पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 823, कुल 1267 में से
संदर्भ में पढ़ें७३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ज्ञानादिना प्रयोजनमिति । ( २ ) अतो ब्रवीति— सू— ॐ ॥ अम्बुवदग्रहणात्तु न तथात्वम् ॥ ॐ ॥ १९ ॥ अम्बुवत्स्नेहेन ग्रहणं ज्ञानं भक्तिं विना न तत्सादृश्यं शेषः । तथा चेत्थं योजना । न भक्तिः कर्तव्या । कुतः ? यतो न तया प्रयोजनमस्ति । न च ज्ञानमेव प्रयोजनम् । यतो न तेनापि प्रयोजनम स्ति । न च तस्य प्रसादः प्रयोजनम् । यतो न तेनापि प्रयोजनमस्ति । न च प्रसादेन मोक्षसम्भवात्कथं तेन न प्रयोजनमिति वाच्यम् । मो क्षस्य नित्यसिद्धत्वात् । कथम् ? ‘ नित्यानन्दज्ञानादेः ’ मोक्षस्य नि त्यानन्दज्ञानबलादिरूपत्वात् । कुतस्तस्य नित्यसिद्धत्वम् ? परमात्म सादृशस्य जीवे ‘ नित्यसिद्धत्वात् ’ नित्यं सत्त्वात् । किं ततः ? तस्य नित्यज्ञानानन्दादिरूपत्वात्