पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 841, कुल 1267 में से
संदर्भ में पढ़ें७९४ ब्रह्मसूत्रभाष्यम् [ अध्या - ३. पा - २. ] ' आनन्दं ब्रह्मणो विद्वान् ' (तै. २-४.) ' अथैष एव प- रम आनन्दः ' (बृ. ६-३-३३.) इत्युभयव्यपदेशादहि कुण्डलवदेव युज्यते । यथाऽहिः कुण्डली कुण्डलं च । ( ३ ) तुशब्दात्केवलश्रुतिगम्यत्वं दर्शयति ॥ २८ ॥ ( ३ ) सू—ॐ ॥ प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ॐ ॥ २९ ॥ हिकुण्डलवदिति दृष्टान्तवाक्यमनूद्य व्याचष्टे–अहीति । नन्वहेः कुण्ड- लित्वावस्थायाः कादाचित्कत्वेन खण्डितत्वाद्भेदाभेदयोः सत्त्वेन कु- ण्डलित्वं कुण्डलत्वं चेत्युभयं युज्यते । ब्रह्मणस्तु आनन्दादिनाऽत्य- न्ताभेदात्कथं गुणत्वं गुणित्वं च युज्यत इत्यतः अहिकुण्डलवदिति सावधारणमित्याह—एवेति । विशेषादेवेत्यर्थः । तथा च ब्रह्मणस्तद्ध- र्माणां च भेदप्रतिनिधिविशेषादङ्गीकाराद्यथोक्तं युज्यत इति भावः । यु- ज्यत इत्यत्र स्वरूपेणानन्दादिनेत्याद्यनुवर्तते । अनेन सूत्रेऽध्याहार्यं प्र- तिज्ञावाक्यं दर्शितम् । ननु नेश्वरो गुणवान्, गुणात्मकत्वात्, यथा अश्वोऽनश्ववान् दण्डोऽदण्डवान् । आनन्दाद्या न ब्रह्मगुणाः तत्स्वरूप- त्वाद्व्रह्मवदिति युक्तिविरोधात् न गुणित्वं गुणत्वं च ब्रह्मणो युज्यत इत्यतः प्रवृत्तं तुशब्दं व्याचष्टे–तुशब्दादिति ॥ केवलेति । प्रत्यक्षाद्यस- हितेत्यर्थः । श्रुत्यैकसमधिगम्यत्वमिति यावत् । ब्रह्मस्वरूपानन्दादेरि- ति शेषः । ' दर्शयति ' ज्ञापयति सूत्रकार इत्यर्थः । तथा च न तत्र यु- क्तिविरोधः शङ्क्य इति भावः । तत्र अहेः कुण्डलित्वस्य सिद्धत्वात् कुण्डलत्ववदित्येकस्यैव ग्रहणं कृतमिति ध्येयम् ॥ ( ३ ) दृष्टान्तान्तरेणैतदेव साधयत्सूत्रमुपन्यस्य व्याचष्टे–प्रकाशेति॥ यथाऽऽदित्यस्य प्रकाशत्वं प्रकाशित्वं चेत्यनेन भास्वररूपार्थप्रकाशश- ब्दो भावप्रधानः, प्रकाशाश्रयशब्दोऽपि भावप्रधानः । स चावर्तनीयः । तत्पुरुषश्चायम्। तथा च प्रकाशाश्रयस्यादित्यमण्डलस्य प्रकाशत्ववत् प्रकाशाश्रयत्ववत् प्रकाशित्वञ्चेति दृष्टान्तपदस्यार्थ उक्तो भवति । अत्र पूर्वदृष्टान्त इव न भेदाभेदौ, अखण्डितत्वात् । किन्तु भेदप्रतिनि- धिविशेष एवेति ध्येयम् । एवमित्यत्र ब्रह्मण इत्याकृष्यते । तथा ब्रह्म- णोऽपि विशेषबलाद्गुणगुणिभावो युज्यत इत्यर्थः । इतिशब्दोऽध्याहा- र्यः । वाशब्दो व्यवस्थितविकल्पे । ' दृष्टान्तो ' वाच्य इति शेषः । उभ- येत्युक्तानुमाने अहिकुण्डलवदिति वा प्रकाशाश्रयवदिति वा दृष्टान्त- पदं प्रयोक्तव्यमिति सूत्रकृतो हृदयमिति भावः । नन्वत्र यावद्द्रव्यभावि