पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 812, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ८. सू - १३. ] दीपिकासहितम्. ७६५ ( ९ ) अभेदेऽपि भेदव्यपदेशः स्थानभेदादैश्वर्ययोगाच्च यु ज्यते । ( १० ) ब्रह्मतर्के च । बद्धो बन्धादिसाक्षित्वाद्भिन्नो भिन्नेषु संस्थितः । 'शिवः' सुखात्मकः 'ओंकारः' ओमित्याक्रियमाणः प्रणववाच्यः प- रमात्मा येन जीवेन विदितः स एव मुनिः न त्वितर इति 'द्वैतस्योपश- मः' भेदरहित इति व्याख्यातम् । पठन्तीत्यन्वयः ॥ ( ९ ) तर्हि का गतिः 'कार्यकारणबद्धौ' ( मा. २ - १६ . ) इति भेदव्यप- देशस्येत्यत आह-अभेदेऽपीति ॥ विश्वादिरूपाणामभिन्नत्वेऽपीत्यर्थः । यद्यपितथाऽपीत्यर्थे अपिशब्दः । अनेन सौत्रापिशब्दस्यार्थान्तरं दर्शित- म् । भेदव्यपदेशो युज्यत इति । विश्वादयो बद्धाः तुरीयस्त्वबद्ध इति भेदकधर्मोक्तिमुखेन भेदोक्तिर्युज्यते इत्यर्थः । अनेनैव शब्दस्यार्थान्तरं दर्शितम् । कथं युज्यते अत आह—स्थानभेदादिति । अक्ष्यादितदन्य- रूपस्थानभेदादित्यर्थः । तथा चाक्ष्यादिस्थो बद्धः अन्यत्रगस्त्वबद्ध इति भेदकधर्मोक्तिः स्थानभेदाद्युज्यते । तथा भेदोक्तिरपि स्थानगत- भेदस्य स्थानिन्युपचाराद्युज्यत इत्यर्थः । 'अनन्योऽप्यन्यशब्देन' इ- त्यानन्दमयनयोदाहृतप्रमाणे तु अभेदे भेदव्यपदेशः अचिन्त्यैश्वर्यात् युज्यत इत्युक्तम् । तत्र भेदव्यपदेशस्य मुख्यत्वाभिप्रायकम् । अभिन्न- स्यैकस्य स्थानभेदोऽपि कुत इत्यत आह—ऐश्वर्येति । अचिन्त्यश- क्त्याख्योपायादित्यर्थः । हेतुसाधकहेतुसमुच्चये चशब्दः ॥ ( १० ) ननु निर्दोषस्य हरेः कथं बन्ध इत्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचितां स्मृतिमाह—ब्रह्मतर्के चेति ॥ न केवलमस्माभिरिति समुच्चये शङ्कापरिहारसमुच्चये वा चशब्दः । बन्धादीति । जीवस्य जाग्रदादिभ्रमकारणतया बन्धकर्तृत्वादित्यर्थः । आदिशब्देन दुःखा- दिदोषो गृह्यते । बद्ध इत्युपलक्षणम् । दुःखीत्यपि द्रष्टव्यम् । निर्दोषे- ति विशेषणयोः कर्मधारयो बहुलग्रहणात् । अपिः प्रत्येकं सम्बध्यते । तथा च परमेश्वरो यद्यपि निर्दोषः, तथाऽपि 'बन्धादिसाक्षित्वात्' अन्यगतबन्धदुःखादिद्रष्टृत्वात्तत्स्वामित्वाच्च बद्धादिरिति कथ्यते । एवं परमेश्वरो यद्यपि 'अद्वयरूपः' अभिन्नरूपः । तथाऽपि 'भिन्नेषु' अक्ष्यादिषु संस्थितिर्निमित्ताद्भिन्न इति कथ्यते इति योजना । इति ब्र