पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 797, कुल 1267 में से
संदर्भ में पढ़ें७५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] स एको बहुधा भवति' इति कौण्डरव्यश्रुतेः ॥ ६ ॥ * ४. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ तदभावो नाडीषु तच्छ्रुतेरात्मनि ह ॥ ॐ ॥ ७ ॥ कालजीवादिरित्यर्थः । 'जागरिते' जाग्रदवस्थायां, जीवमिति शेषः । असामर्थ्यमाशङ्क्याह—प्रभुरिति । तदुपपादनं—तुराषाडिति । वैरि वेगसह इत्यर्थः । 'तुरं भंगस्य धीमहि' (ऋ.५-८२-१.) इति तुरशब्द स्य वायौ प्रयोगात् वायुसह इति वा । नन्वेकस्यानेकावस्थाप्रेरकत्वं कथमित्यत आह—स इति । 'बहुधा' विश्वतैजसादिरूपेण । श्रुतेरि त्यस्य देहयोगेनेत्यादिनाऽन्वयः । तथाच कालस्यैव तत्प्रवर्तकत्वे श्रुति विरोधान्निमित्तमात्रविषयं प्रत्यक्षमिति भावः ॥ ३ ॥ ॥ इति देहयोगाधिकरणम् ॥ -*- ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सुप्तप्राप्यत्वमहिमा वर्ण्यते । नाडीष्विति पदेन परमात्मन्येव सुप्तिः, न तु नाडीष्वपीति पूर्वपक्षस्य सूचितत्वात् तम नुपन्यस्य सिद्धान्तयत्सूत्रमेवोपन्यस्य व्याचष्टे—तदिति ॥ न च के वलपरमात्मनि सुप्तिरिति पूर्वपक्षे भगवतो माहात्म्याक्षेपाभावेन भ क्त्यनाक्षेपात्कथमयं विरोधीति वाच्यम् । तथासति नाडीसुप्तिप्रतिपा दकश्रुतेरप्रामाण्यापातेन तन्न्यायेन भक्तेः मोक्षसाधनत्वश्रुतेरीश्वरमा हात्म्यप्रतिपादकश्रुतेश्चाप्रामाण्यापातादित्येवं विरोधिस्वात् । जाग्रदि ति भावप्रधानः । अनेन तयोः जाग्रत्स्वप्नयोरभावः तद्भाव इति तद्भावपदं व्याख्यातम् । फलितार्थमाह—सुप्तिरिति । अस्य जीवस्ये ति वर्तते । अनेन सूत्रे सुप्तिरिति वक्तव्ये तदभाव इत्युक्तिः सर्वेन्द्रिय व्यापारोपरतिः सुप्तिरिति सुप्तिस्वरूपनिर्वचनार्थेति सूचितम् । एवं त दभाव इति पक्षवचनं व्याख्याय नाडीष्वात्मनीति साध्यांशं व्याचष्टे —नाडीस्थ इति । अत्र सूत्रे न श्रुतपदार्थयोरेवाभेदेनान्वयः, नापि प्र त्येकमन्वयः, किन्तु स्थित इति पदाध्याहारेण सामानाधिकरण्येनान्व यः, मन्दिरे मञ्जूषायां मणिमालेत्यत्रेवाधाराधेयभावो वाऽभिप्रेत इति सूचितम् । ' परमात्मनि ' भवतीति शेषः । ननु परमात्मन्येव सुप्तिर-