भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 861, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 861

<९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः' (गी. २-१६.) इति वचनात् सर्ववेदान्तविनिर्णयोत्पाद्यज्ञानं ब्रह्म। (२) 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यादिविधीनां त दित्यपिशब्दार्थः । यद्वा—'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्य र्थः। अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयो क्तो भवति । वचनादिति । गीतायामिति शेषः । सूत्रे पूर्वसूत्रात् ब्र ह्मवाचकं पूर्वपद्मनुवर्त्य सर्वेति साध्यभागं व्याचष्टे—सर्वेति । सूत्र भाष्ययोर्वेदशब्दः तदर्थपरः । शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वा भावात् । तथा च सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रूपः प्रत्य यो ज्ञानं यस्य तत्तथोक्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् । अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथा च तत्त्वप्रदीपटीकारीत्या पूर्वपदोदितं ब्रह्म सर्ववेदाधिगमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्ण यरुपज्ञानविषय इति साध्यार्थः । टीकायां ध्यानार्थिना सर्ववेदान्निर्णी य श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः । केचित्तु-सर्ववेदानां योऽन्तः निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः। अस्मिन् पक्षे व्यधिकरणबहुव्रीहिमात्रं दोषः । उदाहृततत्त्वप्रदीपटीके अनुगुणे । सर्ववेदनिर्णयेनोत्पाद्यज्ञान