पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 849, कुल 1267 में से
संदर्भ में पढ़ें८०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] ज्ञापनार्थाय लोकस्य यथा राजेव देवराट् ॥ इति पाद्मे॥३४॥ —— १७. अधिकरणम् ॥ ( १ ) परानन्दमात्रात्वे कथं ब्रह्माद्यानन्दादीनां विशेष इति । यत्त्वादिज्ञापनप्रयोजनायेत्यर्थः । यथैव 'देवराट्' देवेन्द्रः प्रसिद्धराज विलक्षणोऽपि राजेवास्ते इति यथा राजेतिशब्देन 'भण्यते' व्यवह्रिय ते तथेत्यर्थः । यद्वा—यथा राजा तथेन्द्र इति वाक्येनेवेत्यर्थः । 'भण्य ते' निर्दिश्यते । अत्र ईश्वरानन्दादिरूपाणामर्थानामलौकिकत्वं नाम अप्राकृतत्वं शब्दानामलौकिकत्वं नाम वैदिकत्वमिति भावबोधकाराः। तन्न, लौकिका अपि शब्दाः अमुष्मिन् प्रवर्तमानाः अधिकार्थान् लोक विलक्षणानन्दादीन्वदन्तीति वाक्यशेषानुपपत्तेः । संस्कृतत्वरूपवैदि कत्वस्य लौकिकेष्वपि सत्त्वात् प्राकृतानां चेह प्रसक्त्यभावात् । त स्माच्छब्दतदुपजीवीतरप्रमाणगम्यत्वं लौकिकत्वमर्थस्य तदगम्यत्व मलौकिकत्वम् । एवंविधार्थके एव शब्दस्य लौकिकत्वालौकिकत्वे इ ति द्रष्टव्यम् । केचित्तु—शब्दस्यालौकिकत्वं लोकाप्राप्तभगवत्स्वरूप भूतानन्तवर्णपदादिरूपत्वमित्याहुः । तन्मूलं चिन्त्यम् । पाद्मे चायमर्थ उक्त इत्यन्वयः ॥ १६ ॥ ॥ इति परमताधिकरणम् ॥ —::— १७. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्माद्यानन्दादीनां भगवदानन्दादिप्रतिबिम्ब त्वं पूर्वनयोक्तं समर्थ्यते । पूर्वपक्षयति—परेति ॥ आनन्दशब्दात्परं आदिशब्दो योज्यः । मात्रात्वं प्रतिबिम्बत्वम् । कथमित्याक्षेपे । ब्रह्मा चतुर्मुखः । मुक्तब्रह्मादिपरोऽयं शब्दः । उक्तं हि तत्त्वप्रदीपे—सृतिगा नां सृष्ट्यादिना वैषम्यकालुष्यादेर्वैचित्र्यमुपपद्यते, न मुक्तब्रह्माद्यान न्दादीनां विशुद्धरूपाणां तदुपपत्तिरिति । मिथ इति शेषः । 'विशे षो' शुद्धचैतन्यरूपेण वैचित्र्यं स्यात् । यत इति शेषः । तथा च य तो ब्रह्माद्यानन्दादीनां परमात्मानन्दादिमात्रात्वे अभ्युपगते तेषां 'मि थः' अन्योन्यं 'विशेषः' वैचित्र्यं कथं स्यात् न स्यात्, अन्यथा बि म्बभूतभगवदानन्दादावपि विशेषः स्यात्, तथा च भगवद्रूपेषु वि शेषः गुणतारतम्यम् । एवं चेत् कथं तत्र भक्तिः कर्तव्या स्यात्, न क