पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 845, कुल 1267 में से
संदर्भ में पढ़ेंतिः' (छा.८-४-१.) 'य एष आनन्दः परस्य' 'एष नित्यो महिमा ब्राह्मणस्य' (बृ.६-४-२३.) इति सेतुत्वं ह्युच्यते । 'यतो वाचो निवर्तन्ते' (तै.२-४.) इत्यु न्मानत्वं 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप जीवन्ति' (बृ.६-३-३२.) इति सम्बन्धः । र्थे । 'उच्यते' व्यपदिश्यते । इत्युच्यत इति सर्वत्र सम्बध्यते । अ स्यात् एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्यन्वयः । अत्र प्रथम पक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षाद्धेतुः । द्वितीये तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदे शेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् । अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वा द्विधर्मवत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृ तिः सेतुः धारणसमर्थाश्रय इत्यर्थः । एष इति क इत्यत आह—य इति । नन्वत्रानन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेका र्थत्वादित्यत उक्तं-एष इति । प्रकृतसार्वज्ञ्यपूर्णानन्दादिरित्यर्थः। तथा च विष्णुपरब्राह्मणश्रुतिनित्यमहिमत्वलिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञाय त इति भावः। 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानप दमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति । उद्गतं मानं मर्यादा यस्मादिति विग्रहः । पूर्णत्वमित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाद्य वाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्गतमर्यादत्वम् । तथाऽपि निमित्तेन नैमित्तिकोपलक्षणान्नासङ्गतिः । व्याख्यानान्तरं वा । स्वरू पत्वाच्चानन्दस्य, ततो नासङ्गतिः । 'एतस्य' इति बृहदारण्यकवा क्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरे वानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्तीत्यर्थः । प्रतिबिम्बरूपविप्लुड्कं तदानन्दस्य चाखिलाः । मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥ इति बृहद्भाष्योक्तेः । इतीत्यनन्तरं वाक्यबोधित इति शेषः । 'सम्ब न्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञानमि ति । 'जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानान्नियम्यत्वेन विलक्ष णमित्यर्थः । 'परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह—नित्येति । परस्य ज्ञानं 'नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्णं' अ