पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 821, कुल 1267 में से
संदर्भ में पढ़ें७७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( २ ) रूपं रूपं प्रतिरूपो बभूव ( बृ. ४-५-१९. ) बहवस्सूर्यका यद्वत्सूर्यस्य सदृशा जले । एवमेवात्मका लोके परात्मसदृशा मताः ॥ ( ) इत्यादि । शत्वे 'सादृश्यात्' मत्स्यादिसाभ्यात् 'तथा स्यात्' परमेश्वरस्वरूपां- शवत् ज्ञानैश्वर्याद्यविशेषः स्यादिति 'अतः' एतदर्थमेवानिष्टप्रसङ्ग- परिहारार्थमेव अत एवोपमेति पदैः 'तस्य' जीवस्य तथाऽपि अंशत्वेऽ- पि 'तथा' प्रतिबिम्बभाव एवेति प्रतिबिम्बभावमेवोक्त्वा 'चशब्देन' अ- तस्तेन हेतुना सूर्यकादिवद्दृष्टान्तेन 'भेदं' साध्यं समुच्चिनोति सूत्रका- र इत्यन्वयः ॥ ( २ ) जीवस्येश्वरप्रतिबिम्बत्वमेव कुत इत्यतश्चशब्दसूचितश्रुतेरे- वेत्याह—रूपमिति ॥ द्वितीयव्याख्याने तु युक्तिसिद्धप्रतिबिम्बत्वे दा- र्ढ्याय श्रुत्युपन्यासः । व्याख्यातेयं श्रुतिरंशनये । 'जले' जलादौ 'सू- र्यकाः' तत्र प्रतिबिम्बिताः सूर्याः 'यद्वत्' यथा सूर्यस्य सदृशा म- ताः, एवमेव लोके प्रमिताः 'आत्मकाः' ईशप्रतिबिम्बभूता अमुख्या- त्मानः परमात्मसदृशा मता इति श्रुत्यन्तरार्थः । अत्राद्यश्रुतौ रूपशब्दो- क्तं प्रतिबिम्बत्वं द्वितीयश्रुत्या परमात्मसदृशा इति व्याख्यातमिति ज्ञे- यम् । इत्यादीत्यनन्तरं श्रुतिरिति शेषः । अत एव तत्त्वप्रदीपे श्रुतिर्द- र्शयतीत्युक्तम् । टीकाकृताऽपि श्रुतिरित्त्यध्याहारस्य सिद्धत्वादित्याश- येन प्रतिबिम्बत्वं दर्शयतीत्यन्वययोग्यपदद्वयमनुषज्यते इत्युक्तम् । त- था चायं टीकारीत्या सूत्रार्थः—'अत एव' ईशतद्रूपाणामभेदोक्तेरेव 'अत एव' जीवस्य चेतनत्त्वादिना ईश्वरसाम्यादेवाऽस्य जीवस्य 'उ- पमा' मत्स्यादिसाम्यम् । तद्वदीशाभेदः स्यादिति न, कुतः? यतः 'सूर्यकादिवत्' जलादौ प्रतिबिम्बितसूर्यच्छायादिवत् ईशप्रतिबि- म्बस्तस्मादेव तद्भिन्नश्चातः । यद्वा—'अत एव' मत्स्यादीनामीश्वर- स्य च ज्ञानैश्वर्यादाविव विशेषस्योक्तत्वादेव अतः । तर्हि जीवस्यापि परमेश्वरस्वरूपांशत्वे यतः 'उपमा' मत्स्यादिभिः साम्यं स्यात्, ततश्च तस्योपमा परमेश्वरवत् ज्ञानाद्यविशेषः स्यात् अतः एतदर्थमेवंरूपा- निष्टपरिहारार्थं जीवस्योपमैव ईश्वरप्रतिबिम्बत्वैव, न स्वरूपांशता । यतः प्रतिबिम्बोऽतः सूर्यकादिवच्च भेद एव नाभेंदोऽपि । न च हेत्वसि- द्धिः। 'रूपम्' इत्यादिश्रुतेरिति । तत्त्वप्रदीपरीत्या तु—'अत एव' जी-