पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 803, कुल 1267 में से
संदर्भ में पढ़ें७५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ॥ यत एवं त्रयोऽवस्था मोहस्तु परिशेषतः । गोधिकादेहान्तःप्रवेशवत्प्रवेशं व्रजन् भवति तदा 'स्वपिति' सुप्त्यव- स्थां प्राप्नोतीत्यर्थः । ननु जीवस्य दक्षिणाक्षिस्थत्वे दूरस्थत्वं कुतः ? तत्रापि 'दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः' ( मा. २-६. ) इति श्रुतेः विश्वनामकपरमात्मसामीप्यसत्त्वादित्यत उक्तं-हृदयस्था- दिति । तथा च नेह यत्किञ्चिद्रूपात्सामीप्यमभिप्रेतम्, किन्तु हृदय- स्थप्राज्ञनामकपरमात्मानमपेक्ष्य, तच्च नातिप्रसङ्गीति भावः । त्रय इ- त्यावर्तते । लिङ्गव्यत्ययः । अवस्था इति बहुवचनम् । न तथेति शेषः। तथा च 'यत एवं' उक्तप्रकारेण 'त्रयः' तिस्रः 'अवस्थाः' जाग्रदा- द्याः परमात्मविदूरत्वतत्सामीप्यतत्प्रवेशार्धप्रवेशाख्यप्रकारेष् मध्ये 'त्रयः' क्रमेण परमात्मविदूरत्वसामीप्यप्रवेशरूपप्रकारत्रययुताः , मोहस्तु न तथा, अतः 'परिशेषतः' प्रसक्तप्रतिषेधे परिशिष्यमाणे बु- द्धिः परिशेषः, तेन तत्कारणानुमानं गृह्यते । तस्मात् मोहः 'अर्धप्रा- प्तिः' अर्धप्रवेशाख्यप्रकारयुक्त इति ज्ञेय इत्यर्थः । यद्वा—दूरस्थत्वा- दित्रयः प्रकाराः यत एवमवस्थात्रयेऽपि नियुक्ता अतः परिशेषात् 'अ- वस्था' अवान्तरावस्थारूपो मोहोऽर्धप्राप्तिरिति ज्ञेय इत्यर्थः । अस्मिन् पक्षे न लिङ्गव्यत्ययः । अवस्थापदं चैकवचनान्तम् । अवस्थात्रये वि- नियुक्ता इति प्रकारा इति च शेष इति ध्येयम् । न च 'हृदि ह्येष आ- त्मा' ( प्र. ०३ - ६० ) इति श्रुतेर्हृदिस्थानां जीवानां कथमक्ष्यादिस्थत्व- मिति वाच्यम् । देवानांशेन तदितरेषामभिमानातिशयेन प्रकाशगु- णेन वा हृदयस्थत्वोपपत्तेः । उक्तं हि देवताविषये बृहदारण्यकभाष्ये— हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोस्सदा ॥ बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः ॥ हृदयस्थेन रूपेण तदा जीवो न किञ्चन ॥ जानातीति विदुः प्राज्ञाः ॥ इति ॥ न चैवमैतरेयभाष्ये न हि जीवस्याक्ष्यादिषु पृथक्शिरोवाहादिकं वि- द्यते हृदिस्थमेव हि तस्य रूपमित्युक्तिविरोधः । 'पृथक्' स्वरूपाद्भि- न्नं शिरआदिकं नास्तीति विशिष्टनिषेधाभ्युपगमात् । अन्यथा तयोः 'चक्षुरादिषु बहूनि रूपाणि सन्ति' इत्युक्तिविरोधात् । रूपशब्दितश-