पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 862, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - २. ] दीपिकासहितम्. ८१५ युक्तयुक्तीनां च अविशिष्टत्वात् ॥ १ ॥ ( ३ ) सू-ॐ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥ २ ॥ तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येते सर्व एकंभवन्ति' (बृ.३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ.३-४-१५.) 'न हास्य कर्म क्षीयते' (बृ.३-४-१५.) 'अमृतस्यैष सेतुः' (मुं.२-२-५०) 'वाचो विग्लापनं हि तत्' (बृ.६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां 'अविशिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इतरांगस्तु भे यादिप्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः । बृहदार ण्यके 'आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्व प्रशंसार्थमर्थवादइद्भूतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः' (बृ. ३-४-७.) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वश्रोतृत्व मन्तृत्वादयः सर्वेगुणाः 'एकं भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रा त्मत्वस्य विवक्षितसर्वगुणसंग्राहकत्वयुक्तिरुच्यते । यद्यपि 'अत्र' आत्मत्वे सर्वेऽप्यान्दादयो गुणाः अन्तर्भवन्तीत्यर्थः टीकायां 'आत्म गृहीतिः' इत्यधिकरणे अभिहितः । तथा व्यासतीर्थीये 'अत्र' आत्म शब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन 'एकं भवन्ति' पुञ्जी भवन्तीत्यर्थ उक्तः । ते च पूर्वे नोक्ताः, किन्तु तत्त्वप्रदीपोदाहृतवाक्यो क्ता एव । तथाऽपि 'प्राणन्' इत्यनेनानन्दस्वामित्वनिर्दोषत्वानां ग्रह णादविरोधः । एवं 'आत्मानमेव लोकम्' इति विधिसमीपवर्तिनि 'न हास्य' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्व णे 'तमेवैकम्' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थवादे मु क्तोपसृप्यत्वयुक्तिरुच्यते । तथा बृहदारण्यके 'विज्ञाय' इति वाक्य समीपवर्तिनि 'वाचो विग्लापनम्' इति वाक्येऽन्यार्थवेदाध्ययनादे र्वाक्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनाम विशेषात्सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामवि शेषात्, एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देश शून्यत्वात् तदुक्तयुक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषकल्पक त्वादिति हेतुवाक्यस्यानेकधार्थ उक्तो भवति ॥ ( ३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपपाशं तावद्व्याचष्टे-भे दादिति ॥ 'विज्ञानम्' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके । आ