पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 800, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. - सू - ९. ] दीपिकाकहितम्. ७५३ प्रमातैव परमः' इति कौण्डिन्यश्रुतिः ॥ ८ ॥ —:*:— ६. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॥ ॐ ॥९॥ न च केषां चित्स्वप्नादिकर्ता न तु सर्वेषामिति । 'एष ह्येव साधु कर्म कारयति' ( कौ. ३-८. ) इति क र्मेण्यवधारणात् । सुप्तस्य प्रबोधकः । एष परम इति तदुपपादनमिति श्रुत्यर्थः ॥ ५ ॥ ॥ इति प्रबोधाधिकरणम् ॥
६. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वपुरुषीयसार्वकालिकसर्वावस्थानां भग वदधीनत्वमहिमा वर्ण्यते । न सर्वेषां सार्वकालीनावस्थाः भगवदधी नाः, किं नाम ? केषां चित् किञ्चित्कालीनैवेति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्य व्याचष्टे—स एवेति ॥ चशब्दः शङ्कापरिहारसमुच्चये । केषां चित्पुरुषाणाम् इत्युपलक्षणम् । कदाचिदित्यपि द्रष्टव्यम् । 'सः' ईश्वरः । स्वप्नादीत्यादिशब्देन सुषुप्तिः गृह्यते । तुशब्दोऽवधारणे केषां चिदेवेति । तद्व्यावर्त्यमाह-नेति । सर्वेषामित्युपलक्षणम् । सर्वदेत्यपि द्रष्टव्यम् । न कदाचित् केषां चित्, किन्तु सर्वदा सर्वपुरुषाणां स परमात्मैव स्वप्नादिकर्तेति सौत्रचशब्दः साध्यधर्मसमुच्चायकः । यद्वा- सौत्रैवशब्दः पुरुषान्तरे कालान्तरे अवस्थाप्रेरकत्वव्यवच्छेदकः। चश ब्दस्त्ववधारणार्थः परमात्मनः ईश्वरान्तरसाहित्येन सर्वावस्थाप्रेर कत्वव्यवच्छेदकः । अत एव टीकायां पक्षान्तरनिषेधार्थश्चशब्द इत्यु क्तम् । तत्त्वप्रदीपरीत्या हेतौ वा चशब्दः । तस्मात्स एव परमात्मा स र्वकर्ता, नान्यो न च किञ्चित्स्वभावत एव । स्वभावस्यापि परमात्मा धीनत्वादित्यभिप्राय इत्युक्तम् । इति न च मन्तव्यमित्यन्वयः । कुत इत्यतस्तत्र हेतुत्वेन कर्मेत्याद्यंशं योजयति—एष ह्येवेति । श्रुताविति शेषः । 'कर्मणि' सर्वक्रियाहेतुत्वे । तथा च 'एष ह्येव' इति श्रुतावी शस्यैव सर्वकर्महेतुत्वं, नान्यस्येत्येवकारेणान्यत्र क्रियाहेतुत्वस्य 'अ वधारणात्' व्यवच्छेदात्स्वप्नादिप्राप्तेरपि क्रियारूपत्वात्स एव सर्वे ९५