पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 830, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १३. सू - २२. ] दीपिकासहितम्. ७८३ ( २ ) अत आह— सू—ॐ ॥ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ ॐ ॥ २२ ॥ पालनसाध्यकार्याभावाच्च । न च स्थितिस्तत्कार्यं, सृष्टौ सत्यां याव त्संहारस्तावदस्य जगतः स्थितिकार्यस्य पालनं विना स्वत एव सि द्धेस्तस्य तदेकप्रयोजनत्वात् । न च संहारनिवारणव्यापारः अवा न्तरोपद्रवनिवारणं वा तत्प्रयोजनम् । यतोऽस्यैव सृष्टिसंहारकर्तृत्वं न त्वन्यस्येति योजना । अनेन सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति । उक्तमिति । स्वस्यां प्रागुक्तमित्यर्थः । अनेन प्रकृतेति प्रातिपदिकं व्याख्यातं भवति । एतावत्त्वमित्येतद्व्याचष्टे—सृष्टीति । इदं चावर्तते । तथा च उक्तं सृ ष्टिसंहारकर्तृत्वं सृष्टिसंहारकर्तृत्वमात्रं तावन्मात्रपर्यवसितमित्येतत्प्र तिषिध्येतार्थः । वचनापेक्षया प्रतिषेधस्य पूर्वकालीनत्वज्ञापनाय ल्यब न्तनिर्देशः । मात्रशब्देन पालनाख्यगुणान्तरं व्यावत्र्त्यते । ' ततः ' उ क्तात् । भूय इत्यस्य व्याख्यानं—अधिकमिति । पालनमपीत्यर्थः । अ स्येत्यनुवर्तते । ब्रवीतीत्यनन्तरं श्रुतिरिति यत इति च शेषः । अस्य हे तोरस्त्येव हरेः पालकत्वमिति प्रकरणलब्धसाध्येनान्वयः । अनेन हि शब्दो हेत्वर्थतया व्याख्यातः । अस्येदेषा सुमतिः पप्रथानाऽभवत्पूर्व्या भूमना गौः । अस्य सनीळा असुरस्य योनौ समान आभरणे बिभ्रमाणाः॥ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः। सन्तस्थाने अजरे इतऊती अहानि पूर्वीरुषसोऽजरन्त ॥ नैतावदेनापरो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति । त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्ये न हरितो वहन्ति ॥ (ऋ. १०-३१-६,७,८. ) इति ऋक्श्रुतेरयमर्थः ' अस्येत् ' विष्णोस्सकाशादेव ' एषा सुमतिः ' ब्रह्मादिसुबुद्धिः- ' पप्रथाना ' अतिशयेन प्रथाना प्रथमाऽभवत् । अनेन ' भूमना ' भूम्ना पूर्णेन विष्णुना ' पूर्व्या ' पूर्वतना ' गौः ' द्यावापृथिवी 'अभवत् ' अभूताम् । अस्य विष्णोर्भूम्ना महिम्नैव सुमतिर्गौश्चाभवदि ति वा। 'असुरस्य' असुषु प्राणेषु रमणादसुत्वात्प्राणरूपत्वात् रमणीय त्वाद्वासुरो वायुः 'महद्देवानामसुरत्वमेकम्' (ऋ.३-५५-१.) इति श्रुतेः। ' या मारुताद्गर्भमाधत्त पूर्वम् ' इति स्मृतेः । तस्य ' योनौ ' भार्यायां