पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 804, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ७. सू - १०.] दीपिकासहितम्. ७५७ अर्धप्राप्तिरिति ज्ञेयो दुःखमात्रप्रतिस्मृतेः ॥ इति वाराहे ॥ ( ३ ) सोऽपि तत एवेति सिद्धम् । ( ४ ) मूर्च्छाप्रबोधनं चैव यत एव प्रवर्तते । रीरस्य शिरआदिकं विनाऽयोगात् । अत एव तत्र जागरितेऽप्यक्ष्या दिषु विशेषसन्निहितं भवतीत्युक्तम् । देवेतरजीवविषयं वा तद्भाष्यं, तथात्वे शिरोबाहादिकमित्यस्य शिरआदिमद्रूपमित्यर्थः । ननु मोह स्यावस्थात्रयातिरेकित्वे परं दूरस्थत्वादिप्रकारत्रयस्यावस्थात्रये वि नियुक्तत्वात्परिशिष्टोऽर्धप्रवेशो मोहे भवेत् , तदेव कुत इत्यत आह- दुःखेति । दुःखपदमात्मकालयोरुपलक्षणम् । प्रतिस्मृतिः अनुसन्धान म् । मात्रपदेन दुःखात्मकालेतरविषयदर्शनं व्यावर्यते । अनेन मोह स्यावस्थात्रयातिरेकित्वं परिशेषात्सिद्धमित्युक्तं भवति । तथा हि— न तावत्सुप्त्यन्तर्भावो मोहस्य, दुःखानुसन्धानात् । न च तदानीं कार णाभावेन दुःखानुदयात्कथं तदनुभव इति वाच्यम् । मोहात्प्राग्विष यानुभवजन्यस्य दुःखस्य तदानीमनुसन्धानसम्भवात् । नापि जाग्र त्स्वप्नयोरन्तर्भावः । दुःखात्मकालातिरिक्तविषयादर्शनात् । अतः परि शेषान्मोहस्य पृथगवस्थात्वसिद्धिरिति । यद्वा—अनेन मोहे अर्धप्राप्ति समर्थनाय साक्षादेव परिशेषप्रकारः प्रदर्श्यते । तथाहि—न सुप्तावि व मोहे समग्रप्राप्तिः दुःखानुसन्धानात् । नापि जाग्रत्स्वप्नयोरिवाप्रा प्तिरेव, दुःखमात्रानुसन्धानेन अन्यार्थादर्शनात् । अतः परिशेषादर्ध प्राप्तिरेवेति । वाराहं उक्तमिति शेषः । न केवलं सूत्रे, किन्तु वाराहे चेति चशब्दार्थः ॥ ( ३ ) ननु मोहे जीवस्य अर्धप्रवेशरूपावस्थानमेव चिन्त्यते । तद् युक्तम् । मोहस्येश्वराधीनतायाः असिद्धत्वेन तस्यैवेह चिन्त्यत्वात् । केवलैतच्चिन्तनस्य व्यर्थत्वात् । न च शङ्काकारणाभाव इति वाच्यम् । मोहे आघातव्याध्यादिकारणान्तरस्यापि दर्शनेन तस्येश्वराधीनत्व शङ्कोदयात् इत्यत आह—सोऽपीति ॥ अपिशब्दस्समुच्चये । तत इत्या वर्तते । भवतीत्यध्याहारः । तथा च यतः न केवलं स्वप्नादिः, अपि तु ‘सः मोहोऽपि तदुद्बोधश्च ‘तत एव’ ईश्वरादेव भवतीति, ‘तत एव’ कर्मा नुस्मृत्यादिपूर्वोक्तहेतुत एव सिद्धम् । अतस्स ततोऽन्यतो वेति चिन्ता न क्रियत इत्यन्वयः ॥ ( ४ ) ननु कर्मानुस्मृत्यादेः साध्यसङ्कोचः कार्यः । अन्यथा घा