्येतद्दर्शनवचनादिति व्या-