भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 848, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 848

[ अधि - १६. सू - ३४. ] दीपिकासहितम्. ८०१ सू—ॐ ॥ बुद्ध्यर्थः पादवत् ॥ ॐ ॥ ३४ ॥ जीवेश्वरसम्बन्धज्ञापनार्थमप्रसिद्धोऽपि पादो यथा पादशब्देन व्यपदिश्यते ‘पादोऽस्य विश्वा भूतानि’ (ऋ. १०-९०-३.) इति तथा। (५) अलौकिकोऽपि ज्ञानादिस्तच्छब्दैरेव भण्यते। भावाच्चेत्याक्षेपाभिप्रायः । आनन्दादिव्यपदेश इत्येतत् बुद्ध्यर्थ इत्यने नापि सम्बध्यते । बुद्ध्यर्थ इत्यस्य बुद्धयर्थमिति व्यत्ययेन दृष्टान्तभागे ऽप्यन्वयमभिप्रेत्य पादवदित्यंशं विवृणोति—जीवेति । सम्बन्धः अंशां शिभावः। तथा च यथा पुरुषपादस्य तदंशत्वं तथा भूतानामिति जी वेश्वरयोरंशांशित्वसम्बन्धज्ञापनार्थमित्यर्थः। न चैवं जीवेश्वरयोरभे दप्रत्ययापत्तिः। भेदश्रुतिपर्यालोचनया ज्ञातांशांशिभावस्यापि पुंसो भि न्नांशत्वस्यैव प्रतीतेः। अप्रसिद्ध इति। पुरुषदेहावयवप्रसिद्धचरणवि लक्षणः ‘त्रिपादस्यामृतं दिवि’ (ऋ.१०-९०-३.) इत्युक्तश्वेतद्वीपानन्ता सनवैकुण्ठगतनारायणवासुदेववैकुण्ठाख्यमूर्तित्रयविलक्षणश्चेत्यर्थः । यद्यपि तथाऽपीत्यर्थे, न केवलं प्रसिद्धः, किन्तु अप्रसिद्धोऽपीति समुच्चये वा अपिशब्दः। पाद इति। विश्वाख्योंश इत्यर्थः। इति श्रुतिगतेन पाद शब्देनेत्यन्वयः। ‘व्यपदिश्यते’ व्यवह्रियते। पादवदित्यनेन लब्धं दार्ष्टा न्तिकभागं दर्शयति—तथेति । ‘तथा व्यपदिश्यते’ तद्वदेव व्युत्पा द्यत इत्यर्थः । एवं ‘तथा’ लौकिकविलक्षणत्वेन अप्रसिद्धस्याप्यान न्दादेर्व्यपदेशो ‘बुद्ध्यर्थः’ आनन्दादेरनुकूलवेदनीयत्वादिशापनार्थ इ त्यर्थः । प्रकारान्तरेण तत्प्रत्यायनोपायाभावादिति भावः। न चैवमप्य लौकिकत्वविशिष्टानन्दप्रत्ययोपायाभाव इति वाच्यम् । अनुकूलवेद नीयत्वादिज्ञानमात्रवतः पुरुषस्य ‘अदृष्टमव्यवहार्यम्’ (कौपिण्ड्य.) ‘अलौकिकास्तस्य शब्दाः तथाऽर्थाः’ ( ) ‘अलौकिको ह्ये ष विष्णुः परत्वात्’ ( ) इत्यादिश्रुत्यन्तरबलेनालौकिकत्व ज्ञानसम्भवात् । सूत्रभाष्ययोर्यत इति शेषः। अस्यातो नानन्दादिव्य पदेशायोगो न वा प्रयोजनाभाव इत्यवतारिकालब्धसाध्येनान्वयः ॥ (५) अत्रार्थेऽनुभवसिद्धदृष्टान्तप्रतिपादिकां स्मृतिं चाह—अलौ किकोऽपीति ॥ यद्यपि तथाऽपीत्यर्थेऽपिशब्दः । आदिपदादानन्दादिग्र हः। ‘तच्छब्दैः’ ज्ञानमित्यादिरूपैर्लौकिकैश्शब्दैः ‘लोकस्य’ जनस्य ज्ञापनार्थायेवेति सम्बन्धः। बोधकत्वसर्वव्यवहारहेतुत्वानुकूलवेदनी १०१