पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 796, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ३. सू - ६. ] दीपिकासहितम्. ७४९ तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ ॥ इति कौर्मे ॥ ५ ॥ ———::-——— ३. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ देहयोगाद्वासोऽपि ॥ ॐ ॥ ६ ॥ देहयोगेन वासो जाग्रदपि तत एव ( २ ) 'स एव जागरिते स्थापयति स स्वप्ने स प्रभुस्तुरीयाद् आदिपदाज्जाग्रत् । तिरस्कर्ता स्वप्रदिबुद्धेः । चौ परस्परसमुच्चये । ‘सः' ईश्वरः । 'तदिच्छया' ईश्वरेच्छया । 'हिः' प्रसिद्धौ । ‘अस्य' जी- वस्य । अत्र दृष्टान्तदार्ष्टान्तिकभावः कैमुत्यं वा, आंगभाद्वयामेरेव नि- श्चयोपपत्तेः साऽप्यभिप्रेयते । इति कौर्मे चोक्तमित्यन्वयः । न केवलं सूत्रकृतेति चार्थः ॥ २ ॥ ॥ इति पराभिध्यानाधिकरणम् ॥ ——*—— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विष्णोर्जाग्रत्प्रवर्तकत्वमहिमा निरूप्यते । जा- गरणस्य कालाधीनतायाः प्रत्यक्षसिद्धत्वात् । तस्य च बाधकाभावेन भ्रान्तित्वायोगात् नेश्वराधीनत्वमितिपूर्वपक्षे सिद्धान्तयत्सूत्रं पठि- त्वा व्याचष्टे—देहेति ॥ 'देहयोगेन' स्वदेहाभिमानेन तद्विशिष्टतया यां सहस्थितिरित्यर्थः । अनेन पञ्चमी तृतीयार्थतया व्याख्याता । फलि- तार्थमाह—' जाग्रत्' जाग्रत्त्वं जाग्रदवस्थेति यावदिति । तत एवे- ति । पराभिध्यानादेवेत्यर्थः । भवतीति शेषः । न कालजीवादेरित्येवा- र्थः । तत एवेत्यनेनापेः पराभिध्यानादिति पदानुकर्षकत्वं सूचितम् । यद्वा—अनुक्तसमुच्चायकोऽपिः । तथा च न केवलं जाग्रदेव, किन्तु स्वप्नसुषुप्ती अपीति । अतएव ' स स्वप्ने ' इति श्रुतिशेषोदाहरणम् । पदद्वयानुवादेन सूत्रे जाग्रदपीति वाच्ये देहयोगाद्वास इत्युक्तिः जा- ग्रत्त्वेन देहाभिमानेन अवस्थितिः जाग्रदवस्थेति जाग्रत्स्वरूपनिर्वचना- येति सूचितम् ॥ ( २ ) ननु जाग्रदवस्थायाः प्रत्यक्षत एवाह्नादिकालाधीनत्वप्रती- तेः कथमीश्वराधीनत्वमुच्यत इत्यतः पूर्वस्माद्विशब्दमनुवर्त्य तेन अ- पिना च सूचितां स्मृतिमुदाहरति—स इति ॥ 'सः' ईश्वर एव, न