पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 86, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १० ] दीपिकासहितम्. ३९ ( ८६ ) इति हि श्रुतिः । “ तन्नो विष्णुः ” ( महाना. १० ) इति वचनाद् विष्णुरेव हि तत्रोच्यते । ( ८७ ) न चेतरशब्दात्तत्प्राप्तिः । त्वं तद्वदिति नारायणपण्डिताचार्योक्तिः । “ व्यससर्ज विससर्ज बहु- लग्रहणात् ” इति प्रमेयदीपोक्तिरपि ह्रस्वाभिप्रायिकैव । केचित्तु लि- ट्यडागमश्छान्दसो बहुलग्रहणादिति प्रमेयदीपार्थमाहुः । तदार्यो- क्तत्पक्षान्तरम् । पद्मनाभतीर्थकृततत्त्वनिर्णयटीकायां न्यायरत्नावल्यां तु ' वयन्ति ' इति विच्छिद्य ' तदक्षरे ' इत्येव च पठित्वा, “ यं पुरुषं समुद्रेऽन्तः कवयो वयन्ति वाञ्छन्ति तदक्षरे यस्मिन् तस्मिन् अक्षरे नाशवर्जिते परमे प्रजास्तदाधाराः तिष्ठन्ति, जगतः प्रसूती जगज्जन- यित्री प्रकृतिः यतः प्रसूता प्रादुर्भूता सती तोयेन इतरमिश्रितेन जीवा- न् देहवत्त्वेन व्यससर्ज विसृष्टवती ” इत्येकान्वयेन “ तदेव तात्पर्यविष- यीभूतत्वादृतं तदेवाबाधितरूपत्वात्सत्यं तदेव कवीनामभिमतं परं ब्रह्म” इत्यर्थ उक्तः । नारायणपण्डिताचार्यकृतौ तत्त्वमञ्जर्यामपि ‘तद्- क्षरे ' इति पठित्वा “ यमवयन्ति अवगच्छन्ति यस्मिंस्तस्मिन् अक्षरे प्रजाः सन्ति यतः प्रसूता पराधीनविशेषं प्राप्ता श्रीः तोयेन कर्मणा जीवान् भूम्यां प्रकृत्यां व्यससर्ज ” इत्यन्वयेन “ तदेवर्तं शश्वदेकप्र- कारं सत्यं साधु ब्रह्म गुणपूर्णं ” इत्यर्थ उक्तः ॥ ( ८६ ) ननु ‘तदेव’ इति वाक्ये तच्छब्देन कुतो विष्णुनिश्चयः? समुद्रस्थत्वलिङ्गादिति चेत्—न, तस्य रुद्रादावपि कथं चित्सम्भ- वादित्यतो निरवकाशविष्णुश्रुतेरेवेत्याह—' तन्नः ' इति । ‘इति वच- नाद्विष्णुरेव ’ ‘ तत्र ’ ‘ तदेव ’ इति श्रुतौ तच्छब्देन ‘ उच्यते ’ इति निश्चीयत इत्यर्थः । हिशब्दः प्रसिद्धौ । अत्र ‘ तन्नः ' इत्येकदेशग्रहणे- न “ नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोद- यात् ” इति समग्रवाक्यं गृह्यते । द्वितीयार्थे चतुर्थ्यौ । तथा च य- स्मात् वयं नारायणं ‘ विद्महे ' जानीमहे यतश्च तं वासुदेवं ‘धीम- हि ' ध्यायेमहि ‘तत् ' तस्मात् नः ’ अस्मान् ‘तत् ' शुभं प्रति ‘वि- ष्णुः प्रचोदयात् ’ प्रेरयत्विति श्रुत्यर्थः ॥ ( ८७ ) यद्युत्तरवाक्ये विष्णुशब्दश्रवणाद्विष्णुरेवात्रोक्तं ब्रह्म, तर्हि ‘ तन्नो रुद्रः ’ इत्यादीतरशब्दश्रवणात् रुद्रादेरपि मुख्यब्रह्मता प्राप्तेत्य-