भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 863, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 863

'विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) 'सत्यं ज्ञानमन- न्तं ब्रह्म' (तै. २-१.) इत्यादिप्रतिशाखमुक्तिभेदान्नै- काधिकारिविषयाः सर्वशाखा इति चेत्—न, एक- स्यामपि शाखायां 'आत्मेत्येवोपासीत' (बृ.३-४-७.) दिपदेन 'श्रोता मन्ता' (ऐ.आ.३-२-४-१९.) इत्यैतरेयवाक्यम्, 'य आत्मा ऽपहतपाप्मा' (छा.८-७-१.) इति छन्दोगवाक्यं च गृह्यते । प्रतिशाखम- त्याद्युक्तिभेदादित्यन्वयः । इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उ- क्तिः वाचिका येषामर्थानामिति च द्वेधा विग्रहः । एवमाक्षेपांशे साध- नांशं व्याख्याय साध्यांशं व्याख्याति—नेति । सर्वशाखाः नैकार्थविषयाः तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिका- रिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नञावृ- त्त्यभिप्रायेण सौत्रं परिहारांशं व्याचष्टे—नेति । तत्तच्छाखोक्तार्थानां पृ- थक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यम्, किन्त्वनेकैरिति नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे—एकस्यामिति । न केवलमनेकशाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य वि- शेष्यत्वमभिप्रेत्याह—शाखायामिति । वाजसनेयशाखायामित्यर्थः । इत्यादीति । इत्याद्युक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिकधर्माणां च भे- ददर्शनादित्यर्थः । आवृत्त्यान्वितस्य भेदादित्यस्यासिद्धिपरिहाराय —दर्शनादित्युक्तम् । आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्द- ज्ञानवाचिनौ । आदिशब्देन गुणान्तरोक्तयो गृह्यन्ते । सूत्रे भेदादपी- त्यपिशब्दान्वयः । न भेदादित्यपि । भेदशब्देन प्रसङ्गभेदोऽपि ग्राह्यः । साम्यादिति शेषः । तथा चायं सूत्रार्थः—'भेदात्' प्रतिशाखं 'वि- ज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्युक्तिभेदात् अत एव सर्वशाखोक्तार्थानामपि 'भेदात्' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु स्वस्वशाखान्तप्रत्ययमिति चेन्न । तथा सति 'एकस्यामपि' चोदनायां शाखायां 'भेदात्' 'आत्मेत्येवोपासीत' 'कं ब्रह्म खं ब्रह्म' (छा.४-१०-५.) इत्याद्युक्तिभेददर्शनात् अत एव तत्रो- क्तार्थानामपि भेदावगमादेकस्यामपि 'भेदात्' अधिकारिभेदप्रसङ्गात्। नन्वेकस्यामपि शाखायां विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात्' अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशाखास्वपि विधेयध- र्मस्यैव भेदाद्धर्मिणां न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्व