पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 864, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. सू - ३. ] दीपिकासहितम्. ८१७ 'कं ब्रह्म खं ब्रह्म' (छा. ४-१०-५.) इत्यादिभेददर्शनात् ॥२॥ (४) सू-ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि काराच्च ॥ ॐ ॥ ३ ॥ 'स्वाध्यायोऽध्येतव्यः' (तै. आ. २-१५.) इति सामा न्यविधेः । हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । इति स्मृतेः ॥ शाखोक्तं ब्रह्म, तथासति न भेदात् सर्वशाखानामेकविषयत्वात्पौनरु क्त्यप्रसंगादिति चेन्न । एकस्यामपि साम्यात् । नन्वेकस्यां शाखायां प्रसंगभेदात् प्रागुक्तस्यानुवादाद्वा न पौनरुक्त्यम् । काण्वश्रुतौ 'अ यं पुरुषः' (बृ. ६-३-९.) इति द्विरुक्तवाक्यस्य जीवस्य परमात्म ज्योतिष्ट्वपरस्य स्वप्नसुषुप्तिप्रकरणयोः श्रुतस्य प्रसङ्गभेदेनानुवादवि धानाभ्रयणात्पौनरुक्त्यवत् छन्दोगश्रुतौ 'सैषा षड्विधा चतुष्पदा गा यत्री' (छा. ३-१२-५.) इति वाक्ये प्रसङ्गभेदात्प्रागुक्तषाड्विध्यानुवा देन चतुष्पात्त्वविधानात्तदंशेऽपौनरुक्त्यवच्चेति चेन्न । 'अपि' सर्वशा खास्वपि प्रसङ्गभेदात् अनुवादादिपरिहारस्य साम्यादिति ॥ (४) पूर्वं सर्ववेदान्तप्रत्ययमित्यत्रैव हेत्वन्तराभिधानाय सूत्रं-स्वा ध्यायस्येति ॥ अत्र स्वाध्यायस्य तथात्वेनेत्यावृत्तेन हेतुवाक्येनोक्तं हेतुं साधकं हेतुमाह-स्वाध्याय इति । इति विधेः सामान्यादित्यन्वयः । 'स्वा ध्यायोऽध्येतव्यः' इति यजुर्वेदगतविधेः 'सामान्यात्' अयं स्वाध्यायो ऽनेनाध्येतव्यः अयं अनेन इति विशेषं विना सर्ववेदसर्वाधिकारिसा धारणत्वादित्यर्थः । सामान्यपदेन सौत्रं तथात्वपदं अविशेषादिति प्र कृतसाधारणार्थकमित्युक्तं भवति । पञ्चमीप्रयोगेन तृतीया पञ्चम्यर्थे त्युक्तम् । विधेरित्यनन्तरं स्वाध्यायस्य तथात्वेनेति संयोज्यं, तस्य स्वा ध्यायस्य सर्वशाखाध्ययनस्य तथात्वेन सर्वसाधारणत्वेन एकैकाधि कारिकत्वेनेत्यर्थः । सूत्रे भाष्ये च हेत्वन्तरद्योतकः चशब्दोऽत्रापि योज्यः । ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठता ऽऽवश्यकीति सामान्यादित्यसिद्धमित्यतः प्रवृत्तस्य हिशब्दस्यार्थमा ह-हिशब्दादिति । सूचिताया इति शेषः । स्मृतेरित्यस्य विधेः सा मान्यादित्यनेनान्वयः । ज्ञानोपलक्षकमेतत् । 'द्विजन्मना' त्रैवर्णिकेन 'सरहस्यः' उपनिषत्सहितो रहस्यार्थसहितो वा 'कृत्स्नः' सर्वो वे १०३