पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 826, कुल 1267 में से
संदर्भ में पढ़ेंतस्य च भक्तिज्ञानादेः वृद्धिह्रासभाक्त्वं विद्यते ब्रह्मा दीनामुत्तमानां सर्वेषां भक्तत्वेऽन्तर्भावात् । (२) एवं भक्त्यादिविशेषाङ्गीकारादेवेश्वरस्य ब्रह्मादीन त्तमको भाव एवापरोक्षज्ञानसाधनमिति सूत्रयितुम् । भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन ॥ इति गीतोक्तेः ॥ भावबोधे तु भक्तिशब्देनापरोक्षज्ञानसाध्यमोक्षसाधनोद्रिक्तभक्तेर्ग्रह णम् । ज्ञानशब्देनापरोक्षज्ञानस्येत्युक्तम् । तत् तत्त्वप्रदीपविरुद्धम् । आ दिशब्देन भक्तिसाधनवैराग्यादेस्तत्साध्योपासनादेश्च ग्रहणम् । 'वि द्यते' अङ्गीकार्यत्वेनास्ति । अङ्गीकार्यमिति यावत् । यद्यपि पूर्वसूत्रे अम्बुवद्ग्रहणपदेन भक्तेः प्रकृतत्वात्सैवेह धर्मिसमर्पकतच्छब्देन पराम र्शनीया, भक्तितारतम्यकथनेनैवेष्टसिद्धेः, न तु ज्ञानादिकमपि । तथा ऽपि ज्ञानादितारतम्याभावे तत्साध्यभक्तितारतम्यं न सिध्यति । फल तारतम्यवत्साधनतारतम्यस्यापि भक्तितारतम्यहेतुत्वादित्याशयेनोप लक्षणाभिप्रायेण भक्तिज्ञानादेरित्युक्तम् । कुतो भक्तेर्वृद्धिह्रासभाक्त्व मित्यतस्तत्र हेतुत्वेन अन्तर्भावादित्यंशं सर्वेषामिति भक्तत्वे इति पदा ध्याहारेण तेषां महदल्पत्वादिति हेतूपस्कारेण च व्याचष्टे—ब्रह्मादी नामिति । 'उत्तमानां' ब्रह्मादिदेवानां 'भक्तत्वे' भक्तवर्गे अन्तर्भावा त्तेषां च महाफलत्वात्, एवं ब्रह्मादिदेवेतरेषां मध्यमानां ऋष्यादीनां अधमानां मनुष्योत्तमानां च सर्वेषामधिकारिणां भक्तत्वेऽन्तर्भावात्ते षाम् च महदल्पफलत्वादिति योजना । अनेनोभयेषामिति धर्मिसमर्पकं पदं देवतदन्यपरतया विवृतं भवति । मध्यमाधमाधिकारिणामल्पफ लत्वेन देवेतरत्वेन चैकीकरणम् । सूत्रे उभयेषां भक्तत्वादित्येवोक्तौ भक्तत्वस्योभयत्ववद्व्यासज्यवृत्तित्वाभावेनोभयत्वाश्रयेष्वेकैकेष्वपि प र्याप्तत्वादन्यतरेषामभक्तत्वशङ्का स्यात् तथा चोभयसामञ्जस्यादित्य युक्तं स्यादत उभयपदस्योभयविधभक्तपरत्वात् अतोऽन्तर्भावादि त्युक्तम् । अनेन त्रिविधाधिकारिणामपि भक्तत्वसिद्धिः । यद्यपि सूत्रे भाष्ये च भक्त्यादेः पक्षीकरणादधिकारिनिष्ठहेतुप्रयोगोऽनुपपन्नः । त थाऽपि पक्षधर्मताया अनावश्यकत्वादेवमुक्तम् ॥ (२) ब्रह्मादीनामन्येषां च महदल्पफलत्वेऽपि कुतो भक्तितारत म्यमित्यतः प्रवृत्तमुभयेत्यादिसूत्रखण्डं व्याचष्टे—एवमिति ॥ भक्त्या