पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 844, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १६. सू - ३२. ] दीपिकासहितम्. ७९७ स्ति किञ्चन ' ( कठ. २-४-११.) इति भेदस्य ॥ ३१ ॥ — * ॐ * — १६. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशे भ्यः ॥ ॐ ॥ ३२ ॥ न चानन्दादित्वाल्लोकानन्दादिवत्, 'एष सेतुर्विधृ ता भवति । 'एकमेव' इति छान्दोग्यश्रुतिः । तस्याः 'एकं' ज्ञानान न्दादिगुणैरवयवैश्चाभिन्नं ब्रह्मैकमेव, न घटादिवद्वयवसहितैकत्वयु क्तं स्वावयवैर्भिन्नाभिन्नं, 'अद्वितीयं' समाभ्यधिकशून्यमित्यर्थः । 'ने ह' इति कठश्रुतिः । तस्याः 'इह' ब्रह्मणि 'किञ्चन' गुणगुण्यादिकं 'नाना' भिन्नं नास्तीत्यर्थः । तत्त्वप्रदीपे तु 'इह' परमेश्वररूपेषु अ वयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थ इत्युक्तं । एतत्पक्षे नानाश ब्दो नानात्वार्थकः । तथा च 'किंचन' किंरूपोऽपि हीनाधिकभावो वा अन्योन्याभावो वा पृथक्त्वरूपो वा भेदो नास्तीत्यर्थः ॥ १५ ॥ ॥ इति अहिकुण्डलाधिकरणम् ॥ * १६. अधिकरणम् ॥ ( १ ) अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते । सिद्धान्तय त्सूत्रमुपन्यस्य व्याचष्टे—परमिति ॥ अत्रेत्थं योजना । ब्रह्मानन्दादिकं 'आनन्दादित्वात्' तच्छब्दवाच्यत्वाद्वहेतोः 'लोकानन्दादिवत्' लौ किकजीवानन्दादिसदृशं न, किन्त्वतो लोकानन्दादेः 'अलौकिकत्वा त्' तृतीयार्थे पञ्चमी । अलौकिकत्वेन प्रकारेण 'परं' विलक्षणं अलौ किकमेवेत्येका प्रतिज्ञा । यद्वा—परब्रह्मानन्दादिकं 'अतो' लोकान न्दादेः 'परं' विलक्षणमित्येव प्रतिज्ञासमर्पकम्, नालौकिकत्वादित्य पि । न चेत्यादिकमपि अतः परमेवेति सावधारणप्रतिज्ञासूचितपूर्वप क्षनिषेधकं, न प्रतिज्ञान्तर्गतं, अलौकिकत्वादित्येतच्च हेतुसमर्पकमि त्यपरा । प्रथमपक्षे कुतोऽलौकिकत्वरूपवैलक्षण्यमित्यतः प्रवृत्तं सेतू न्मानेति हेतुं व्याचष्टे—एष इति । यद्वा—द्वितीयपक्षे वैलक्षण्ये सा ध्येऽतःशब्दोक्तस्यालौकिकत्वादिति हेतोः साधकतया प्रवृत्तं हेतुवाक्यं व्याचष्टे—एष इति । सेतुपदं भावप्रधानमित्याशयेन इति सेतुत्वमि त्युक्तम् । एवंविधमाधारत्वरूपं वैलक्षण्यमित्यर्थः । हिशब्दो यत इत्य