पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 865, कुल 1267 में से
संदर्भ में पढ़ें८१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ] ( ५) सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्मात् शाखाभेदो ह्यशक्तिजः ॥ सर्वकर्मकृतौ यस्मात् अशक्तास्सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत् ॥ इति समाचारे सर्वेषामधिकाराच्च ॥ ३ ॥ दः 'अधिगन्तव्यः ' अर्थज्ञानार्थमध्येतव्य इत्यर्थः । एवं सर्वशाखत्यपि द्रष्टव्यम् ॥ ( ५ ) किं च अनुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववे- दोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावः तदा तदुक्तब्रह्मज्ञानं सु- तरामिति भावेन हेत्वन्तरप्रतिपादनाय प्रवृत्तं समाचारेऽधिकाराच्चेत्यं- शं सप्रमाणकं व्याचष्टे—सर्वेति ॥ सर्वान् वेदान् सर्वशाखाश्च अधिग- म्य ' सर्ववेदोक्तमार्गेण' तदुक्तप्रकारेणानुष्ठानपूर्वकं यज्ञादि कर्म 'नि- त्यशः ' नित्यं कुर्यात् सर्वोऽपि जन्तुरिति विपरिणामेनान्वयः । न च प्र- योजनाभावः। 'हि' यतः यस्माद्वेदोदितसर्वकर्मज्ञानतदनुष्ठानात् 'आन- न्दः ' मौक्त