पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 820, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०, सू - १८. ] दीपिकासहितम्. ७७३ १०. अधिकरणम् ॥ ( १ ) सू- ॐ ॥ अतएव चोपमा सूर्यकादिवत् ॥ ॐ ॥ १८ ॥ यस्मादेवं परमेश्वररूपाणां मिथो न कश्चिद्भेदः । अ तः सादृश्याज्जीवस्यापि तथा स्यादिति, तस्य प्रति बिम्बत्वमुक्त्वा चशब्देन भेदं दर्शयति । १०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ईश्वरस्य जीवाद्भेदाभेदो निराक्रियते । अत्र पूर्वपक्षानुवादरूपं अत एवोपमेति सूत्रांशं व्याकरोति—यस्मादिति ॥ योजना तु 'यस्मात्' यत एवं 'न स्थानतोऽपि' इत्याद्युक्तप्रकारेण प रमेश्वररूपाणां परमेश्वरस्य च 'मिथः' परस्परं 'कश्चित्' अन्यो न्याभावरूपो वा हीनाधिकभावरूपो वा अनुग्राह्यानुग्राहकभावरूपो वा भेदो न, किन्त्वभेद एव सिद्धोऽत इति दृष्टान्तलाभादिति भावः । न तत्रान्योऽन्वेषणीय इत्येवशब्दार्थः । एवं सौत्रातःशब्दपरामृश्यं प्रद् र्श्यावृत्त्यभिप्रायेण तमनुकृत्य तस्यार्थान्तरमाह--सादृश्यादिति । चि त्त्वादिना परमेश्वरसादृश्यादित्यर्थः । सूत्रे 'ततो ह्यस्य' इत्यतोऽनुवृ त्तस्यास्येत्यस्यार्थमाह—जीवस्येति । न केवलं परमेश्वररूपाणामित्य पेरर्थः । अनेन पूर्वत्रापि चशब्दसम्बन्धो ज्ञापितः । उपमेत्यस्यार्थः— तथेति । परमेश्वराभेद इत्यर्थः । स्यादिति शेषोक्तिः । स्यादितीत्यन न्तरं प्राप्ते तत्परिहारायेति शेषः । अनेन सूत्रे 'न स्थानतोऽपि' इत्य तो नञनुकर्षोऽभिप्रेयते ॥ कुतो नैत्यतस्तत्र हेतुतयाऽऽगतं सूर्यकादिव दित्यंशं सिद्धान्त्यभिप्रेतानुमानपरतया व्याचष्टे—तस्येति । जीवस्ये त्यर्थः । 'प्रतिबिम्बत्वं' ईशप्रतिबिम्बत्वाख्यं हेतुमुक्त्वा सूर्यकादिव दिति दृष्टान्तोक्त्यैवेति शेषः । 'चशब्देन' उत्तरत्राप्यन्वितेन 'भेदं' परमेश्वरेणात्यन्तभेदरूपं साध्यं 'दर्शयति' समुच्चिनोति सूत्रकार इ त्यर्थः । तत्त्वप्रदीपरीत्या तु रूपमित्यादिका श्रुतिस्तस्य प्रतिबिम्बत्वमु क्त्वा भेदं दर्शयतीति चशब्देन सूत्रकारो दर्शयतीत्यर्थः । यद्वा—भे दाभेदपूर्वपक्षस्य बहिरैव लाभादत एवेत्यादि समग्रसूत्रं सिद्धान्त ए वेत्याह—यस्मादिति । ज्ञानैश्वर्यादाविति शेषः । भेदशब्दश्च विशेष वाची । अत इत्यावर्तेतेऽपीति च । तथा च यस्मादेवमुक्तरीत्या परमे श्वररूपाणां तत्स्वरूपांशानां मत्स्यादीनां परमेश्वरस्य च मिथो ज्ञानैश्व र्यादौ न कश्चिद्विशेषः, तस्मादेव जीवस्यापि अतः परमेश्वरस्वरूपां