पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 81, कुल 1267 में से
संदर्भ में पढ़ें३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ७३ ) इत्यादिश्रुतिस्मृतिभ्यः । ( ७४ ) कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः । ( ७५ ) मध्यमो ज्ञानसंपत्त्या प्रसादस्तूत्तमो मतः ॥ ( ७६ ) प्रसादात्त्वधमाद्विष्णोः स्वर्गलोकः प्रकीर्तितः । न श्रुतिमाह 'आत्मा' इति । वा अर इति विश्लिष्टपाठः । 'वै' शब्दे- ऽवधारणे । 'अरे' इति याज्ञवल्क्यकर्तृकमैत्रेयीसम्बोधनम् । तथा च 'अरे' मैत्रेयि अमृतत्वमिष्यते चेत्तर्हि 'आत्मा' परमात्मा त्वया 'द्रष्टव्यो' दर्शनेन विषयीकर्तव्य इत्यर्थः । दर्शनं केन स्यादित्याका- ङ्क्षायामाह-'श्रोतव्यः' इत्यादि । दर्शनार्थं निदिध्यासितव्यः । तदर्थं 'श्रोतव्यः' गुरुपदेशमुखेन अयमस्य वाक्यस्यार्थ इत्युपनिषद्वाक्या- र्थग्रहणरूपश्रवणेन विषयीकर्तव्यः, तथा 'मन्तव्यः' युक्त्यनुसन्धा- नरूपमननेन विषयीकर्तव्यश्चेत्यर्थः । अनेन श्रवणमनननिदिध्यासना- त्मकजिज्ञासायाः अङ्गाङ्गिरूपायाः ज्ञानसाधनत्वमुक्तं भवति । ( ७३ ) 'श्रुतिस्मृतिभ्य' इति । श्रुतयश्च स्मृतयश्च ताभ्य इति विग्र- हः । अस्य 'यतो नारायण' इत्यादिनोक्तं सिद्धमित्यन्वयः । ( ७४ ) ननु 'तत्कर्म हरितोषं' 'य इमं परमं गुह्यं' (भ. गी. १८-६८.) इत्यादेः कर्मादिनाऽपि भगवत्प्रसादसिद्धेः किं ज्ञानेन? प्र- सादस्य मोक्षसाधनताबोधके “तमेवं विद्वान्” “यमेवैष वृणुते” इत्यादाविव “प्रियो हि” इति वाक्येऽन्यनिषेधाभावादित्याशङ्कां स्मृ- त्या परिहरति—'कर्मणा' इति । काम्याकाम्योभयकर्मणेति यावत् । तथा च 'कर्मणा' जन्यो यः 'प्रसादः' सः 'अधमः' एव 'प्रोक्तः' प्रामाणिकैः । एवं 'श्रवणादिभिः' यः प्रसादो भवति ( ७५ ) स 'मध्यमः' । 'ज्ञानसम्पत्त्या' अपरोक्षज्ञानपरिपाकेन जन्यो यः 'प्रसादः' स एव 'उत्तमो मतः' उत्कृष्टतया प्रमित इत्यर्थः । अवधारणार्थकतुशब्दस्य द्विर्ग्रहणं त्रिष्वप्यन्वयसूचनार्थम् । ( ७६ ) किमतो यद्येवमित्यत आह—'प्रसादात्' इति । तुर्विशेषे । तथाच 'अधमात् विष्णोः प्रसादात्' काम्यकर्मसाध्यात् 'स्वर्गलोकः' भाव्यतया वृद्धैः 'प्रकीर्तितः' इत्यर्थः । काम्यफलमात्रोपलक्षकमेतत् “परीक्ष्य लोकान्” (मुं.उ.१-२-१२) इति श्रुतेः काम्यकर्मणां वैराग्य