भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 806, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 806

[अधि - ८. सू - ११.] दीपिकासहितम्. ७५९ (२) अत आह- सू- ॐ ॥ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ॐ ॥ ११ ॥ स्थानापेक्षयाऽपि परमात्मनो न भिन्नं रूपम् । जना। एवं च स एवेत्युक्तमयुक्तमिति भावः ॥ (२) एवं पूर्वपक्षं प्रदर्श्य सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे- अत इति ॥ न केवलं स्वतः, किन्तु 'स्थानापेक्षया' स्थानभे- दादपीत्यर्थः । अनेन सूत्रे स्थानपदं तद्भेदोपलक्षकं, सप्तम्यर्थे च तसिरित्युक्तं भवति । परस्येत्यस्य व्याख्या-परमात्मन इति । सूत्रे परस्योभयत्वमित्येवोक्तौ वियदादिवत्पाणिपादाद्यवयवरूपैकैकदेश- तोऽनेकस्थानस्थितत्वं तत्रैव भेदाभावश्च विज्ञायेत तदुभयं प्रमाणासि- द्धम्, परमात्मा नैकैकदेशतः अनेकस्थानः एकदेशतोऽपि पूर्णत्वादिति युक्तिविरुद्धं, 'सप्ताङ्ग एकोनविंशतिमुखो विश्वः' (मा. २-१०) इति स्पष्टश्रुतिविरुद्धं च । अतस्तन्मा विज्ञायीति उभयलिङ्ग- मित्युक्तम् । तत्र भिन्नमित्येनेनोभयपदं व्याख्यातम् । रूपमित्यनेन लि- ङ्गपदं, 'लिङ्गं स्वरूपमुद्दिष्टम्' इति वचनात् । रूपस्वरूपशब्दयोश्च पर्यायत्वात् । तथा च पूर्वपक्षे विश्वादिरूपिणो हरेः समग्ररूपेणैव भिन्नस्थानस्थितत्वहेतुको भेदो ज्ञायत इति भावः । सिद्धान्ते न भि- न्नमिति विशिष्टनिषेधो विशेषणीभूतभेदनिषेधपर्यवसितः । भेदशब्दे- न च सुधोक्तरीत्या अन्योन्याभावस्य तत्साध्यगुणादिकृतहीनाधिकभा- वस्य तत्साध्यानुग्राह्यानुग्राहकभावस्य च ग्रहणम् । उभयशब्दस्य भिन्नार्थत्वं चोभशब्दपर्यायत्वात्सिद्धम् । तच्च 'उभादुदात्तः' इति सूत्रवृत्तिसिद्धम् । सूत्रे रूपमित्यनुक्त्वा लिङ्गमित्युक्तिः न स्थानापेक्ष- याऽपि परमात्मनो भिन्नं रूपं, न हि स्थानभेदस्तस्योभयत्वस्य लिङ्गं कारणं वा भवति । स्थानभेदेऽपि तद्गतवस्त्वेकत्वोपपत्तेः । स्वप्ना- द्यवस्थाभेदेऽपि तद्गतो भोक्तुरेकत्ववदिति तत्त्वप्रदीपे, न स्थानभेद- स्तद्भेदस्य ज्ञापकः कारको वा स्यादिति आनन्दमालायां चोक्तस्यार्था- न्तरस्य ज्ञापकत्वरूपस्य ज्ञापनार्था । तदपि पूर्वपक्ष्यभिमतहेतोरप्रयो- जकत्वोद्घाटनार्थम् । तथा च तत्त्वप्रदीपकारस्य स्थानत इति प्रथमा- र्थे तसिः। उभयमिति च भावनिर्देशः। तस्य द्वित्वपर्यायत्वाद्भेदत्वम् । लिङ्गत्वं च ज्ञापकत्वं कारणत्वं वाऽभिप्रेतम् । परमात्मनो रूपं विश्वादि- लक्षणं स्थानभेदान्न भिन्नं ज्ञेयमिति भाष्यार्थश्चाभिप्रेत इति ध्येयम् ॥