भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 866, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 866

[ अधि - १०. सू - ५० ] दीपिकासहितम्. ८१९ ( ६ ) सू—ॐ ॥ सलिलवच्च तन्नियमः ॥ ॐ ॥ ४ ॥ यथा सर्वं सलिलं समुद्रं गच्छति । एवं सर्वाणि वच नानि ब्रह्मज्ञानार्थानीति नियमः । ( ७ ) आग्नेये च— यथा नदीनां सलिलं शक्ये सागरगं भवेत् । एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये ॥ इति ॥४ ॥ ( ८ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ ५ ॥ सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिध्येत् । र्यवसायित्वं, न त्वक्षरग्रहणमात्रे चरितार्थत्वम् । न केवलं स्वाध्याय स्य तथात्वात्, किन्तु सर्ववेदोक्तकर्मसमाचारे सर्वेषामधिकारात् , अत एव सुतरां तत्साध्ये ब्रह्मज्ञानेऽधिकाराच्च , पूर्वं ब्रह्म एकैकेनैव सर्ववेदान्तप्रत्ययमिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपे तु कैमुत्यं न प्रदर्शितम् ॥ ( ६ ) ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारः, त र्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—सलिलवदिति ॥ ‘सर्वं सलिलं’ नद्यादिजलं ‘गच्छति’ प्राप्नोति ‘वचनानि’ वेदवचनानि ‘ब्रह्मज्ञानार्थानि’ पुंशक्त्यनुसारेण स्वज्ञानद्वारा ब्रह्मज्ञानप्रयोजनानीत्यर्थः । इति नियम इति । इत्येवंरू पन्नियम इत्यर्थः । अनेन सूत्रे स चासौ नियमश्च तन्नियमः ध्यानेच्छु ना सर्ववेदान्तप्रत्ययं ब्रह्म सर्ववेदोक्तप्रकारेण ज्ञातव्यमित्येवंरूपः, त स्य तत्त्वं च प्रतिबन्धाभावमपेक्ष्य प्रवृत्तत्वं, चशब्दश्च प्रतिबन्धाभाव मपेक्ष्यैव नियमो, न त्वतिदृढ इत्यवधारणार्थ इत्युक्तं भवति ॥ ( ७ ) चशब्दः स्मृतिसमुच्चायकोऽपीत्यभिप्रेत्यात्रैवार्थे स्मृतिमा ह—आग्नेये चेति ॥ न केवलं सूत्रे, किन्तु स्मृतावप्ययमर्थ उक्त इत्य र्थः । शक्य इति । समुद्रं गन्तुं शक्ये सतीत्यर्थः । असति प्रतिबन्धक इति यावत् । ‘वाक्यानि’ वेदवचनानि ‘पुंशक्त्या’ पुरुषशक्त्यनु सारेण ‘ब्रह्मवित्तये’ अध्ययनद्वारा परब्रह्मज्ञानाय भवन्तीत्यर्थः । त था च यथाशक्त्यधीतसर्ववेदेभ्यः श्रवणमननाभ्यां ब्रह्म जानतां मन्दा नामपि ध्यानोपपत्तिरिति भावः । इत्याग्नेये इतीतिशब्दान्वयः ॥ ( ८ ) चोदनाद्यविशेषादित्यक्तिसमर्थितार्थे श्रुतिस्मृतिभ्यां च सां