भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १६. सू - ३२. ] दीपिकासहितम्. ७९७ स्ति किञ्चन ' ( कठ. २-४-११.) इति भेदस्य ॥ ३१ ॥ — * ॐ * — १६. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ परमतः सेतून्मानसम्बन्धभेदव्यपदेशे भ्यः ॥ ॐ ॥ ३२ ॥ न चानन्दादित्वाल्लोकानन्दादिवत्, 'एष सेतुर्विधृ ता भवति । 'एकमेव' इति छान्दोग्यश्रुतिः । तस्याः 'एकं' ज्ञानान न्दादिगुणैरवयवैश्चाभिन्नं ब्रह्मैकमेव, न घटादिवद्वयवसहितैकत्वयु क्तं स्वावयवैर्भिन्नाभिन्नं, 'अद्वितीयं' समाभ्यधिकशून्यमित्यर्थः । 'ने ह' इति कठश्रुतिः । तस्याः 'इह' ब्रह्मणि 'किञ्चन' गुणगुण्यादिकं 'नाना' भिन्नं नास्तीत्यर्थः । तत्त्वप्रदीपे तु 'इह' परमेश्वररूपेषु अ वयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थ इत्युक्तं । एतत्पक्षे नानाश ब्दो नानात्वार्थकः । तथा च 'किंचन' किंरूपोऽपि हीनाधिकभावो वा अन्योन्याभावो वा पृथक्त्वरूपो वा भेदो नास्तीत्यर्थः ॥ १५ ॥ ॥ इति अहिकुण्डलाधिकरणम् ॥ * १६. अधिकरणम् ॥ ( १ ) अत्र भगवद्गुणानां लोकविलक्षणत्वं समर्थ्यते । सिद्धान्तय त्सूत्रमुपन्यस्य व्याचष्टे—परमिति ॥ अत्रेत्थं योजना । ब्रह्मानन्दादिकं 'आनन्दादित्वात्' तच्छब्दवाच्यत्वाद्वहेतोः 'लोकानन्दादिवत्' लौ किकजीवानन्दादिसदृशं न, किन्त्वतो लोकानन्दादेः 'अलौकिकत्वा त्' तृतीयार्थे पञ्चमी । अलौकिकत्वेन प्रकारेण 'परं' विलक्षणं अलौ किकमेवेत्येका प्रतिज्ञा । यद्वा—परब्रह्मानन्दादिकं 'अतो' लोकान न्दादेः 'परं' विलक्षणमित्येव प्रतिज्ञासमर्पकम्, नालौकिकत्वादित्य पि । न चेत्यादिकमपि अतः परमेवेति सावधारणप्रतिज्ञासूचितपूर्वप क्षनिषेधकं, न प्रतिज्ञान्तर्गतं, अलौकिकत्वादित्येतच्च हेतुसमर्पकमि त्यपरा । प्रथमपक्षे कुतोऽलौकिकत्वरूपवैलक्षण्यमित्यतः प्रवृत्तं सेतू न्मानेति हेतुं व्याचष्टे—एष इति । यद्वा—द्वितीयपक्षे वैलक्षण्ये सा ध्येऽतःशब्दोक्तस्यालौकिकत्वादिति हेतोः साधकतया प्रवृत्तं हेतुवाक्यं व्याचष्टे—एष इति । सेतुपदं भावप्रधानमित्याशयेन इति सेतुत्वमि त्युक्तम् । एवंविधमाधारत्वरूपं वैलक्षण्यमित्यर्थः । हिशब्दो यत इत्य

तिः' (छा.८-४-१.) 'य एष आनन्दः परस्य' 'एष नित्यो महिमा ब्राह्मणस्य' (बृ.६-४-२३.) इति सेतुत्वं ह्युच्यते । 'यतो वाचो निवर्तन्ते' (तै.२-४.) इत्यु न्मानत्वं 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप जीवन्ति' (बृ.६-३-३२.) इति सम्बन्धः । र्थे । 'उच्यते' व्यपदिश्यते । इत्युच्यत इति सर्वत्र सम्बध्यते । अ स्यात् एभ्यो व्यपदेशेभ्योऽलौकिकत्वावगमादित्यन्वयः । अत्र प्रथम पक्षे सेतुत्वादिधर्मवत्त्वरूपवैलक्षण्ये व्यपदेशः साक्षाद्धेतुः । द्वितीये तु अवगमो हेतुः । व्यपदेशस्तु तत्साधक इति विवेकः । न च व्यपदे शेभ्यः सेतुत्वादिकमेवावगम्यते नालौकिकत्वहेतुरिति वाच्यम् । अलौकिकत्वादित्यस्य टीकारीत्या लोकानन्दादावसम्भावितसेतुत्वा द्विधर्मवत्त्वादित्यर्थाभ्युपगमात् । 'एषः' इति शाखान्तरवाक्ये विधृ तिः सेतुः धारणसमर्थाश्रय इत्यर्थः । एष इति क इत्यत आह—य इति । नन्वत्रानन्दस्य विष्णुसम्बन्धित्वं न प्रतीयते परशब्दस्यानेका र्थत्वादित्यत उक्तं-एष इति । प्रकृतसार्वज्ञ्यपूर्णानन्दादिरित्यर्थः। तथा च विष्णुपरब्राह्मणश्रुतिनित्यमहिमत्वलिङ्गबलाद्विष्णुसम्बन्धित्वं ज्ञाय त इति भावः। 'यतः' इति श्रुतिरीक्षत्यधिकरणे व्याख्याता। उन्मानप दमपि भावप्रधानं कृत्वा व्याचष्टे-उन्मानत्वमिति । उद्गतं मानं मर्यादा यस्मादिति विग्रहः । पूर्णत्वमित्यर्थः । अत्र यद्यपि सर्वात्मना वेदाद्य वाच्यत्वमानन्दस्य प्रतीयते, न विष्णोः, न चोद्गतमर्यादत्वम् । तथाऽपि निमित्तेन नैमित्तिकोपलक्षणान्नासङ्गतिः । व्याख्यानान्तरं वा । स्वरू पत्वाच्चानन्दस्य, ततो नासङ्गतिः । 'एतस्य' इति बृहदारण्यकवा क्यम् । 'अन्यानि भूतानि' ब्रह्मादीनि मुक्तान्यपि 'एतस्य' विष्णोरे वानन्दस्य 'मात्रां' प्रतिबिम्बांशमश्नन्तीत्यर्थः । प्रतिबिम्बरूपविप्लुड्कं तदानन्दस्य चाखिलाः । मुक्ता ब्रह्मादयोऽश्नन्ति तारतम्येन नित्यदा ॥ इति बृहद्भाष्योक्तेः । इतीत्यनन्तरं वाक्यबोधित इति शेषः । 'सम्ब न्धो' बिम्बप्रतिबिम्बभावः उपजीव्योपजीवकभावरूपः । अन्यज्ज्ञानमि ति । 'जीवानां ज्ञानमन्यत्' नियामकादीशज्ञानान्नियम्यत्वेन विलक्ष णमित्यर्थः । 'परस्य' विष्णोः । वैलक्षण्ये निमित्तमाह—नित्येति । परस्य ज्ञानं 'नित्यानन्दाव्ययं' नियमेनानन्दरूपमव्ययं च 'पूर्णं' अ

अन्यज्ज्ञानं तु जीवानामन्यज्ज्ञानं परस्य च । नित्यानन्दाव्ययं पूर्णं परज्ञानं विधीयते ॥ इति भेदः । अतोऽलौकिकत्वात्परमेव ब्रह्मानन्दादिकम् ॥ ३२ ॥ ( २ ) सू—ॐ ॥ दर्शनात् ॥ ॐ ॥ ३३ ॥ परिमितं च ‘विधीयते’ तेन रूपेण व्यपदिश्यते शास्त्रेषु, जैवं तु न तथेत्यर्थः । इतीति । इति श्रुतिवाक्य इत्यर्थः । ‘भेदः’ ईशज्ञानस्या- धिक्यरूपं वैलक्षण्यम् । यद्यप्युदाहृतवाक्यैरानन्दमात्रस्यालौकिक- त्वमवगम्यते, न सर्वगुणानाम् । तथा च ब्रह्मानन्दादिकमित्यादिपदा- योगः । तथाऽपि सेत्वादिवाक्येष्वानन्दग्रहणात् वैलक्षण्यवाक्ये ज्ञान- ग्रहणात् तस्य चानन्दाभेदोक्तेः प्रयोजनान्तराभावात् विचित्रोक्तिब- लात्पूर्वत्र ज्ञानादीनामुत्तरत्रानन्दादीनां चोपलक्षणया ग्रहणावगमान्न दोषः । अथवा—न चेत्यनेन अतः परमित्यनेन ज्ञापितपूर्वपक्षं प्रतिषिद्ध्य ‘एषः’ इत्यादिना सौत्रहेतून्व्याख्याय अतः परमिति प्रतिज्ञा व्याख्याय- ते । अत्रात इत्यनूदितपदस्य लौकिकत्वादिति पदच्छेदेन ‘अमृतत्वस्यै- शानः’ ( तै.आ.३-१२. ) इतिवत् भावभवित्रोरभेदविवक्षया त्वप्रत्ययस्य स्वार्थिकत्वेन वा लौकिकत्वादिति व्याख्यानम् । तथा च ‘अतो लौ- किकत्वात्परं’ अलौकिकमित्यर्थः । लौकिकत्वात्परं तदतिक्रान्तमिति यथाश्रुतमेव वा । अस्मिन् पक्षे न चेत्यपि न सिद्धान्तप्रतिज्ञान्तर्गतं, किन्तु द्वितीयपक्ष इव पूर्वपक्षप्रतिषेधकम् । आद्यपक्षे तु तदपि प्रति- ज्ञान्तर्गतम् । न चैवमस्य द्वितीयसाङ्कर्यम् । नञ्प्रश्लेषाप्रश्लेषाभ्यां भेदात् । ब्रह्मानन्दादिकमित्यनेन अहिकुण्डलसूत्रे प्रकृतमीशानन्दा- दिकमिह विशेष्यत्वेन संयोज्यमित्युक्तं भवति । शिष्टं सुगमम् । तत्त्व- प्रदीपे तु परमित्यस्य उत्तममित्यर्थमुपेत्य ‘एष सेतुः’ इत्यादौ आधार- त्वामितत्वोपजीव्यत्वनियामकत्वानां व्यपदेशात् ‘नित्यानन्द’ इत्या- दाराधिक्येन वैलक्षण्यव्यपदेशाच्च सर्वस्मात्परं उत्तममेव ब्रह्मानन्दा- दिकमिति सूत्रार्थोऽभिहितः । अस्मिन् पक्षे ‘अतो’ व्यपदेशेभ्यः से- तुत्वाद्यलौकिकधर्मवत्स्वरूपालौकिकत्वावगमात्परमिति भाष्यार्थोऽवग- न्तव्यः ॥ ( २ ) हेत्वन्तरेणानन्दादेरलौकिकत्वं समर्थयत्सूत्रमुपन्यस्य व्या- चष्टे—दर्शनादिति ॥ मनोवाग्गोचरत्वादित्यर्थः । अत एवोत्तरत्र ता- दृक्श्रुत्युपन्यासः । अन्येति । ब्रह्मणोऽन्येषां जीवानामानन्दादीनामित्य-

८०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] दर्शनादेव चाम्यानन्दादीनाम् । ( ३ ) 'अदृष्टमव्यवहार्यमव्यपदेश्यं सुखं ज्ञानमोजो बलमिति ब्रह्मणस्तस्माद्ब्रह्मेत्याचक्षते तस्माद्ब्रह्मेत्याचक्षते' इ ति कौण्डिन्यश्रुतिः ॥ ३३ ॥ ( ४ ) अप्रसिद्धस्य कथमानन्द इत्यादिव्यपदेश इत्यतो वक्ति— र्थः । अस्य अतः परमिति साध्यवाक्येनान्वयः । एवशब्दो लिङ्गस्य निर- वकाशत्वेन प्राबल्यसूचकः । चो भिन्नक्रमः । न केवलं सेतुत्वादि- भ्यः, किन्तु दर्शनाच्च । ब्रह्मानन्दादीनां मनसा विषयीकरणात् वा- चा व्यवहरणात् परानन्दादीनां चातथाभूतत्वाच्चेति समुच्चये । न चा- न्यानन्दादीनां तत्तत्साक्षिवेद्यानां च कथं अन्यमनोजन्यप्रत्यक्षविषय- त्वमिति वाच्यम् । तेषां परिमितत्वेन योगिमनोजन्यप्रत्यक्षविषयत्वस- म्भवात् । सूत्रभाष्ययोः मनसा वाचेत्यध्याहारेण दर्शनपदस्य मनो- वाग्वृत्तिसामान्यपरत्वाच्च ॥ ( ३ ) ननु अन्यानन्दादीनां मनोवाग्गोचरत्वादस्तु लौकिकत्वे, ताव- ता ब्रह्मानन्दादेः कथमलौकिकत्वसिद्धिः मानाभावादित्यतस्तत्प्रमाण- त्वेन दर्शनपदोक्तां श्रुतिमाह—अदृष्टमिति ॥ परमादन्यैस्सर्वात्मनाऽ- स्पृष्टत्वेन च मनसाऽदृष्टमित्यर्थः । 'अव्यवहार्यं' वाचा । तत्त्वप्रदीप- रीत्याऽहेयोपादेयं वा । 'अव्यपदेश्यं' वाचा विविक्ततया निरूपयितु- मशक्यम् । तत्त्वप्रदीपरीत्या वाचा अव्यवहार्यं वा । इति ब्रह्मण इति । ब्रह्मण आनन्दादिकमेवं ज्ञेयमित्यर्थः । तस्माददृष्टत्वादिनाऽलौकिकान- न्दादिपूर्णत्वाद्ब्रह्मेत्याचक्षते ज्ञानिनः । तस्मात्तच्छब्दमुख्यवाच्यत्वाद्ब्र- ह्मेति शब्देन परं ब्रह्म व्यवहरन्तीत्यर्थः । श्रुतिरिति । ब्रह्मानन्दादेरलौ- किकत्वं वक्तीत्यर्थः ॥ ( ४ ) नन्वेवमानन्दादेरलौकिकत्वात्कथं श्रुतिपुराणादिष्वानन्दादि- पदप्रयोग इत्याशङ्क्य तत्परिहाराय सूत्रमवतार्य व्याचष्टे—अप्रसिद्ध- स्येति ॥ ब्रह्मानन्दादेरिति विपरिणामेनान्वेति । हेतुगर्भमिदम् । कथ- मित्याक्षेपे । आनन्दशब्दात्परं इतिशब्दो योज्यः । आदिशब्देन ज्ञानमि- त्यादिव्यवहारो गृह्यते । तथा च 'अप्रसिद्धस्य' ब्रह्मानन्दादेः 'आन- न्दादिव्यपदेशः' ब्रह्मानन्दादिकर्मकानन्दादिशब्दव्यवहारः 'कथं' केनोपायेन युज्यते । एवं 'कथं' किमर्थं युज्यते न युज्यते, तस्याप्र- सिद्धत्वेन तच्छब्दानां तत्र शक्तिग्रहायोगान् तत्र तत्प्रयोगे प्रयोजना-

[ अधि - १६. सू - ३४. ] दीपिकासहितम्. ८०१ सू—ॐ ॥ बुद्ध्यर्थः पादवत् ॥ ॐ ॥ ३४ ॥ जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते ‘पादोऽस्य विश्वा भूतानि’ (ऋ. १०-९०-३.) इति तथा। (५) अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते। भावाच्चेत्याक्षेपाभिप्रायः । आनन्दादिव्यपदेश इत्येतत् बुद्ध्यर्थ इत्यने नापि सम्बध्यते । बुद्ध्यर्थ इत्यस्य बुद्धयर्थमिति व्यत्ययेन दृष्टान्तभागे ऽप्यन्वयमभिप्रेत्य पादवदित्यंशं विवृणोति—जीवेति । सम्बन्धः अंशां शिभावः। तथा च यथा पुरुषपादस्य तदंशत्वं तथा भूतानामिति जी वेश्वरयोरंशांशित्वसम्बन्धज्ञापनार्थमित्यर्थः। न चैवं जीवेश्वरयोरभे दप्रत्ययापत्तिः। भेदश्रुतिपर्यालोचनया ज्ञातांशांशिभावस्यापि पुंसो भि न्नांशत्वस्यैव प्रतीतेः। अप्रसिद्ध इति। पुरुषदेहावयवप्रसिद्धचरणवि लक्षणः ‘त्रिपादस्यामृतं दिवि’ (ऋ.१०-९०-३.) इत्युक्तश्वेतद्वीपानन्ता सनवैकुण्ठगतनारायणवासुदेववैकुण्ठाख्यमूर्तित्रयविलक्षणश्चेत्यर्थः । यद्यपि तथाऽपीत्यर्थे, न केवलं प्रसिद्धः, किन्तु अप्रसिद्धोऽपीति समुच्चये वा अपिशब्दः। पाद इति। विश्वाख्योंश इत्यर्थः। इति श्रुतिगतेन पाद शब्देनेत्यन्वयः। ‘व्यपदिश्यते’ व्यवह्रियते। पादवदित्यनेन लब्धं दार्ष्टा न्तिकभागं दर्शयति—तथेति । ‘तथा व्यपदिश्यते’ तद्वदेव व्युत्पा द्यत इत्यर्थः । एवं ‘तथा’ लौकिकविलक्षणत्वेन अप्रसिद्धस्याप्यान न्दादेर्व्यपदेशो ‘बुद्ध्यर्थः’ आनन्दादेरनुकूलवेदनीयत्वादिशापनार्थ इ त्यर्थः । प्रकारान्तरेण तत्प्रत्यायनोपायाभावादिति भावः। न चैवमप्य लौकिकत्वविशिष्टानन्दप्रत्ययोपायाभाव इति वाच्यम् । अनुकूलवेद नीयत्वादिज्ञानमात्रवतः पुरुषस्य ‘अदृष्टमव्यवहार्यम्’ (कौपिण्ड्य.) ‘अलौकिकास्तस्य शब्दाः तथाऽर्थाः’ ( ) ‘अलौकिको ह्ये ष विष्णुः परत्वात्’ ( ) इत्यादिश्रुत्यन्तरबलेनालौकिकत्व ज्ञानसम्भवात् । सूत्रभाष्ययोर्यत इति शेषः। अस्यातो नानन्दादिव्य पदेशायोगो न वा प्रयोजनाभाव इत्यवतारिकालब्धसाध्येनान्वयः ॥ (५) अत्रार्थेऽनुभवसिद्धदृष्टान्तप्रतिपादिकां स्मृतिं चाह—अलौ किकोऽपीति ॥ यद्यपि तथाऽपीत्यर्थेऽपिशब्दः । आदिपदादानन्दादिग्र हः। ‘तच्छब्दैः’ ज्ञानमित्यादिरूपैर्लौकिकैश्शब्दैः ‘लोकस्य’ जनस्य ज्ञापनार्थायेवेति सम्बन्धः। बोधकत्वसर्वव्यवहारहेतुत्वानुकूलवेदनी १०१

८०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ज्ञापनार्थाय लोकस्य यथा राजेव देवराट् ॥ इति पाद्मे॥३४॥ —— १७. अधिकरणम् ॥ ( १ ) परानन्दमात्रात्वे कथं ब्रह्माद्यानन्दादीनां विशेष इति । यत्त्वादिज्ञापनप्रयोजनायेत्यर्थः । यथैव 'देवराट्' देवेन्द्रः प्रसिद्धराज विलक्षणोऽपि राजेवास्ते इति यथा राजेतिशब्देन 'भण्यते' व्यवह्रिय ते तथेत्यर्थः । यद्वा—यथा राजा तथेन्द्र इति वाक्येनेवेत्यर्थः । 'भण्य ते' निर्दिश्यते । अत्र ईश्वरानन्दादिरूपाणामर्थानामलौकिकत्वं नाम अप्राकृतत्वं शब्दानामलौकिकत्वं नाम वैदिकत्वमिति भावबोधकाराः। तन्न, लौकिका अपि शब्दाः अमुष्मिन् प्रवर्तमानाः अधिकार्थान् लोक विलक्षणानन्दादीन्वदन्तीति वाक्यशेषानुपपत्तेः । संस्कृतत्वरूपवैदि कत्वस्य लौकिकेष्वपि सत्त्वात् प्राकृतानां चेह प्रसक्त्यभावात् । त स्माच्छब्दतदुपजीवीतरप्रमाणगम्यत्वं लौकिकत्वमर्थस्य तदगम्यत्व मलौकिकत्वम् । एवंविधार्थके एव शब्दस्य लौकिकत्वालौकिकत्वे इ ति द्रष्टव्यम् । केचित्तु—शब्दस्यालौकिकत्वं लोकाप्राप्तभगवत्स्वरूप भूतानन्तवर्णपदादिरूपत्वमित्याहुः । तन्मूलं चिन्त्यम् । पाद्मे चायमर्थ उक्त इत्यन्वयः ॥ १६ ॥ ॥ इति परमताधिकरणम् ॥ —::— १७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्ब त्वं पूर्वनयोक्तं समर्थ्यते । पूर्वपक्षयति—परेति ॥ आनन्दशब्दात्परं आदिशब्दो योज्यः । मात्रात्वं प्रतिबिम्बत्वम् । कथमित्याक्षेपे । ब्रह्मा चतुर्मुखः । मुक्तब्रह्मादिपरोऽयं शब्दः । उक्तं हि तत्त्वप्रदीपे—सृतिगा नां सृष्ट्यादिना वैषम्यकालुष्यादेर्वैचित्र्यमुपपद्यते, न मुक्तब्रह्माद्यान न्दादीनां विशुद्धरूपाणां तदुपपत्तिरिति । मिथ इति शेषः । 'विशे षो' शुद्धचैतन्यरूपेण वैचित्र्यं स्यात् । यत इति शेषः । तथा च य तो ब्रह्माद्यानन्दादीनां परमात्मानन्दादिमात्रात्वे अभ्युपगते तेषां 'मि थः' अन्योन्यं 'विशेषः' वैचित्र्यं कथं स्यात् न स्यात्, अन्यथा बि म्बभूतभगवदानन्दादावपि विशेषः स्यात्, तथा च भगवद्रूपेषु वि शेषः गुणतारतम्यम् । एवं चेत् कथं तत्र भक्तिः कर्तव्या स्यात्, न क

[ अधि - १७. सू - ३५. ] दीपिकासहितम्. ८०३ (२) अत उच्यते— सू—ॐ ॥ स्थानविशेषात्प्रकाशादिवत् ॥ ॐ ॥ ३५ ॥ यथाऽऽदित्यस्य दर्पणादिस्थानविशेषात् प्रतिबिम्बे विशेषः एवमानन्दादेरपि । (३) ब्रह्मादिगुणवैशेष्यादानन्दादिः परस्य च । प्रतिबिम्बत्वमायाति मध्योच्चादिविशेषतः ॥ इति वाराहे ॥ ३५ ॥ र्तव्यैव स्यात्, अतः कथं ब्रह्माद्यानन्दादीनां परानन्दादिमात्रत्वं तत्प्रतिबिम्बत्वं स्यात्, नास्त्येवेति योजना ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ यथेति । द- र्पणादीत्यादिपदेन जलसूर्यकान्तादेर्ग्रहणम् । प्रसिद्धत्वाद्दर्पणग्रहणं, न प्रकृतोपयुक्तत्वात् । अपिर्यद्यपितथापीत्यर्थे । दृष्टान्तदार्ष्टान्तिकस- मुच्चये चः । आदित्यशब्दात्परमादिशब्दो योज्यः । तथा च यथाऽऽदि- त्यादेः प्रतिबिम्बे सूर्यकान्ताद्युपाधिकृते सूर्यकान्तादिस्थानविशेषात् स्थानगुणात् विशेषः अग्निजनकत्वादिवैचित्र्यं, एवं परमात्मानन्दादेः प्रतिबिम्बे जीवानन्दादौ ब्रह्मादिस्थानगतभक्त्यादिगुणविशेषाद्विशे- षो वैचित्र्यं युज्यत इति योजना । अस्यातो न प्रतिबिम्बे वैचित्र्यानु- पपत्तिरित्यध्याहृतसाध्येनान्वयः । अनेन सूत्रे षष्ठ्यन्तात्सप्तम्यन्ताच्च वतिः, आवर्तनीयश्चायं, प्रतिबिम्बोपलक्षकश्च विशेषशब्दोऽप्यावर्तनीय इति सूचितम् ॥ (३) अत्र स्मृतिं चाह—ब्रह्मादीति ॥ परमस्य आनन्दादिः ‘म- ध्योच्चादिविभेदतो’ मध्यमोत्तमाधमभेदेन ‘ब्रह्मादिगुणवैशेष्यात्’ ब्रह्मादिगतभक्तिज्ञानादिगुणवैचित्र्यात् ‘प्रतिबिम्बत्वमायाति’ प्रति- फलितो भवति । ब्रह्मादिस्वरूपोपाधौ मध्योच्चादिभेदतः प्रतिबिम्बक- रो भवतीत्यर्थः । उक्तं हि तत्त्वप्रदीपे—एवं परमात्मानन्दादेरपि ब्रह्मा- दिस्थानगतगुणविशेषात् प्रतिबिम्बभूतानन्दादिविशेष इत्युक्त्वा प्र- तिबिम्बत्वमायातीत्यर्थ इति । भावबोधे तु--ब्रह्मादीनामिति पदम- ध्याहृत्य ब्रह्मादीनामानन्दादिः परस्यानन्दादेर्ब्रह्मादिगुणवैशेष्यात् म- ध्योच्चादिविभेदतः ‘प्रतिबिम्बत्वमायाति’ प्रतिफलितो भवति तदधीन- त्वे सति तत्सदृशो भवतीति व्याख्यातम् । तत्पक्षे तत्त्वप्रदीपविरोधः तावत् स्फुटः, प्रतिबिम्बो भवतीत्यनुक्त्वा प्रतिफलितो भवतीत्युक्ताव

८०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] (४) सू—ॐ ॥ उपपत्तेश्च ॥ ३६ ॥ ऐश्वर्यात्परमाद्विष्णोर्भक्त्यादीनामनादितः । ब्रह्मादीनां सूपपन्ना ह्यानन्दादेर्विचित्रता ॥ इति पाद्मे ॥ ३६ ॥ —— १८. अधिकरणम् ॥ ( १ ) ध्यानकाले यच्चित्ते प्रदृश्यते तदेव ब्रह्मरूपं अतः कथ मव्यक्ततेति । स्वारस्यं चेति ध्येयम् । वाराह इति । उक्तार्थोऽभिहित इति शेषः ॥ ( ४ ) युक्त्यन्तरेण बिम्बानन्दाद्यवैचित्र्येऽपि प्रतिबिम्बवैचित्र्यमु पपादयत्सूत्रं पठित्वा स्मृत्यैव व्याचष्टे--उपपत्तेश्चेति ॥ न केवलं प्रति बिम्बानन्दादिवैचित्र्यस्य बिम्बावैचित्र्येऽपि स्थानविशेषादुपपत्तिः, किन्तु बिम्बभूतभगवदैश्वर्यवशाच्चेति सूत्रवृत्ति चशब्दस्याध्याहृतहे तुनाऽन्वयं चाभिप्रेत्यासिद्धिपरिहारायोपपत्तेरित्यस्य उक्तहेतुकोपप त्तिवचनादित्यर्थमुपेत्य स्मृतिरूपं तद्वचनमुदाहरति--ऐश्वर्यादिति ॥ विष्णोः परमादैश्वर्याद्ब्रह्मादीनां गुणानां भक्त्यादीनां 'अनादितः' अनादिभक्त्यादिवशादिति यावत् । ब्रह्मादीनामानन्दादेः 'विचित्रता' मध्वोच्चादिभेदभिन्नं तारतम्यं 'हि' आनन्दश्रुत्यादिप्रसिद्धं 'सूपपन्ना' सम्यगुपपन्नमित्यर्थः । एकस्यैवानन्दस्य चूतफलादिभोगप्रयुक्ता ये आनन्दादेर्विशेषास्तदात्मकत्वं विचित्रत्वं तु प्रकृतानुपयुक्तम् । भ क्त्यादिग्रहणेन पूर्वसूत्रोक्तभक्त्यादिरूपनिमित्तं चशब्दसमुच्चेयं द र्शितम्। भक्त्यादीनामनादित्वोक्त्या पुरुषापादानां भक्त्यादिस्थानगु णानां कथं स्वाभाविकानन्दादिवैचित्र्ये हेतुत्वमिति शङ्का परिहृता । पाद्म इत्यस्य सूत्रेणान्वयः । 'उपपत्तेः' उपपन्नत्वोक्तेरित्यर्थः । अस्य नासिद्धिरित्यध्याहृतसाध्येनान्वयः ॥ १७ ॥ ॥ इति स्थानविशेषाधिकरणम् ॥ —— १८. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मणो ध्यानप्रतीतादन्यत्वोक्त्या पुनरव्यक्त त्वं समर्थ्यते । पूर्वपक्षयति—ध्यानेति ॥ योजना तु—' यत् ' यतो ब्र ह्म ध्यानकाले 'चित्ते' मनसि 'प्रदृश्यते' तेन प्रतीयते अतः कथं

[ अधि - १८. सू - ३७. ] दीपिका सहितम्. ८०९ ( २ ) अत आह— सू--ॐ ॥ तथाऽन्यप्रतिषेधात् ॥ ॐ ॥ ३७ ॥ यथा जीवानन्दादेरन्यद्ब्रह्म तथोपासाकृतादपि । यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते (केन.१-६०) । इति प्रतिषेधात् । ब्रह्मणोऽव्यक्तता तस्माद्व्यक्तमेवेति । न च यच्चित्ते प्रदृश्यते न तद्ब्र ह्मेति वाच्यम् । यतस्तद्ब्रह्मरूपमेव, न ततोऽन्यत् । ननु ध्यानप्रतीतं न ब्रह्म, तथा सति ध्यातृबहुत्वेन तस्य बहुत्वपत्तेरित्यतोऽप्युक्तं—ब्र ह्मारूपमिति । रूपशब्दोऽत्र व्यक्तिपरः । समुदायैकवचनमेतत् । तथा च चित्ते प्रतीतानि ब्रह्मरूपाण्येव अतः स्वरूपभेदाभावेऽपि रूपाणां नानात्वात् ध्येयबहुत्वोपपत्तिरिति भावः ॥ ( २ ) सिद्धान्तयत्तसूत्रमवतार्य व्याचष्टे—अत इति ॥ ब्रह्मेत्येतत् तदानन्दादेरप्युपलक्षकम् । ‘उपासाकृतात्’ उपासनेन मानसवास नामयस्य वस्तुनो मनसाऽवलोकनाख्येन विषयीकृताद्वासनामयात् । अपिर्भिन्नक्रमः समुच्चयेऽवधारणे च। अत्र यथा जीवानन्दादेः ब्रह्मान न्दादिकमन्यत् तथा ब्रह्म उपासाकृतात् अन्यदिति नान्वयः। वैषम्ये णोपमानोपमेयभावायोगात् । किन्तु जीवानन्दादेरित्यतः परं यथाश ब्दस्यानृत्त्या योजनेन यथा जीवानन्दादेर्यथा येन विकृतत्वापरपर्याया न्यथात्वाल्पत्वादिना कारणेन ब्रह्मानन्दादि ततः ‘अन्यत्’ वि लक्षणं तथा तत्सदृशेन दुर्लक्षणत्वादिना कारणेन ब्रह्मापि उपासाकृ तात् ‘अन्यदपि’ विलक्षणमेवेति । अनेन सौत्रस्तथाशब्दः ‘परमतः’ इत्यत्रोक्तन्यायातिदेशकः समुच्चयार्थ इत्युक्तं भवति । इतीति । इत्येवं रूपे तलवकारवाक्ये उपासाकृतस्य ब्रह्मत्वप्रतिषेधादित्यर्थः। अनेन सू त्रे तद्व्यक्तमित्यनुवर्तनीयम् । अन्यदिति चावर्तनीयम् । तथा च ‘त त्’ ब्रह्म उपासाकृतादन्यत् । कुतः ? यतोऽन्यत् अत एव शेषशेषि णोरैक्यानुपपत्तेरेव श्रुतौ तस्य चित्ते प्रतिबिम्बितस्य ब्रह्मत्वप्रतिषेधः, अतः प्रतिषेधात् तद्वा ब्रह्म न, यतोऽन्यत् अतोऽव्यक्तमेव, न व्यक्तमिति सूत्रयोजना दर्शिता भवति । यदिदं वस्तु ‘उपासते’ ध्याय न्ति नेदं ब्रह्म, किन्तु पुरुषो यद्वस्तु ‘न मनुते’ साकल्येन न जानाति, येन वस्तुना मनो ज्ञातमाहुः कवयस्तदेव त्वं ब्रह्मेति विद्धीत्यर्थः । उ

८०६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ( ३ ) पश्यन्ति परमं ब्रह्म चित्ते यत्प्रतिबिम्बितम् । ब्रह्मैव प्रतिबिम्बे यत्तस्तेषां फलप्रदम् ॥ तदुपासनं च भवति प्रतिमोपासनं यथा । दृश्यते त्वापरोक्ष्येण ज्ञानेनैव परं पदम् ॥ उपासनात्त्वापारोक्ष्यं गमयेत्तत्प्रसादतः ॥ मां प्रति शङ्करवाक्यमेतत् । यद्यपि तलवकारभाष्ये आसेति भिन्नं प दमुपेत्य नेदं जीवस्वरूपं ब्रह्म, किन्तु यत् 'ते' तव 'उप' समीपे 'आ स' नियामकतया आस्ते तदेव ब्रह्म विद्धीति श्रुत्यर्थोऽभिहितः । तथा ऽपि प्रकृतोपयुक्तं व्याख्यानान्तरमेतत् । तत्राप्यासत्त इत्येकपदं ध्येय विरोधः ॥ ( ३ ) ननु ध्यानकाले प्रतीतस्याब्रह्मत्वे कथं ब्रह्म फलदं स्यात् । न ह्यन्यस्य ध्यानमन्यस्य फलदातृत्वमिति युज्यते अतिप्रसङ्गादित्यत आह—पश्यन्तीति ॥ यन्मनसि 'प्रतिबिम्बितं' प्रतिफलितं वासनाम यं वस्तु तत्परमं ब्रह्मेत्युच्यते । उपचारेण तदाश्रये तद्व्यपदेश इति भावः । तदेव ध्यानकाले पश्यन्ति । केचित्तु—ध्यानानन्तरं परमं ब्र ह्यापरोक्ष्येण पश्यन्तीत्यन्वयमाहुः । ननु प्रतिबिम्बितस्याब्रह्मत्वात् त द्ध्यानं कथं ब्रह्मध्यानफलदं स्यादित्यत आह—ब्रह्मैवेति । यतो न ध्या नं फलदं, किन्तु प्रतिबिम्बे यद्ब्रह्मास्ति तदेव तेषां ध्यातॄणां दर्शनाख्य फलप्रदमतो नोक्तदोष इत्यर्थः । यतः प्रतिबिम्बे ब्रह्मास्ति अतस्तेषां फलप्रदं भवतीत्येव वा । अल्पा अपि पिशाचादयः स्वाकारस्मृतौ किञ्चित्फलं दद्युः किमुत सर्वज्ञं सर्वशक्तिकं ब्रह्मेति भावेन पुनर्ब्रह्मेत्यु क्तिः । ननु स्थितिमात्रेण कथं ब्रह्म फलदमध्यातत्वादित्यत आह-तद्वि ति । प्रतिबिम्बोपासनमित्यध्याहारेण सम्बध्यते । तदुपासनमित्यस्या वृत्तिर्वा । तथा च यथा 'प्रतिमोपासनं' प्रतिमायामित्थंभूतो भगवा नस्तीति स्मृतिः तदुपासनं तदधिष्ठितब्रह्मोपासनं भवति, तथा 'तदु पासनं' प्रतिबिम्बोपासनं वासनामयवस्तुध्यानमपि 'तदुपासनं' ब्रह्मो पासनं भवतीति योजना ॥ प्रतिबिम्बं ब्रह्मैव कुतः न भवतीत्यत आह- दृश्यते इति ॥ यतः 'परं पदं' उत्तमं ब्रह्मापरोक्ष्येण । स्वार्थे ष्यञ्-भावत- द्वतोरभेदोपदेशो वा। अपरोक्षेण ज्ञानेनैव 'दृश्यते' विषयीक्रियते, न तु ध्यानेनेत्यर्थः । अपरोक्षेणेति पाठः स्वरसः। तर्हि ज्ञानायैव प्रयतितव्यं,

[ अधि - १९. सू - ३८. ] दीपिकासहितम्. ८०७ इति ब्रह्मतर्के ॥ ३७ ॥ -------------------------------------------------------------------- १९. अधिकरणम् ॥ ( १ ) देशकालान्तरे अन्यतोऽपि सृष्ट्यादि युक्तम् ॥ इति ॥ ( २ ) अतो ब्रूते— सू—ॐ ॥ अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ॐ ॥ ३८ ॥ किमुपासनयेत्यत आह-उपासनेति । तुशब्दो निरर्थकत्वव्यवच्छेदकः, स्वातन्त्र्यव्यवच्छेदको वा अवधारणे वा । तथा चोपासना तस्य ध्या- नमेव । तस्य ब्रह्मणः प्रसादेन 'तत्' ब्रह्मापरोक्ष्यं 'गमयेत्' प्रापये- दित्यर्थः । तद्ब्रह्मापरोक्ष्यमपरोक्षज्ञानं तद्विषयतां गमयेदिति वा । ब्रह्म- तर्के इत्यनन्तरमुक्तं अतो न किञ्चिद्दोषावकाश इति वाक्यशेषः ॥१८॥ ॥ इति तथान्यत्वाधिकरणम् ॥ ::- १९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवत एव सर्वकर्तृत्वादि समर्थ्यते । पूर्वप- क्षयति—देशेति ॥ 'अन्यतो' ब्रह्मणोऽन्यस्मात् । अपिरेवार्थः । तत्त्व- प्रदीपे तु यद्यपि सृष्ट्यादि ब्रह्मण एव, तथाऽपि देशकालान्तरेऽन्यतो युक्तमित्यपिशब्दार्थ उक्तः । तथा च न ब्रह्मणः सकाशादेव सर्वसृ- ष्ट्यादि युक्तमिति भावः । युक्तेति पाठे क्रियेति संयोज्यम् । युक्तेत्यने- न राजादौ तथा दर्शनादिति युक्तिरुक्ता भवति ॥ ( २ ) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ प्रवर्तेत इ- त्यन्तेन अनेनेति साध्यभागः अनेन एषु इदमित्यावृत्तिविपरिणामा- भ्यां व्याख्यातः । सृष्ट्यादिकं प्रवर्त्तते भवतीति शेषो वा । पूर्वसूत्रेऽ- न्यदित्यस्य विशेष्यतया प्रकृतं ब्रह्मानेनेति परामृश्यते । न त्वन्यत इ- त्यवधारणार्थः । आधारत्वं विषयत्वं च सप्तम्यर्थः । तत्र देशकाल- योराधारत्वं वियदादिवस्तुनो विषयत्वमिति विवेकः । कुत इत्यतोऽत्र हेतुत्वेन प्रवृत्तं सर्वगतत्वेत्याद्यंशं सर्वगतत्वं च मायामयशब्दश्च सर्व- गतत्वमायामयशब्दौ तयोश्शब्द इति शब्दपदावृत्त्या विग्रहं एकत्र ष- ष्ठ्याः प्रतिपाद्यप्रतिपादकसम्बन्धार्थकत्वं अन्यत्र व्याख्यानव्याख्येय- भावसम्बन्धार्थकत्वं चाभिप्रेत्योभयविधश्रुत्युपन्यासपूर्वकं व्याचष्टे- एष इति । 'एषः' हरिः 'सर्वो' गुणपूर्णः व्याप्तश्चेत्यर्थः । प्रत्युद्देश्यं

८०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] सर्वदेशकालवस्तुष्वनेनैव सृष्ट्यादिकं प्रवर्त्तते । ' एष सर्व एष सर्वगत एष सर्वेश्वर एषोऽचिन्त्य एष पर मः' इति भालुवेयश्रुतिः । ( ३ ) सर्वत्र सर्वमेतस्मात्सर्वदा सर्ववस्तुषु । स्वरूपभूतया नित्यशक्त्या मायाख्यया यतः ॥ अतो मायामयं विष्णुं प्रवदन्ति सनातनम् । इति चतुर्वेदशिखायाम् । आदिशब्दादन्यत्र प्रमाणा भावाच्च ॥ ३८ ॥ विधेयसम्बन्धबोधनायैष इत्यभ्यासः । यद्यपि प्रथमोक्तं सर्वत्वं न सा- ध्यसाधकमिति भावेन यदनन्तरोक्तं सर्वगतत्वं सूत्रकृता गृहीतं तद प्यस्यैव सृष्ट्यादिकर्तृत्वमित्युक्तसाध्ये साधकं न भवति । तथाऽपि 'अनुप्रविश्य नामरूपे व्याकरोत्' (छा. ६-३-२.) इति श्रुतेः सर्वगत- त्वस्य सृष्ट्याद्यर्थत्वात् तच्छब्देनोक्तसाध्यसिद्धिसम्भवाद्युक्तस्तदुप- न्यासः। ईश्वरपरत्वज्ञापनाय समग्रश्रुत्युपन्यासः। सर्वगतत्वश्रुतौ सर्व- सृष्ट्यादिकर्तृत्वस्य अर्थादुक्तत्वात् मायामयशब्दोक्तायां मायामयशब्द- व्याख्यानरूपायां श्रुतौ तु साक्षादुक्तत्वात् प्रमेयभेदाच्छ्रुतिद्वयोपन्यासः॥ ( ३ ) 'सर्वत्र' सर्वदेशेषु 'एतस्मात्' विष्णोः 'सर्वदा' सर्वका- लेषु सर्ववस्तुषु सर्वमित्यन्वयः । सर्ववस्तुविषयं सृष्ट्यादीत्यर्थः । प्रव- र्तेत इति भाष्यपदमिहापि सम्बध्यते। तथा च यतः एतस्मात् मायया विश्वसृष्ट्यादि 'प्रवर्तते' भवति, अत एनं विष्णुं मायामयं वदन्ति क- वयः। मायया शक्त्या मातीति माया इच्छात्मिका शक्तिः स्वरूपभूता यस्यासौ मायामय इति व्युत्पत्तिसम्भवादिति भावः । कदाचिद्वि- ष्ण्वभावे शक्त्यभावेन सर्वदेशकालीनसर्वसृष्ट्यादिकर्तृत्वायोगा इति शङ्कावारणाय - 'सनातनं' परमनित्यं विष्णुं नित्यशक्त्येति चोक्तम् । नित्यत्वोपपादनाय—स्वरूपभूतयेति । चतुर्वेदशिखायां श्रुतिः पठिते- ति शेषः। 'अन्यत्र' देशकालान्तरे कतिपयवस्तुविषये विष्णोरन्यतः सृष्ट्यादावित्यर्थः । प्रमाणाभावाच्चेति । इति सङ्गृहीतमिति शेषः । न केवलं स्वपक्षसाधकादुक्तसाध्यसिद्धिः, किन्त्वन्यत्र परपक्षे प्रमाणा- भावाच्चेति समुच्चये चशब्दः ॥ १९ ॥ ॥ इति फलाधिकरणम् ॥

[ अधि - २०. सू - ४०. ] दीपिकासहितम्. ८०९ २०. अधिकरणम् ॥ ( १) कर्मापेक्षत्वात्फलदानस्य तदेव ददातीति न वाच्यम्। कुतः ? ( २ ) सू—ॐ ॥ फलमत उपपत्तेः ॥ ॐ ३९ ॥ अत एवेश्वरात्फलं भवति । न ह्यचेतनस्य स्वतः प्रवृ- त्तिर्युज्यते ॥ ३९ ॥ ( ३ ) सू—ॐ ॥ श्रुतत्वाच्च ॥ ॐ ॥ ४० ॥ २०. अधिकरणम् ॥ ( १ ) अत्राधिकरणे भगवतः स्वर्गादिकर्मफलदातृत्वं समर्थ्यते । पूर्वपक्षयति—कर्मेति ॥ फलदानस्येति षष्ठी सप्तम्यर्थे । ईश्वरस्येति शेषः । तथा च शुभाशुभफलदाने ईश्वरस्य पुण्यपापाख्यकर्मापेक्षत्वा दित्यर्थः । यद्वा—ईश्वरकर्तृकफलदानस्य कर्मापेक्षत्वासद्धीनत्वादि त्यर्थः । कर्मापेक्षत्वादित्येतद्व्याहत्यसिद्धिपरिहाराय कर्मापेक्षत्वस्ये श्वरवादिभिरङ्गीकृतत्वादित्यपि व्याख्येयम् । एवं फलदानस्य फलख ण्डनस्य फलादानस्य कर्मापेक्षत्वात् तदकरणापेक्षत्वादिति व्यतिरेक परतयाऽपीदं व्याख्येयम् । तथा च अन्वयव्यतिरेकाभ्यां तदेव कर्मैव फलं ददाति नेश्वर इति ज्ञायत इत्यर्थः । सिद्धान्तयन्नेतत्प्रतिषेधति- इति न वाच्यमिति । अत्र हेतुं पृच्छति—कुत इति ॥ ( २ ) एतच्चोद्योत्तरत्वेन सूत्रमुपन्यस्य व्याचष्टे—फलमिति ॥ अ त इत्यनूद्य सावधारणत्वाभिप्रायेणास्मादीश्वरादेवेति व्याख्यातम् । न कर्मण इत्येवार्थः । उपलक्षणमेतत् । अतः सर्वत्र सर्वमेतस्मादित्यु क्तेरेवेति तत्त्वप्रदीपोक्तमपि द्रष्टव्यम् । 'फलं' स्वर्गनरकादिरूपम् । भवतीति सूत्रशेषोक्तिः । इतिशब्दो हेतौ, सूत्रार्थस्य न वाच्यमिति साध्ये हेतुत्वद्योतकः । फलमत इति प्रतिज्ञायामुपपत्तेरिति हेतुर्यो ज्यः । तस्येश्वरस्य चेतनत्वात्सर्वेशितृत्वाच्च फलदातृत्वोपपत्तेरित्य र्थः इत्याशयेनैवकारेणोक्ते कर्मणः फलदातृत्वाभावे उपपत्तिरित्यनेना र्थलब्धं हेतुं स्वयं योजयति—न हीति । अचेतनस्येति हेतुगर्भः । 'प्र वृत्तिः' फलदाने । फलदातृत्वमिति यावत् । अस्मदादावदर्शनादिति हिशब्दार्थः । अन्याधीनप्रवृत्तिदर्शनात्कथमेतदित्यत आह-स्वत इति॥ ( ३ ) नन्वीश्वरस्य चेतनत्वेन फलदातृत्वसम्भावनैव भवेत् न नि १०२

८१० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्' (बृ. ५- ९-२८.) इति ॥ ४० ॥ (४) सू-ॐ ॥ धर्मं जैमिनिरत एव ॥ ॐ ॥ ४१ ॥ यतः फलं तदेव कर्म ईश्वराद्भवति । 'एष ह्येव साधु श्चयः, अतः कुतोऽसौ निश्चय इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य तदुपा- त्तश्रुतिमेवोदाहरति—श्रुतत्वाद्वेति ॥ इति श्रुतत्वादित्यन्वयः । न के- वलं चेतनत्वादुपपत्तेरीश्वरस्य फलदातृत्वं सम्भाव्यते, किन्तु श्रुत्यु- क्तत्वाच्च तन्निश्चीयते चेति सूत्रार्थः । 'विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् । तिष्ठमानस्य तद्विदः' (बृ.५-९-२८.) इति वाजसनेयवाक्ये एकवचनं समुदायापेक्षया, विशेष्यब्रह्मशब्दवि- वक्षया आनन्दमिति नपुंसकप्रयोगः 'निर्दोषचैतन्यसुखान्तनुम्' इ- ति विष्णुतत्त्वनिर्णयोदाहृतवाक्य इव । तथा च 'दातुः' हविःप्रदातृ- णां यजमानानां पूजकानां 'रातिः' प्रियः । फलप्रद इति यावत् । 'ति- ष्ठमानस्य' स्वस्मिन् मनसा वर्तमानानां 'तद्विदो' ब्रह्मज्ञानिनां 'परा- यणं' परमप्रियं 'विज्ञानं' पूर्णज्ञानं पूर्णानन्दं ब्रह्मेत्यर्थः । यथोक्तं बृ- हद्भाष्ये— स प्रियः सर्वदातॄणां ज्ञानिनां परमप्रियः । ये तु तद्भाविता नित्यं तेषामेव परायणम् ॥ इति ॥ ब्रह्मपरत्वस्फोरणाय विज्ञानमित्याद्युदाहृतम् ॥ (४) उक्तमाक्षिपत्सूत्रमुपन्यस्य व्याचष्टे—धर्ममिति ॥ तत्कर्मैवे- त्येवकारान्वयः । सौत्रधर्मपदमधर्मस्याप्युपलक्षकमिति भावेन तदिति स्वपदं कर्मेति सामान्यपदेन विवृतम् । ईश्वरात् यतश्श्रुतिरित्याभ्यां अ- त इति पदं द्वेधा व्याख्यातम् । कर्मेति सामान्योक्त्या 'एष ह्येव' इति श्रुतिप्रतीकग्रहणेन च 'एष ह्येवासाधु कर्म कारयति' (कौ.३-८.) इ- त्यस्याप्युदाहर्तव्यतां ज्ञापयति । जैमिनिर्मन्यत इति शेषः । श्रुतिस्तु वैष- म्येन्वये व्याख्याता। सूत्रे नेति शेषः । तथा च यदुक्तं ईश्वर एव फल- प्रदो, न कर्मेति तन्न, कुतः ? 'अत एव' फलस्य कर्मान्वयव्यतिरेका- नुविधायित्वादेव । इदं तु न्याय्यं, किं तत्? यत् 'अतो' धर्माधर्मा- ख्यकर्मत एव फलं भवति, तच्च कर्म तदीश्वराद्भवति । कुतः ? 'अ- तः' 'एष ह्येव' इति श्रुतेरेव । यत एवमत ईश्वरोऽपि अतः एतस्मि-

  • सू - ४२. ]or[ अधि - २०. - सू - ४२. ]. Let's just transcribe: [ अधि - २०. - सू - ४२. ] दीपिकासहितम् । ८११or with dots:[ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११`.

    Let's trace all lines from top to bottom: [ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११ कर्म कारयति' (कौ० ३-८.) इति श्रुतेरिति जैमिनिः ॥ ४१ ॥ ( ५ ) सू - ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ॐ ॥ ४२ ॥ परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म पर प्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' (प्र. ३-२.) इति हेतुव्यप ष 'रातिः' इति श्रुतिवचने एतेन फलदातृत्वेन रूपेणोपचर्यत इति । न केवलं कर्मणः फलप्रदत्वमन्वयव्यतिरेकरूपन्यायप्राप्त

९१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] देशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ॥ ४२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥ र्वोक्तचेतनत्वादिति हेतुः ‘द्रव्यम्’ इति स्मृतिश्च समुच्चीयत इत्युक्तं भ वति । ‘पुण्येन’ इति श्रुतिः वैषम्यनये ‘द्रव्यम्’ इति स्मृतिश्च रचना धिकरणे व्याख्याता । अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाशय तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददा तीत्यहो भगवतो नारायणस्याश्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थ विशेषोऽपि ग्राह्यः । कर्मब्रह्मणोः स्वातन्त्र्यास्वातन्त्र्यव्युत्पादनप्रका रश्च तत्रैवोक्तः ॥ २० ॥ ॥ इति फलाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥

[ अधि - १०. सू - १. ] दीपिकासहितम्. ८१३ १०. अधिकरणम् ॥ ( १ ) उपासनाऽस्मिन् पादे उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते— सू—ॐ ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ॐ ॥ १ ॥ १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—उपासनेति ॥ जिज्ञासापरपर्यायोपास ना 'अस्मिन्' तृतीयस्य तृतीये पादे 'उच्यते' कर्तव्यत्वेन प्रतिपाद्यत इत्यर्थः । आद्याधिकरणतात्पर्यमाह-सर्वेति । उपासना द्विविधा । श्रव णमननापरपर्यायशास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्राद्यायाः य थाशक्तिसर्ववेदतदर्थज्ञानरूपाया अज्ञानसंशयविपर्ययनिर्वर्तिकायाः ध्यानाङ्गत्वात् सैव 'प्रथमतः' आद्याधिकरणे 'उच्यते' अधिकारि भिः सम्पाद्यत्वेन प्रतिपाद्यत इत्यर्थः । अत्र भाष्यसुधाटीकासु सर्ववे देति सर्वशाखेति च विशिष्योक्त्या मीमांसकमत इव ऋग्यजुस्साम रूपवेदत्रयस्याध्येतव्यत्वनियमवत्तैत्तिरीयकाण्वादिरूपशाखाद्वयस्य ध्येतव्यत्वनियमो नास्तीति न भ्रमितव्यमिति सूचितम् । अस्मन्मते सर्ववेदसर्वशाखोक्तब्रह्मगुणज्ञानार्थं शक्तैस्सर्ववेदवत्सर्वशाखानां अ ध्येतव्यत्वात् । तदर्थानामपि शक्तैर्ज्ञेयत्वात् । अशक्तैस्तु यथाशक्ति अध्येतव्यत्वात् ज्ञेयत्वाच्च । अत्र किमेकैकेनैव सर्ववेदशाखोक्तं ब्रह्म श्रवणमननाभ्यां ज्ञातव्यं उत स्वस्ववेदशाखोक्तमिति संशये स्वस्ववे दशाखोक्तमेव ज्ञातव्यमिति पूर्वपक्षे च सति सिद्धान्तयत्सूत्रं पठति- सर्वेति । अत्र वेदान्तपदस्योपनिषत्परत्वभ्रान्तिनिवारणाय अन्तपदं व्या चष्टे-अन्त इति । अत्र प्रमाणमाह-उभयोरिति । 'नासतो विद्यते भावो नाभावो विद्यते सतः' ( गी. २-१६. ) इति पूर्वार्धेन असच्छब्दितस्य कारणस्य प्रकृतेः सच्छब्दितस्य ब्रह्मणश्चाभावः प्रागभावः प्रध्वंसश्च न विद्यत इति वेदनित्यत्वसाधकानादिनित्यत्वव्याप्तावनेकदृष्टान्तप्रद र्शनाय तत्रादरपूर्वकं प्रकृतिपरब्रह्मणोरनादिनित्यत्वमभिधाय अत्रार्थे सम्प्रदायरूपप्रमाणमुच्यते—उभयोरिति । 'अनयोरुभयोः' सदस तोरन्तो निर्णयोऽनादिनित्यत्वावधारणं 'तत्त्वदर्शिभिः' वेदार्थत तत्त्वज्ञानिभिः 'अपिदृष्टः' कृतश्चेत्यर्थः । अपिसिञ्चेतिवत् अपिदृष्ट इति निर्देशः । यद्वा—तत्त्वदर्शिभिरपीति भिन्नक्रमेणापिशब्दान्वयः । न केवलं 'प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम' इत्यागमसिद्धमेत

<९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः' (गी. २-१६.) इति वचनात् सर्ववेदान्तविनिर्णयोत्पाद्यज्ञानं ब्रह्म। (२) 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यादिविधीनां त दित्यपिशब्दार्थः । यद्वा—'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्य र्थः। अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयो क्तो भवति । वचनादिति । गीतायामिति शेषः । सूत्रे पूर्वसूत्रात् ब्र ह्मवाचकं पूर्वपद्मनुवर्त्य सर्वेति साध्यभागं व्याचष्टे—सर्वेति । सूत्र भाष्ययोर्वेदशब्दः तदर्थपरः । शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वा भावात् । तथा च सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रूपः प्रत्य यो ज्ञानं यस्य तत्तथोक्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् । अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथा च तत्त्वप्रदीपटीकारीत्या पूर्वपदोदितं ब्रह्म सर्ववेदाधिगमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्ण यरुपज्ञानविषय इति साध्यार्थः । टीकायां ध्यानार्थिना सर्ववेदान्निर्णी य श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः । केचित्तु-सर्ववेदानां योऽन्तः निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः। अस्मिन् पक्षे व्यधिकरणबहुव्रीहिमात्रं दोषः । उदाहृततत्त्वप्रदीपटीके अनुगुणे । सर्ववेदनिर्णयेनोत्पाद्यज्ञान

[ अधि - १. सू - २. ] दीपिकासहितम्. ८१५ युक्तयुक्तीनां च अविशिष्टत्वात् ॥ १ ॥ ( ३ ) सू-ॐ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥ २ ॥ तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येते सर्व एकंभवन्ति' (बृ.३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ.३-४-१५.) 'न हास्य कर्म क्षीयते' (बृ.३-४-१५.) 'अमृतस्यैष सेतुः' (मुं.२-२-५०) 'वाचो विग्लापनं हि तत्' (बृ.६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां 'अविशिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इतरांगस्तु भे यादिप्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः । बृहदार ण्यके 'आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्व प्रशंसार्थमर्थवादइद्भूतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः' (बृ. ३-४-७.) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वश्रोतृत्व मन्तृत्वादयः सर्वेगुणाः 'एकं भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रा त्मत्वस्य विवक्षितसर्वगुणसंग्राहकत्वयुक्तिरुच्यते । यद्यपि 'अत्र' आत्मत्वे सर्वेऽप्यान्दादयो गुणाः अन्तर्भवन्तीत्यर्थः टीकायां 'आत्म गृहीतिः' इत्यधिकरणे अभिहितः । तथा व्यासतीर्थीये 'अत्र' आत्म शब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन 'एकं भवन्ति' पुञ्जी भवन्तीत्यर्थ उक्तः । ते च पूर्वे नोक्ताः, किन्तु तत्त्वप्रदीपोदाहृतवाक्यो क्ता एव । तथाऽपि 'प्राणन्' इत्यनेनानन्दस्वामित्वनिर्दोषत्वानां ग्रह णादविरोधः । एवं 'आत्मानमेव लोकम्' इति विधिसमीपवर्तिनि 'न हास्य' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्व णे 'तमेवैकम्' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थवादे मु क्तोपसृप्यत्वयुक्तिरुच्यते । तथा बृहदारण्यके 'विज्ञाय' इति वाक्य समीपवर्तिनि 'वाचो विग्लापनम्' इति वाक्येऽन्यार्थवेदाध्ययनादे र्वाक्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनाम विशेषात्सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामवि शेषात्, एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देश शून्यत्वात् तदुक्तयुक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषकल्पक त्वादिति हेतुवाक्यस्यानेकधार्थ उक्तो भवति ॥ ( ३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपपाशं तावद्व्याचष्टे-भे दादिति ॥ 'विज्ञानम्' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके । आ

'विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) 'सत्यं ज्ञानमन- न्तं ब्रह्म' (तै. २-१.) इत्यादिप्रतिशाखमुक्तिभेदान्नै- काधिकारिविषयाः सर्वशाखा इति चेत्—न, एक- स्यामपि शाखायां 'आत्मेत्येवोपासीत' (बृ.३-४-७.) दिपदेन 'श्रोता मन्ता' (ऐ.आ.३-२-४-१९.) इत्यैतरेयवाक्यम्, 'य आत्मा ऽपहतपाप्मा' (छा.८-७-१.) इति छन्दोगवाक्यं च गृह्यते । प्रतिशाखम- त्याद्युक्तिभेदादित्यन्वयः । इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उ- क्तिः वाचिका येषामर्थानामिति च द्वेधा विग्रहः । एवमाक्षेपांशे साध- नांशं व्याख्याय साध्यांशं व्याख्याति—नेति । सर्वशाखाः नैकार्थविषयाः तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिका- रिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नञावृ- त्त्यभिप्रायेण सौत्रं परिहारांशं व्याचष्टे—नेति । तत्तच्छाखोक्तार्थानां पृ- थक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यम्, किन्त्वनेकैरिति नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे—एकस्यामिति । न केवलमनेकशाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य वि- शेष्यत्वमभिप्रेत्याह—शाखायामिति । वाजसनेयशाखायामित्यर्थः । इत्यादीति । इत्याद्युक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिकधर्माणां च भे- ददर्शनादित्यर्थः । आवृत्त्यान्वितस्य भेदादित्यस्यासिद्धिपरिहाराय —दर्शनादित्युक्तम् । आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्द- ज्ञानवाचिनौ । आदिशब्देन गुणान्तरोक्तयो गृह्यन्ते । सूत्रे भेदादपी- त्यपिशब्दान्वयः । न भेदादित्यपि । भेदशब्देन प्रसङ्गभेदोऽपि ग्राह्यः । साम्यादिति शेषः । तथा चायं सूत्रार्थः—'भेदात्' प्रतिशाखं 'वि- ज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्युक्तिभेदात् अत एव सर्वशाखोक्तार्थानामपि 'भेदात्' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु स्वस्वशाखान्तप्रत्ययमिति चेन्न । तथा सति 'एकस्यामपि' चोदनायां शाखायां 'भेदात्' 'आत्मेत्येवोपासीत' 'कं ब्रह्म खं ब्रह्म' (छा.४-१०-५.) इत्याद्युक्तिभेददर्शनात् अत एव तत्रो- क्तार्थानामपि भेदावगमादेकस्यामपि 'भेदात्' अधिकारिभेदप्रसङ्गात्। नन्वेकस्यामपि शाखायां विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात्' अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशाखास्वपि विधेयध- र्मस्यैव भेदाद्धर्मिणां न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्व