पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 824, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ११. सू - १९. ] दीपिका सहितम्. ७७७ सम्यगभिव्यज्यते । ‘यमवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्’ (कठ.२-२३.) इति हि श्रुतिः । ( ३ ) महित्वबुद्धिर्भक्तिस्तु स्नेहपूर्वाऽभिधीयत । हेन ज्ञानं भक्तिरितीति टीकया च विरोधात् । भाष्ये स्नेहेनेत्यस्या न्वाय तत्त्वप्रदीपावतारिकाटीकारीत्या सहितमिति पदाध्याहारस्या वश्यकत्वात् । सूत्रार्थकथनेन सिद्धान्त्यभिमतानुमाने हेत्वसिद्धिपरि हाराय प्रवृत्तस्य सूत्रस्यासिद्धिकारणव्यतिरेकव्यभिचारपरिहारक त्वमुक्तं भवति । तथात्वमित्यस्यार्थमाह—तत्साहश्यमिति । तद्गुणसा र्त्वादिति प्रकृते ज्ञानानन्दादिनेश्वरसादृश्यमित्यर्थः । अस्य जीवस्ये ति वर्तते । तुशब्दार्थस्सम्यगिति । सुप्तौ विनाऽपि भक्तिं सुखाद्यभिव्य क्तिदर्शनाद्व्यभिचारपरिहारायैतत्पदम् । सूत्रे भवतीत्यध्याहारेण भव तेर्व्यक्त्यर्थत्वं अभिव्यज्यत इति क्रियापदाध्याहारे वाऽभिप्रेत्याह-अ भिव्यज्यत इति । सूत्रे न साम्यमित्यनुक्त्वा न तथात्वमित्युक्त्या अभि व्यक्तिरपि कदाचित्स्वयमेव भवतीति शङ्का निरस्ता । कदाचित् त त्साहश्यस्य स्वयमेवाभिव्यक्तत्वमपि नेति तस्यार्थान्तरसम्भवात् । स्वयमेवाभिव्यक्तचङ्गीकारेऽनादिसंसारप्रवाहानुपपत्तेरिति भावः । भक्तिं विना न तत्सादृश्यं सम्यगभिव्यज्यत इति भाष्यस्य सूत्रानु सारेण व्यतिरेकमुखत्वेऽपि तेन किन्तु भक्त्यैवाभिव्यज्यत इत्यन्वयोऽ पि सूचितः । तत्कुत इत्यत आह—यमिति । कठश्रुतिरियम् । भक्ति मतः ‘तस्य’ जीवस्य ‘स्वां तनुं’ तत्स्वरूपमानन्दादिजीवस्वरूपं ‘वि वृणुते’ प्रकाशयतीत्यर्थोऽत्राभिमतः । इति हीति । हिर्यतः । अस्तीति शेषः ॥ ( ३ ) यदुक्तं स्नेहेन सहितं ज्ञानं भक्तिः, तया जीवस्वरूपस्य स म्यगभिव्यक्तिरिति तत्स्फुटमत्र श्रुतौ न प्रतीयत इत्यतः स्मृतिं चाह— महित्वेति ॥ तुरवधारणे । ‘महित्वबुद्धिः’ महत्त्वबुद्धिः । तृतीयोऽति शये । अत एव तत्त्वप्रदीपे महित्वबुद्धिः महत्त्वबुद्धिः । ‘वैश्वानरो महिनः शर्म यच्छत’ ( ) इतिवदित्युक्तम् । स्नेहः पूर्वः साहि त्यप्रतियोगित्वेन पूर्वनिर्दिष्टो यस्यां सा तथोक्ता । तथा च मानसिक स्नेहसहिता विष्णोर्माहात्म्यज्ञप्तिरेव भक्तिरित्याभिधीयत इत्यर्थः । ‘त या’ भक्त्या, न स्वत इत्येवशब्दार्थः । ‘जीवरूपं’ जीवस्वरूपम् । यद्यपि माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः । ९८