पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 799, कुल 1267 में से
संदर्भ में पढ़ें७५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ५. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ अतः प्रबोधोऽस्मात् ॥ ॐ ॥ ८ ॥ यतस्तस्मित् सुप्तिः । ( २ ) ‘एष एव सुप्तं प्रबोधयेदेतस्माज्जीव उत्तिष्ठत्येष ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे हरेः सुप्तप्रबोधकत्वमाहात्म्यं वर्ण्यते । भेरी ताडनादेरेव सुप्तस्य प्रबोधो नेश्वरादिति पूर्वपक्षे सिद्धान्तयत्सूत्रमुप न्यस्य व्याचष्टे—अत इति ॥ तस्मिन्निति सावधारणम् । तथा च ना डीस्थे परमात्मन्येवेत्यर्थः । उपलक्षणं चैतत् । तदभिध्यानादेवेति तत्त्व प्रदीपोक्तं द्रष्टव्यम् । सुप्तिरित्यनन्तरं उक्तेति शेषः । अस्येत्यनुवृत्ति श्च कार्या । अनेन यतोऽस्य जीवस्य तस्मिन्नेव तदिच्छयैव सुप्तिरुक्ता, अतोऽस्यास्मात्परमात्मन एव तदिच्छयैव सुप्तेः प्रबोधोऽपि नान्यस्मा दिति सूत्रयोजनोक्ता भवति । न चात्राप्रयोजकता । अङ्गुष्ठमात्रे पुरुषे कर्णिकाग्रस्थिते हरौ । विशन्ति सुषुप्तौ तु प्रबुध्यन्ते ततस्तथा ॥ इति वचनविरोधात् । देहाद्देहान्तरगते प्रविशेत्प्राणमेव तु । जीवः प्राणः परात्मानमेवं सुप्तौ . . ॥ इति वचनाच्च । मुख्यप्राणद्वारेण स्वान्तर्निवेशितस्य जीवस्य तत्प्रे रणामन्तरेण स्वत एव सुप्त्युद्बोधनशक्त्यभावाच्च ॥ ( २ ) ननु भेरीताडनाद्यनन्तरं प्रबोधदर्शनात्तेषामपि सुप्तप्रबोधहे तुत्वं सिद्धमिति कथं प्रबोधस्य भगवदेकाधीनत्वं प्रत्यक्षविरोधादि त्याशङ्कापरिहारायातशब्दं श्रुतिपरतयाऽपि व्याचष्टे—एष इति ॥ श्रुतिरित्यनन्तरं यत इत्यनुवर्तते । तथा च ‘यतः’ एवं कौण्डिन्यश्रु तिरतोऽस्मादेव प्रबोधो भवतीत्यन्वयः । अनेनातश्शब्दस्य तद्भावो नाडीष्वात्मनीत्युक्तपरामर्शकत्वं तच्छ्रुतेरिति प्रकृतश्रुतिपरामर्शकत्वं चोक्तं भवति । प्रत्यक्षं तु निमित्तमात्रविषयं, अन्यथा सावधारणश्रुति विरोधादिति भावः । ‘एषः’ परमात्मैव ‘सुप्तं’ जीवं सुप्तेः प्रबोधयति नान्यः । एतस्मादीशादेव जीव उत्तिष्ठति सुप्तेः । एष एव ‘प्रमाता’