पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 795, कुल 1267 में से
संदर्भ में पढ़ें७४८ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] २. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्ध विपर्ययौ ॥ ॐ ॥ ५ ॥ बन्धमोक्षप्रदत्वात्स एव स्वप्नतिरस्कर्ता । ( २ ) स्वप्नादिबुद्धिकर्ता च तिरस्कर्ता स एव च । २. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवतः स्वप्नतिरोधायकत्वमहिमा वर्ण्यते । सौत्रतुशब्देनैव बाह्यार्थज्ञानादेव स्वप्नतिरोधानं नाशः, तस्य तदज्ञान कृतत्वादिति सयुक्तिकपूर्वपक्षस्य सूचनात् सिद्धान्तयत्सूत्रमेवोपन्य स्य व्याचष्टे—परेति ॥ बन्धमोक्षप्रदातृत्वादित्यनेन हिशब्दो हेत्वर्थतया व्याख्यातः । मोक्षेति विपर्ययपदार्थकथनम् । सूत्रे पराभिध्यानादिति च्छाग्रहणेऽपि इच्छेश्वरयोरैक्यात्स पर ईश्वर एवेत्युक्तम् । न ज्ञान मित्येवशब्दार्थः । अनेन तुशब्दो व्याख्यातः । स्वप्नतिरस्कर्तेति । जी वस्य स्वाप्नपदार्थज्ञानकर्ता तत्तिरस्कर्ता चेत्यर्थः । अनेन सूत्रे तिरो हितमित्युपलक्षणम् । आविर्भूतमिति च द्रष्टव्यम् । सन्ध्यमिति च सं योज्यम् । कर्मणि क्तः । स्वप्नस्य तिरस्कर्ता इति विग्रहे भावेक्तः अ स्येति स्वप्नजीवयोरित्युक्तं भवति । न च बन्धमोक्षप्रदातृत्वेन कथं स्वप्नतिरोधायकत्वसिद्धिः व्याप्त्यभावादिति वाच्यम् । यदभिध्यान निबन्धनोऽनादिबन्धः तद्विमोक्षश्चातिदुरापोऽनन्तकालीनः, स्वप्नप्रति रोधानादिशक्तिः किं तस्य वर्णनीयेति तत्त्वप्रदीपोक्तरीत्याऽस्य कैमु त्यपरत्वेन व्याप्त्यनभ्युपगमात् । टीकायां तु यथा 'अस्य' जीवस्य ब न्धमोक्षावज्ञानज्ञानकृतत्वेन सुप्रसिद्धावपि हि 'बन्धको भवपाशेन भवपाशाच्च मोचकः' इति वचनात् 'पराभिध्यानात्तु' परमेश्वरेच्छा या एव तदधीनावेव । नाज्ञानज्ञानकृतौ तयोरचेतनत्वेनास्वातन्त्र्या त् । तथा 'अस्य' स्वप्नस्य तिरोधानम् । उपलक्षणमेतत् आविर्भाव श्च 'पराभिध्यानात्' इच्छाऽभिन्नपरमेश्वरादेव जायते, न ज्ञानाज्ञाना भ्याम् । ते तु निमित्तमात्रमिति दृष्टान्तदार्ष्टान्तिकभावपरतया सूत्रं व्याख्यातम् । अनेन ज्ञानाज्ञाने न स्वातन्त्र्येण तिरोभावादिहेतू अ चेतनत्वात्तन्निमित्तमात्रत्वेन प्रसिद्धत्वादित्यनुमानं सूचितम् ॥ ( २ ) नेदं दृष्टान्तमूलकानुमानमात्रमिति भावेन सूत्रार्थे स्मृतिं चोदाहरति—स्वप्नादीति ॥ स्वप्नः अर्थात्मा, तद्बुद्धेः पृथगुक्तत्वात्