पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 873, कुल 1267 में से
संदर्भ में पढ़ें८२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सर्वविद्या उक्त्वा 'सोऽहं नामविदेवास्मि नात्मवित्' (छा.७-१-३.) इति वचनात्सर्वस्य ब्रह्मनामत्वात्तदु- पसंहारः कार्यः । ( ९ ) नामत्वात्सर्वविद्यानां गुणानामुपसंहृतिः । कार्यैव ब्रह्मणि परे नात्रकार्या विचारणा ॥ वित्' इति वचनादिति । सनत्कुमारं प्रति नारदोक्तेरित्यर्थः । इति व- चनादवगतात् ब्रह्मनामत्वादित्यन्वयः । 'सः ' एवं सर्वविद्यावेत्ताऽप्य- हं परमात्मनामविदेवास्मि न परमात्मवित् । कुतः ? सर्वविद्यानिर्णेत- व्याज्ञानादिति श्रुत्यर्थः । यद्यपि ' मन्त्रविदेव ' इति छन्दोगानां पाठः । तथाऽपि शाखान्तरवाक्यमेतदित्यदोषः । ' यद्वै किं चिदध्यगीष्ट नामै- वैतत् ' ( छा. ७-१-३.) इति उत्तरवाक्यबलान्मन्त्रशब्दो नामपरो वा । केचित्तु — ' मन्त्रवित् ' इत्येव श्रुतिपाठः । भाष्यं तूपनिषदर्थानुवादप- रमित्याहुः । ननु 'सोऽहम् ' इति वाक्ये स्वस्य नामवित्त्वमात्रोक्तावपि कथं सर्वस्य ब्रह्मनामत्वसिद्धिरित्यत आह — सर्वेति । ऋग्वेदमित्यादि- नेति प्रागध्याहार्यम् । वेदयन्तीति विद्या वेदादयः । तथा च ' ऋ- ग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदं अथर्वणं चतुर्थमितिहासपुरा- णं पञ्चमं वेदानां वेदम् ' ( छा. ७ - १ - २. ) इत्यादिनाऽऽत्मनः सर्वविद्यावेदित्वमुक्त्वेत्यर्थः । यद्वा — ऋगादिसर्वविद्या आत्मना अ- धीता इत्युक्त्वेत्यर्थः । तथा च सर्वविद्यावेत्ताऽहं नामविदेवेत्युक्ति- बलात् सर्वस्य ब्रह्मनामत्वमवगम्यत इति भावः । श्रुत्यर्थस्तु — ' भग- वो ' भगवन् सनत्कुमार अहं ऋग्वेदादिकमध्येमि । इतिहासपुराणमि- ति द्वन्द्वैकवद्भावः । विशेष्यनिघ्नोऽयं शब्दः । वेदशब्द आवर्तते । तथा च इतिहासपुराणात्मकं ग्रन्थं वेदं सन्तं वेदानां पञ्चमं पञ्चत्वसङ्ख्या- पूरणं वेदमध्येमीति ॥ ( ९ ) अत्रैव स्मृतिमाह — नामत्वादिति ॥ सर्वविद्यानां ब्रह्मनाम- त्वात् । अत एव सर्वगुणाभिधायकत्वाद्गुणाभिधानस्य चोपसंहारार्थ- त्वात्परे ब्रह्मणि गुणानामुपसंहृतिः कार्यैवेति योजना । इति चेति । इ- ति ब्रह्मतर्कवचनाच्चोपसंहारः कार्य इत्यन्वयः । न केवलं सूत्रकृदुक्त- हेतोरिति चार्थः । अभ्युपगमरूपं तदुक्तमित्यादिसमाधानांशं व्याच- ष्टे — सत्यमिति । सोपपत्तिकं यद्गुणोपसंहारकर्तव्यत्वमुक्तं तत् ' स-