भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 80, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 80

[ अधि - १. सू - १. ] दीपिकासहितम्. ३३ ( ७० ) “ तमेवं विद्वानमृत इह भवति, नान्यः पन्था अ यनाय विद्यते ” ( तै. आ. ३-१२. ) ( ७१ ) ‘ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ’ । ( भ. गी. ७-१७. ) ( ७२ ) “ यमेवैष वृणुते तेन लभ्यः ” ( क. २-२३. ) “ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो नि दिध्यासितव्यः ” ( बृ. उ. ६-५-६. ) ( ७० ) यदुक्तं ‘यतो नारायणप्रसादं’ इत्यनेन प्रसादस्य मोक्षसाध नत्वं तत्कुत इत्यतस्तत्र श्रुतिं प्रमाणयति- ‘तं’ इति । ‘इह’ अधिकारि वर्गे प्रकृतपुरुषशब्दितं ‘तं’ परमात्मानं ‘एवं’ सहस्रशीर्षत्वायुक्तप्र कारेण ‘इह’ लोके ‘विद्वान्’ परोक्षज्ञानद्वारा अपरोक्षतो जानन्नेवा न्ते ‘अमृतो’ मुक्तो भवति, यतो नारायणायनाय तत्प्राप्तिरूपमोक्षार्थं ‘अन्यः’ परमपुरुषज्ञानात् ‘पन्थाः’ उपायो ‘न विद्यते’ नास्ति अ त इत्यर्थः । अत्र ज्ञानस्य मोक्षसाधनत्वं साक्षात् ज्ञायते । प्रसादस्य मोक्षसाधनत्वं तु टीकासुधोक्तरीत्या प्रसादं विना विद्वत्पदलक्ष्या परोक्षज्ञानमात्रेण मोक्षो न भवतीत्यन्यथानुपपत्त्यैव, न तु साक्षात् । निमित्तेन नैमित्तिकोपलक्षणा वेत्यवगन्तव्यम् ॥ ( ७१ ) ‘न च ज्ञानं विना’ इति यदपरोक्षज्ञानस्य प्रसादसाधनत्व मुक्तं तत्कुत इत्यतस्तत्र गीतास्मृतिमाह- ‘प्रियो हि’ इति । ‘अहं ज्ञा निनोऽत्यर्थं’ अत्यन्तं ‘प्रियः’ । ‘हि’ प्रसिद्धम् । ‘स च’ सोऽप्यप रोक्षज्ञानी मम प्रियः’ इत्यर्थः । कृष्णवाक्यमेतत् । ( ७२ ) प्रसादस्य मोक्षसाधनत्वं न केवलमर्थात् ज्ञायते, किन्तु श्रु त्या चेत्याशयेन तत्र कठश्रुतिमाह- ‘यं’ इति । अत्रैवकारो भिन्नक्रमः । तथाच ‘एषः’ परमात्मा ‘एषः’ इच्छारूपः प्रसन्नः सन् ‘यं’ अधि कारिणं ‘वृणुते’ अनुगृह्णाति ‘तेन’ एव ‘लभ्यः’ प्राप्यः, न त्वन्येन कर्मणेत्यर्थः । अत एव विष्णुतत्त्वनिर्णयटीकायाम् “एष परमात्मा यं वृणुते यस्य प्रसीदति तेनैव लभ्यः । कथं ? यतस्तस्य स्वां तनुं विवृ णुते प्रकाशयति, ततश्चास्य स्वां तनुं अविद्यावृतस्वरूपां विवृणुते आ विर्भावयति” इति प्रकृतानुकूलतया समग्रवाक्यार्थ उक्तः । यत्पूर्वं जिज्ञासायाः अपरोक्षज्ञानसाधनत्वमुपस्कृतवाक्येनोक्तं तत्र प्रमाणत्वे

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक) · पृष्ठ 80, कुल 1267 में से · BharatKosha