पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 840, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १५. सू - २८. ] दीपिकासहितम्. ७९३ इति नारायणाध्यात्मे ॥ २७ ॥ -- १५. अधिकरणम् ॥ ( १ ) स्वरूपेणानन्दादिना कथमानन्दित्वादिरिति । ( २ ) अत उच्यते— सू—ॐ ॥ उभयव्यपदेशास्त्वहिकुण्डलवत् ॥ ॐ ॥ २८ ॥ तमिति । परमात्मानं विना तत्प्रसादं विनेति यावत् । तं परमात्मानं कः पश्येन्न कोऽपीति । अव्यक्तस्वभावस्य कथं दर्शनकर्मता युक्ति विरोधादित्यत उक्तम्— ‘अमितं’ अनन्तं ‘प्रभुं’ समर्थमिति च । नारायणाध्यात्म इत्यनन्तरं सूत्रोक्तमुक्तमिति शेषः ॥ १४ ॥ ॥ इति अव्यक्तत्वाधिकरणम् ॥ ::- १५. अधिकरणम् ॥ ( १ ) अत्र भगवतो गुणित्वं समर्थ्यते । सयुक्तिकं पूर्वपक्षयति —स्वरूपेणेति ॥ हेतौ तृतीया । कथमित्याक्षेपे । ब्रह्मण इति शेषः । प्रथमादिपदेन ज्ञानादिकं गृह्यते । द्वितीयेन ज्ञानत्वादिकं भजनीयत्वं च । युज्यते इत्याकृष्यते । तथा च ब्रह्मणः ‘कथं भजनीयत्वं युज्यते’ न युज्यते । कुतः ? यतस्तस्य ‘कथमानन्दित्वादियुज्यते’ न युज्यते । अगुणित्वादिति यावत् । कुतः ? ‘स्वरूपेण’ ब्रह्मस्वरूपत्वेनाङ्गीकृते नानन्दादिना हेतुना, आनन्दादिगुणानां ब्रह्मस्वरूपत्वाङ्गीकारादिति यावत् । तत्स्वरूपत्वे च तद्वत्त्वायोगादिति भाव इति योजना । स्वरू- पेणानन्दादिना धर्मेण कथमानन्दित्वादियुज्यते इत्येकान्वयो वा । त- थात्वे युक्तिविरोधादिति शेषः ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ ‘आनन्दं ब्रह्म- णः’ इति तैत्तिरीयश्रुतेः ‘न बिभेति कदाचन’ इत्युत्तरेणान्वयः । ‘अथ’ इत्यन्या श्रुतिः । ‘एषः’ विष्णुरेव ‘परमः’ पूर्णः । इतिशब्द आद्यर्थे । तेन ‘आनन्दो ब्रह्म’ (तै. ३-६. ) इत्यादिः गृह्यते । इत्युभयव्यपदेशादि- ति । इत्याद्यासु श्रुतिषूभयोः ब्रह्मतदानन्दयोः उभयोर्गुणित्वतत्स्वरूप- त्वयोरुक्तत्वादित्यर्थः । यद्वा—ब्रह्मण इति शेषः । अत्राद्यवाक्यं ब्रह्म- णो गुणित्वं वक्ति, द्वितीयं तत्स्वरूपत्वमिति विवेकः । ननु श्रौतमपि गुणात्मकस्य ब्रह्मणो गुणित्वं कथं युज्यते अदर्शनादित्यत उक्तं—अ- १००