पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 829, कुल 1267 में से
संदर्भ में पढ़ें७८२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ५) चशब्दात् स्मृतिः । यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ इति ॥ २१ ॥ —— १३. अधिकरणम् ॥ ( १ ) सृष्टिसंहारकर्तृत्वमेवास्य, न पालकत्वम्, स्वतस्सि द्धेरिति । मध्ये 'देवान्' देवत्वं 'अपियन्ति' प्राप्नुवन्ति ते कर्मदेवा इत्यर्थः । देवानामिति । सृष्ट्यादौ देवत्वं प्राप्तानां तत्त्वाभिमानिदेवानामित्यर्थः । 'इन्द्रस्य' दक्षप्रजेश्वरस्य 'बृहस्पतेः' पुरन्दरस्य 'प्रजापतेः' रुद्र स्य 'ब्रह्मणः' चतुर्मुखस्येति समग्रश्रुत्यर्थः ॥ ( ५ ) नन्वस्तु फलतारतम्यं, तथाऽपि भक्तिसाम्यं किं न स्यात्, फलतारतम्यस्य भक्तीतरप्रसादादितारतम्येनापि सम्भवादित्यत आ ह—चशब्दादिति ॥ समुच्चितेति शेषः । काऽसावित्यतः तां स्मृतिं पठ ति—यथेति । 'अत्र' संसारे ज्ञानिनां परमेश्वरे 'यथा भक्तिविशेषो' भक्त्यतिशयो दृश्यते, तथैव तेषां 'लिङ्गभेदने' लिङ्गशरीरभङ्गे जाते सति 'मुक्तिविशेषो' मुक्तावानन्दव्यक्तिविशेषोऽपि दृश्यते । नान्यथे त्यर्थः । दृशिरत्र भवत्यर्थः । यद्वा— अत्र 'ज्ञानिनां' ज्ञानिषु यथा भ क्तितारतम्यं योगिभिः 'दृश्यते' ज्ञायते तथैव तेषां लिङ्गभेदने सति 'मुक्तिविशेषो' मुक्तितारतम्यमपि दृश्यते । न वैरूप्येणेत्यर्थः इति स्मृतिरित्यन्वयः ॥ १२ ॥ ॥ इति वृद्धिह्रासाधिकरणम् ॥ —::— १३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे विश्वपालकत्वं समर्थ्यते । पूर्वपक्षयति—सृ ष्टीति ॥ सृष्टिश्च संहारश्च तयोः कर्ता तस्य भावस्तत्त्वमित्यर्थः । य द्वा—सृष्टौ सत्यां संहारः तस्य कर्तृत्वमित्यर्थः 'अस्य' भगवतः । इ दं चावर्तनीयम् । एवकारः क्रमेण भिन्नक्रमेण चान्वेति । तत्राद्यपक्षे तद्भावार्थं दर्शयति—नेति । अस्तीति शेषः । अस्येत्यनुवृत्तपदं । तथा च न विश्वपालकत्वं भगवतोऽस्ति किन्तु सृष्टिसंहारकर्तृत्वमेव । कुतः? यतोऽस्य संहारकर्तृत्वं, न च संहर्तुः पालकत्वं सम्भवतीति भावः ।